लघुसिद्धान्तकौमुदी
॥ अथ लघुसिद्धान्तकौमुद्यां संज्ञाप्रकरणम् ॥
॥ १. अइउण् । २. ऋऌक् । ३. एओङ् । ४. ऐऔच् । ५. हयवरट् । ६. लण् । ७. ञमङणनम् । ८. झभञ् । ९. घढधष् । १०. जबगडदश् । ११. खफछठथचटतव् । १२. कपय् । १३. शषसर् । १४. हल् ॥
इति माहेश्वराणि सूत्राण्यणादिसंज्ञार्थानि । एषामन्त्याः इतः । हकारादिष्वकार उच्चारणार्थः । लण्मध्ये त्वित्संज्ञकः ।
१ हलन्त्यम् - १.३.३ ,
उपदेशेऽन्त्यं हलित्स्यात्। उपदेश आद्योच्चारणम्। सूत्रेष्वदृष्टं पदं सूत्रान्तरादनुवर्तनीयं सर्वत्र॥
२ अदर्शनं लोपः - १.१.६० ,
प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात्॥
३ तस्य लोपः - १.३.९ ,
तस्येतो लोपः स्यात्। णादयोऽणाद्यर्थाः॥
४ आदिरन्त्येन सहेता - १.१.७१ ,
अन्त्येनेता सहित आदिर्मध्यगानां स्वस्य च संज्ञा स्यात् । यथाऽणिति अ इ उ वर्णानां संज्ञा। एवमच् हल् अलित्यादयः॥
५ ऊकालोऽज्झ्रस्वदीर्घप्लुतः - १.२.२७
उश्च ऊश्च ऊ३श्च वः; वां काल इव कालो यस्य सोऽच् क्रमाद् ह्रस्वदीर्घप्लुतसंज्ञः स्यात्। स प्रत्येकमुदात्तादिभेदेन त्रिधा॥
६ उच्चैरुदात्तः - १.२.२९ ,
७ नीचैरनुदात्तः - १.२.३० ,
८ समाहारः स्वरितः - १.२.३१
स नवविधोऽपि प्रत्येकमनुनासिकत्वाननुनासिकत्वाभ्यां द्विधा ॥
९ मुखनासिकावचनोऽनुनासिकः - १.१.८
मुखसहितनासिकयोच्चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्यात् । तदित्थम् - अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादश भेदाः । ऌवर्णस्य द्वादश तस्य दीर्घाभावात् । एचामपि द्वादश तेषां ह्रस्वाभावात् ॥
१० तुल्यास्यप्रयत्नं सवर्णम् - १.१.९ ,
ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात्। ऋऌवर्णयोर्मिथः सावर्ण्यं वाच्यम् । अकुहविसर्जनीयानां कण्ठः। इचुयशानां तालु। ऋटुरषाणां मूर्धा। ऌतुलसानां दन्ताः। उपूपध्मानीयानामोष्ठौ। ञमङणनानां नासिका च। एदैतोः कण्ठतालु। ओदौतोः कण्ठोष्ठम्। वकारस्य दन्तोष्ठम्। जिह्वामूलीयस्य जिह्वामूलम्। नासिकाऽनुस्वारस्य। यत्नो द्विधा - आभ्यन्तरो बाह्यश्च। आद्यः पञ्चधा - स्पृष्टेषत्स्पृष्टेषद्विवृतविवृतसंवृतभेदात्। तत्र स्पृष्टं प्रयतनं स्पर्शानाम्। ईषत्स्पृष्टमन्तःस्थानाम्। ईषद्विवृतमूष्मणाम्। विवृतं स्वराणाम्। ह्रस्वस्यावर्णस्य प्रयोगे संवृतम्। प्रक्रियादशायां तु विवृतमेव। बाह्यप्रयत्नस्त्वेकादशधा - विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणो महाप्राण उदात्तोऽनुदात्तः स्वरितश्चेति। खरो विवाराः श्वासा अघोषाश्च। हशः संवारा नादा घोषाश्च। वर्गाणां प्रथमतृतीयपञ्चमा यणश्चाल्पप्राणाः। वर्गाणां द्वितीयचतुर्थौ शलश्च महाप्राणाः। कादयो मावसानाः स्पर्शाः। यणोऽन्तःस्थाः। शल ऊष्माणः। अचः स्वराः। ≍क≍ख इति कखाभ्यां प्रागर्धविसर्गसदृशो जिह्वामूलीयः। ≍प≍फ इति पफाभ्यां प्रागर्धविसर्गसदृश उपध्मानीयः। अं अः इत्यचः परावनुस्वारविसर्गौ॥
११ अणुदित् सवर्णस्य चाप्रत्ययः - १.१.६९ ,
प्रतीयते विधीयत इति प्रत्ययः। अविधीयमानोऽणुदिच्च सवर्णस्य संज्ञा स्यात्। अत्रैवाण् परेण णकारेण। कु चु टु तु पु एते उदितः। तदेवम् - अ इत्यष्टादशानां संज्ञा। तथेकारोकारौ। ऋकारस्त्रिंशतः। एवम् ऌकारोऽपि। एचो द्वादशानाम्। अनुनासिकाननुनासिकभेदेन यवला द्विधा; तेनाननुनासिकास्ते द्वयोर्द्वयोस्संज्ञा॥
१२ परः सन्निकर्षः संहिता - १.४.१०९ ,
वर्णानामतिशयितः सन्निधिः संहितासंज्ञः स्यात् ॥
१३ हलोऽनन्तराः संयोगः - १.१.७ ,
अज्भिरव्यवहिता हलः संयोगसंज्ञाः स्युः॥
१४ सुप्तिङन्तं पदम् - १.४.१४ ,
सुबन्तं तिङन्तं च पदसंज्ञं स्यात् ॥
॥ इति लघुसिद्धान्तकौमुद्यां संज्ञाप्रकरणम् ॥
लघुसिद्धान्तकौमुदी
॥ अथ लघुसिद्धान्तकौमुद्याम् अच्सन्धिः ॥
१५ इको यणचि - ६.१.७७ ,
इकः स्थाने यण् स्यादचि संहितायां विषये। सुधी उपास्य इति स्थिते॥
१६ तस्मिन्निति निर्दिष्टे पूर्वस्य - १.१.६६ ,
सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहितस्य पूर्वस्य बोध्यम्॥
१७ स्थानेऽन्तरतमः - १.१.५० ,
प्रसङ्गे सति सदृशतम आदेशः स्यात् । सुध्य् उपास्य इति जाते ॥
१८ अनचि च - ८.४.४७ ,
अचः परस्य यरो द्वे वा स्तो न त्वचि। इति धकारस्य द्वित्वेन सुध्ध्य् उपास्य इति जाते॥
१९ झलां जश् झशि - ८.४.५३ ,
स्पष्टम्। इति पूर्वधकारस्य दकारः॥
२० संयोगान्तस्य लोपः - ८.२.२३ ,
संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात्॥
२१ अलोऽन्त्यस्य - १.१.५२ ,
षष्ठीनिर्दिष्टस्यान्त्यस्याल आदेशः स्यात्। इति यलोपे प्राप्ते - यणः प्रतिषेधो वाच्यः (वार्त्तिकम्)। सुद्ध्युपास्यः। मद्ध्वरिः। धात्रंशः। लाकृतिः॥
२२ एचोऽयवायावः - ६.१.७८ ,
एचः क्रमादय् अव् आय् आव् एते स्युरचि॥
२३ यथासंख्यमनुदेशः समानाम् - १.३.१० ,
समसंबन्धी विधिर्यथासंख्यं स्यात्। हरये। विष्णवे। नायकः। पावकः
२४ वान्तो यि प्रत्यये - ६.१.७९ ,
यकारादौ प्रत्यये परे ओदौतोः अव् आव् एतौ स्तः। गव्यम्। नाव्यम्। अध्वपरिमाणे च (वार्त्तिकम्) गव्यूतिः॥
२५ अदेङ् गुणः - १.१.२ ,
अत् एङ् च गुणसंज्ञः स्यात्॥
२६ तपरस्तत्कालस्य - १.१.७० ,
तः परो यस्मात्स च तात्परश्चोच्चार्यमाणसमकालस्यैव संज्ञा स्यात्॥
२७ आद्गुणः - ६.१.८७ ,
अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात्। उपेन्द्रः। गङ्गोदकम्॥
२८ उपदेशेऽजनुनासिक इत् - १.३.२ ,
उपदेशेऽनुनासिकोऽजित्संज्ञः स्यात्। प्रतिज्ञानुनासिक्याः पाणिनीयाः। लण्सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः संज्ञा॥
२९ उरण् रपरः - १.१.५१ ,
ऋ इति त्रिंशतः संज्ञेत्युक्तम्। तत्स्थाने योऽण् स रपरः सन्नेव प्रवर्तते। कृष्णर्द्धिः। तवल्कारः॥
३० लोपः शाकल्यस्य - ८.३.१९ ,
अवर्णपूर्वयोः पदान्तयोर्यवयोर्लोपो वाऽशि परे॥
३१ पूर्वत्रासिद्धम् - ८.२.१ ,
सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम्। हर इह, हरयिह। विष्ण इह, विष्णविह॥
३२ वृद्धिरादैच् - १.१.१ ,
आदैच्च वृद्धिसंज्ञः स्यात्॥
३३ वृद्धिरेचि - ६.१.८८ ,
आदेचि परे वृद्धिरेकादेशः स्यात्। गुणापवादः। कृष्णैकत्वम्। गङ्गौघः। देवैश्वर्यम्। कृष्णौत्कण्ठ्यम्॥
३४ एत्येधत्यूठ्सु - ६.१.८९ ,
अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात्। उपैति। उपैधते। प्रष्ठौहः। एजाद्योः किम्? उपेतः। मा भवान्प्रेदिधत्। अक्षादूहिन्यामुपसंख्यानम् (वार्त्तिकम्) । अक्षौहिणी सेना। प्रादूहोढोढ्येषैष्येषु (वार्त्तिकम्)। प्रौहः। प्रौढः। प्रौढिः। प्रैषः। प्रैष्यः। ऋते च तृतीयासमासे (वार्त्तिकम्)। सुखेन ऋतः सुखार्तः। तृतीयेति किम्? परमर्तः। प्रवत्सतरकम्बलवसनार्णदशानामृणे (वार्त्तिकम्) । प्रार्णम्, वत्सतरार्णम्, इत्यादि॥
३५ उपसर्गाः क्रियायोगे - १.४.५९ ,
प्रादयः क्रियायोगे उपसर्गसंज्ञाः स्युः। प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि उप - एते प्रादयः॥
३६ भूवादयो धातवः - १.३.१ ,
क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः॥
३७ उपसर्गादृति धातौ - ६.१.९१ ,
अवर्णान्तादुपसर्गादृकारादौ धातौ परे वृद्धिरेकादेशः स्यात्। प्रार्च्छति॥
३८ एङि पररूपम् - ६.१.९४ ,
आदुपसर्गादेङादौ धातौ पररूपमेकादेशः स्यात् । प्रेजते । उपोषति ॥
३९ अचोऽन्त्यादि टि - १.१.६४ ,
अचां मध्ये योऽन्त्यः स आदिर्यस्य तट्टिसंज्ञं स्यात्। शकन्ध्वादिषु पररूपं वाच्यम् (वार्त्तिकम्) । तच्च टेः। शकन्धुः। कर्कन्धुः मनीषा। आकृतिगणोऽयम्। मार्त्तण्डः॥
४० ओमाङोश्च - ६.१.९५ ,
ओमि आङि चात्परे पररूपमेकादेशः स्यात् । शिवायों नमः । शिव एहि ॥
४१ अन्तादिवच्च - ६.१.८५ ,
योऽयमेकादेशः स पूर्वस्यान्तवत्परस्यादिवत्। शिवेहि॥
४२ अकः सवर्णे दीर्घः - ६.१.१०१ ,
अकः सवर्णेऽचि परे पूर्वपरयोर्दीर्घ एकादेशः स्यात्। दैत्यारिः। श्रीशः। विष्णूदयः। होतॄकारः॥
४३ एङः पदान्तादति - ६.१.१०९ ,
पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात्। हरेऽव। विष्णोऽव॥
४४ सर्वत्र विभाषा गोः - ६.१.१२२ ,
लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः पदान्ते। गोअग्रम्, गोऽग्रम्। एङन्तस्य किम्? चित्रग्वग्रम्। पदान्ते किम्? गोः॥
४५ अनेकाल्शित्सर्वस्य - १.१.५५ ,
इति प्राप्ते॥
४६ ङिच्च - १.१.५३ ,
ङिदनेकालप्यन्त्यस्यैव स्यात्॥
४७ अवङ् स्फोटायनस्य - ६.१.१२३ ,
पदान्ते एङन्तस्य गोरवङ् वाऽचि । गवाग्रम्, गोऽग्रम् । पदान्ते किम् ? गवि ॥
४८ इन्द्रे च - ६.१.१२४ ,
गोरवङ् स्यादिन्द्रे। गवेन्द्रः॥
४९ दूराद्धूते च - ८.२.८४ ,
दूरात्सम्बोधने वाक्यस्य टेः प्लुतो वा॥
५० प्लुतप्रगृह्या अचि नित्यम् - ६.१.१२५ ,
एतेऽचि प्रकृत्या स्युः। आगच्छ कृष्ण ३ अत्र गौश्चरति॥
५१ ईदूदेद्द्विवचनं प्रगृह्यम् - १.१.११ ,
ईदूदेदन्तं द्विवचनं प्रगृह्यं स्यात्। हरी एतौ। विष्णू इमौ। गङ्गे अमू॥
५२ अदसो मात् - १.१.१२ ,
अस्मात्परावीदूतौ प्रगृह्यौ स्तः। अमी ईशाः। रामकृष्णावमू आसाते। मात्किम्? अमुकेऽत्र॥
५३ चादयोऽसत्त्वे - १.४.५७ ,
अद्रव्यार्थाश्चादयो निपाताः स्युः॥
५४ प्रादयः - १.४.५८ ,
एतेऽपि तथा॥
५५ निपात एकाजनाङ् - १.१.१४ ,
एकोऽज् निपात आङ्वर्जः प्रगृह्यः स्यात्। इ इन्द्रः। उ उमेशः। वाक्यस्मरणयोरङित्; आ एवं नु मन्यसे। आ एवं किल तत्। अन्यत्र ङित् ; आ ईषदुष्णम् ओष्णम्॥
५६ ओत् - १.१.१५ ,
ओदन्तो निपातः प्रगृह्यः स्यात्। अहो ईशाः॥
५७ सम्बुद्धौ शाकल्यस्येतावनार्षे - १.१.१६ ,
सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिके इतौ परे। विष्णो इति, विष्ण इति, विष्णविति॥
५८ मय उञो वो वा - ८.३.३३ ,
मयः परस्य उञो वो वाऽचि। किम्वुक्तम्, किमु उक्तम्॥
५९ इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च - ६.१.१२७ ,
पदान्ता इको ह्रस्वा वा स्युरसवर्णेऽचि। ह्रस्वविधिसामर्थ्यान्न स्वरसन्धिः। चक्रि अत्र, चक्र्यत्र। पदान्ता इति किम्? गौर्यौ
६० अचो रहाभ्यां द्वे - ८.४.४६ ,
अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः। गौर्य्यौ । न समासे (वार्त्तिकम्) । वाप्यश्वः ॥
६१ ऋत्यकः - ६.१.१२८ ,
ऋति परे पदान्ता अकः प्राग्वद्वा । ब्रह्म ऋषिः, ब्रह्मर्षिः पदान्ताः किम् ? आर्च्छत् ॥
॥ इति लघुसिद्धान्तकौमुद्याम् अच्सन्धिः ॥
अथ हल्सन्धिः
स्तोः श्चुना श्चुः॥ ८४.४०॥
सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः। रामश्शेते। रामश्चिनोति। सच्चित्। शार्ङ्गिञ्जय॥
शात् ॥ ८४.४४॥
शात्परस्य तवर्गस्य चुत्वं न स्यात्। विश्नः। प्रश्नः॥
ष्टुना ष्टुः॥ ८.४.४१॥
स्तोः ष्टुना योगे ष्टुः स्यात्। रामष्षष्ठः। रामष्टीकते। पेष्टा। तट्टीका। चक्रिण्ढौकसे॥
न पदान्ताट्टोरनाम्॥ ६५.४.४२॥
पदान्ताट्टवर्गात्परस्यानामः स्तोः ष्टुर्न स्यात्। षट् सन्तः। षट् ते। पदान्तात्किम् ? ईट्टे। टोः किम् ? सर्पिष्टमम्। (अनाम्नवतिनगरीणामिति वाच्यम्)। षण्णवतिः। षण्णगर्य्यः॥
तोः षि॥ ८,४.४३॥
न ष्टुत्वम्। सन्षष्ठः॥
जशो ऽन्ते॥ ८.२.३९॥
पदान्ते झलां जशः स्युः। वागीशः॥
यरो ऽनुनासिके ऽनुनासिको वा॥ ८,४.४५॥
यरः पदान्तस्यानुनासिके परे ऽनुनासिको वा स्यात्। एतन्मुरारिः, एतद् मुरारिः। (प्रत्यये भाषायां नित्यम्)। तन्मात्रम्।
चिन्मयम्॥
तोर्लि॥ ८.४.६०॥
तवर्गस्य लकारे परे परसवर्णः। तवर्गस्य लकारे परे परसवर्णः। तल्लयः। विद्वांल्लिखति। नस्यानुनासिको लः।
उदः स्थास्तम्भोः पूर्वस्य॥ ८.४.४१॥
उदः परयोः स्थास्तम्भोः पूर्वसवर्णः॥
तस्मादित्युत्तरस्य॥ १.१.६७॥
पञ्चमीनिर्देशेन क्रियमाणं कार्यं वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम्॥
आदेः परस्य॥ १.१.५४॥
परस्य यद्विहितं तत्तस्यादेर्बोध्यम्। इति सस्य थः॥
झरो झरि सवर्णे॥ ८.४.६५॥
हलः परस्य झरो वा लोपः सवर्णे झरि॥
खरि च॥ ८.४.५५॥
खरि झलां चरः। इत्युदो दस्य तः। उत्थानम्। उत्तम्भनम्॥
झयो हो ऽन्यतरस्याम्॥ ८.४.६२॥
झयः परस्य हस्य वा पूर्वसवर्णः। नादस्य घोषस्य संवारस्य महाप्राणस्य तादृशो वर्गचतुर्थः। वाग्घरिः, वाघरिः॥
शश्छोऽटि॥ ८.४.६३॥
झयः परस्य शस्य छो वाटि। तद् शिव इत्यत्र दस्य श्चुत्वेन जकारे कृते खरि चेति जकारस्य चकारः। तच्छिवः, तच्शिवः। (छत्वममीति वाच्यम्) तच्छ्लोकेन॥
मोऽनुस्वारः॥ ८.३.२३॥
मान्तस्य पदस्यानुस्वारो हलि। हरिं वन्दे॥
नश्चापदान्तस्य झलि॥ ८.३.२४॥
नस्य मस्य चापदान्तस्य झल्यनुस्वारः। यशांसि। आक्रंस्यते। झलि किम् ? मन्यते॥
अनुस्वारस्य ययि परसवर्णः॥ ८.४.५८॥
स्पष्टम्। शान्तः॥
वा पदान्तस्य॥ ८.४.५९॥
त्वङ्करोषि, त्वं करोषि॥
मो राजि समः क्वौ॥ ८.३.२५॥
क्विबन्ते राजतौ परे समो मस्य म एव स्यात्। सम्राट्॥
हे मपरे वा॥ ८.३.२६॥
मपरे हकारे परे मस्य मो वा। किम् ह्मलयति, किं ह्मलयति। (यवलपरे यवला वा) किंय्ह्यः, किं ह्यः। किंव्ह्वलयति, किं ह्वलयति। किंल् ह्लादयति, किं ह्लादयति॥
नपरे नः॥ ८.३.२७॥
नपरे हकारे मस्य नो वा। किन् ह्नुते, किं ह्नुते॥
आद्यन्तौ टकितौ॥ १.१.४६॥
टित्कितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्तः॥
ङ्णोः कुक्टुक् शरि॥ ८.३.२८॥
वा स्तः। (चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्)। प्राङ्ख् षष्ठः, प्राङ्क्षष्ठः, प्राङ् षष्ठः। सुगण्ठ् षष्ठः सुगण्ट् षष्ठः, सुगण् षष्ठः॥
डः सि धुट्॥ ८.३.२९॥
डात्परस्य सस्य धुड्वा। षट्त्सन्तः, षट् सन्तः॥
नस्च॥ ८.३.३०॥
नान्तात्परस्य सस्य धुड्वा। सन्त्सः, सन्सः॥
शि तुक्॥ ८.३.३१॥
पदान्तस्य नस्य शे परे तुग्वा। सञ्छम्भुः, सञ्च्छम्भुः, सञ्च्शम्भुः, सञ्शम्भुः॥
ङमो ह्रस्वादचि ङमुण् नित्यम्॥ ८.३.३२॥
ह्रस्वात्परे यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो ङमुट्। प्रत्यङ्ङात्मा। सुगण्णीशः। सन्नच्युतः॥
समः सुटि॥ ८.३.५॥
समो रुः सुटि॥
अत्रानुनासिकः पूर्वस्य तुवा॥ ८.३.२॥
अत्र रुप्रकरणे रोः पूर्वस्यानुनासिको वा॥
अनुनासिकात्परो ऽनुस्वारः॥ ८.३.४॥
अनुनासिकं विहाय रोः पूर्वस्मात्परो ऽनुस्वारागमः॥
खरवसानयोर्विसर्जनीयः॥ ८.३.१५॥
खरि अवसाने च पदान्तसाय रेफस्य विसर्गः। (संपुंकानां सो वक्तव्यः)। संस्स्कर्ता, संस्स्कर्ता॥
पुमः खय्यम्परे॥ ८.३.६॥
अम्परे खयि पुमो रुः। पुंस्कोकिलः, पुंस्कोकिलः॥
नश्छव्यप्रशान्॥ ८.३.७॥
अम्परे छवि नान्तस्य पदस्यरुः॑ न तु प्रशान्शब्दस्य॥
विसर्जनीयस्य सः॥ ८.३.३४॥
खरि। चक्रिंस्त्रायस्व, चक्रिंस्त्रायस्व। अप्रशान् किम् ? प्रशान्तनोति। पदस्येति किम् ? हन्ति॥
नॄन् पे॥ ८.३.१०॥
नॄनित्यस्य रुर्वा पे॥
कुप्वोः क : पौ च॥ ८.३.३७॥
कवर्गे पवर्गे च विसर्गस्य ≍क ≍पौ स्तः, चाद्विसर्गः। नॄं≍पाहि, नॄ≍ पाहि, नॄंः पाहि। नॄन् पाहि॥
तस्य परमाम्रेडितम्॥ ८.१.२॥
द्विरुक्तस्य परमाम्रेडितम् स्यात्॥
कानाम्रेडिते॥ ८.३.१२॥
कान्नकारस्य रुः स्यादाम्रेडिते। कांस्कान्, कांस्कान्॥
छे च॥ ६.१.७३॥
ह्रस्वस्य छे तुक्। शिवच्छाया॥
पदान्ताद्वा॥ ६.१.७९॥
दीर्घात् पदान्तात् छे तुग्वा। लक्ष्मीच्छाया, लक्ष्मी छाया॥
इति हल्सन्धिः
अथ विसर्गसन्धिः
विसर्जनीयस्य सः॥ ८.३.३४॥
खरि। विष्णुस्त्राता॥
वा शरि॥ ८.३.३६॥
शरि विसर्गस्य विसर्गो वा। हरिः शेते, हरिश्शेते॥
समजुषो रुः॥ ८.२.६६॥
पदान्तस्य सस्य सजुषश्च रुः स्यात्॥
अतो रोरप्लुतादप्लुतादप्लुते॥ ६.१.११३॥
अप्लुतादतः परस्य रोरुः स्यादप्लुते ऽति। शिवोर्ऽच्यः॥
हशि च॥ ६.१.११४॥
तथा। शिवो वन्द्यः॥
भो भगो अघो अपूर्वस्य योऽशि॥ ८.३.१७॥
एतत्पूर्वस्य रोर्यादेशो ऽशि। देवा इह, देवायिह। भोस् भगोस् अघोस् इति सान्ता निपाताः। तेषां रोर्यत्वे कृते॥
हलि सर्वेषाम्॥ ८.३.२२॥
भोभगोअघोअपूर्वस्य यस्य लोपः स्याद्धलि। भो देवाः। भगो नमस्ते। अघो याहि॥
रोऽसुपि॥ ८.२.६९॥
अह्नो रेफादेशो न तु सुपि। अहरहः। अहर्गणः॥
रो रि॥ ८.३.१४॥
रेफस्य रेफे परे लोपः॥
ढ्रलोपे पूर्वस्य दीर्घोऽणः॥ ६.३.१११॥
ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः। पुना रमते। हरी रम्यः। शम्भू राजते। अणः किम् ? तृढः। वृढः। मनस् रथ इत्यत्र रुत्वे कृते हशि चेत्युत्वे रोरीति लोपे च प्राप्ते॥
विप्रतिषेधे परं कार्यम्॥ १.४.२॥
तुल्यबलविरोधे परं कार्यं स्यात्। इति लोपे प्राप्ते। पूर्वत्रासिद्धमिति रोरीत्यस्यासिद्धत्वादुत्वमेव। मनोरथः॥
एतत्तदोः सुलोपोऽकोरनञ्समासे हलि॥ ६.१.१३२॥
अककारयोरेतत्तदोर्यः सुस्तस्य लोपो हलि न तु नञ्समासे। एष विष्णुः। स शम्भुः। अकोः किम् ? एषको रुद्रः। अनञ्समासे किम् ? असः शिवः। हलि किम् ? एषो ऽत्र॥
सोऽचि लोपे चेत्पादपूरणम्॥ ६.१.१३४॥
स इत्यस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूर्य्येत। सेमामविड्ढि प्रभृतिम्। सैष दाशरथी रामः॥
इति विसर्गसन्धिः॥