अग्निस्थापना पूर्वाङ्गम्

Sri App

अग्निस्थापना पूर्वाङ्गम्


सर्वौषधयः
मुरा मासि वचा कुष्ठं शैलेयं रजनीद्वयम् ।
शुठी चम्पक मुस्ता च सर्वौषधिगणः स्मृतः । ।

सप्तमृदः 
अश्वस्थानाद्गजस्थानाद्वल्मीकात् संगमात्प्रदात् ।
राजद्वाराच्च गोष्ठाच्च मृदमानीय निक्षिपेत् ।। 

पश्चपल्लव 
अश्वत्थोदुम्बर प्लक्ष चूत न्यग्रोध पल्लवाः ।
पञ्चपल्लवमित्युक्तं सर्वकर्मणि शोभनम् ।।

पञ्चरत्न 
सुवर्ण रजतं मुक्ता लाजावर्त प्रबालकम् । 
रत्नपञ्चकमाख्यतं नारदेन महर्षिणा ।

पञ्चगव्यनिर्माणविधिः


गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
इदृशं पञ्चगव्यं हि पवित्रं कायशोधनम् ।।

अनेन मन्त्रेण गोमूत्रं स्थापयेत् । 
गोमूत्र (गहुँत) राख्दा भन्ने मन्त्र ।
ॐ भुर्भुवः स्वः तत्सवितुर्वरेण्ण्यम्भर्गोदेवस्यधीमहि ।। धियोयोनःप्रचोदयात् ।।

अनेन मन्त्रेण गोमयम् स्थापयेत् । गोबर राख्दा भन्ने मन्त्र ।
ॐ गन्धद्वारान्दुराधर्षानित्यपुष्टाङ्करीषिणीम् ।
 ईश्वरीं सर्वभूतानांतामिहोपह्वये श्रियम् ।।

अनेन मन्त्रेण गोदुग्धम् स्थापयेत् । दूध राख्दा भन्ने मन्त्र ।
ॐ आप्यायस्व समेतु ते विश्वतःसोमवृष्ण्यम् । 
भवा वाजस्य सङ्गथे ।।

अनेन मन्त्रेण गोदधि स्थापयेत् । दही राख्दा भन्ने मन्त्र ।
ॐ दधिक्राव्णोऽअकारिषञ्जिष्णोरश्वस्य व्वाजिनः ।
 सुरभि नो मुखाकरत्प्रणऽआयूᳩ षि तारिषत् ।।

अनेन मन्त्रेण गोघृतं स्थापयेत् । घ्यूराख्दा भन्ने मन्त्र ।
ॐ तेजोसि शुक्रमस्य घृतमसि धामनामासि प्रियन्देवानामनाधृष्टन्देवयजनमसि ।

अनेन मन्त्रेण पवित्रं स्थापयेत् । कुश जल,पवित्र राख्दा भन्ने मन्त्र ।
ॐ देवस्यत्वासवितुःप्प्रसवेश्श्विनोर्बाहुब्भ्याम्पूष्ष्णोहस्ताब्भ्याम् ।

अनेन मन्त्रेण दुर्वाङ्कुरान्  स्थापयेत् । दूवो राख्दा भन्ने मन्त्र ।
ॐ काण्डात्काण्डात्प्ररोहन्ति परुषः परुषस्परि । 
एवानो दूर्वे प्रतनु सहस्रेण शतेन च ।।

गायत्रीमन्त्रेण दशबारं अभिमन्त्रणं कुर्यात् I कुश र दूवोले पञ्चगव्य चलाउँदै गायत्री मन्त्रले दश पटक सम्म मन्त्रण गर्ने मन्त्र ।
ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धिमहि धियोयोनः प्रचोदयात् ।।

अनेन मन्त्रेण पञ्चगव्यं प्राशनम् कुर्यात् । 
(पञ्चगव्य खाँदा भन्ने मन्त्र )
ॐ यत्वगस्थिगतं पापं देहे तिष्ठति मामके । 
प्राशनात् पञ्चगव्यस्य दहत्यग्निरिवेन्धनम् ।।

।। अर्घनिर्माणविधिः ।।


आपः क्षीरं कुशाग्राणि दधि सर्पिश्च तण्डूलान् ।
यव सिद्धार्थकश्चैव अष्टाङ्गार्घ्य प्रकीर्तितः ।।
भूमौ त्रिकोणं मण्डलं वा चतुष्कोणं मण्डलं  विलिख्य आधारशक्तये कमलासनाय नमः इति उच्चार्य भूमौ पूजनं कृत्वा तत्र अर्घ्यपात्रं स्थापयित्वा तस्मिन् पात्रे जलदुग्धपवित्रदधिघृततण्डुलयवद्रव्याणि क्षिपेत् ॥

आफ्नो अगाडि भूईँमा चन्दनले त्रिकोणमण्डल अथवा चतुष्कोणमण्डल बनाएर । ॐ आधारशक्तये कमलासनाय नमः । भनी भूमिमा पूजा गरि त्यसमाथि अर्घपात्र राखेर सो पात्रमा जल,कुश,चन्दन,अक्षता, जौ, तिल, दूबो, सरस्युँ, फूल, द्रव्य, दही र फल सुपारी आदि राख्नु पर्छ तल भने अनुसार अर्ध्यपात्र बनाउने । 

पात्रे जलं क्षिपेत् । पात्रमा जल राख्दा भन्ने मन्त्र ।
ॐ गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धु कावेरि जलेऽस्मिन्सन्निधीं कुरु ।।

पात्रे पवित्रं क्षिपेत् । कुश राख्दा भन्ने मन्त्र।
ॐ पवित्त्रेस्थो वैष्णव्यौ सवितुर्वः प्रसवऽउत्पुनाम्यच्छिद्रेणपवित्रेण सूर्यस्य रश्मिभिः ।
 तस्य ते पवित्रपते पवित्रपूतस्य यत्काम: पुनेतच्छकेयम् ।।

पात्रे गन्धं क्षिपेत् । चन्दन राख्दा भन्ने मन्त्र ।
ॐ गन्धद्वारान्दुराधर्षान्नित्यपुष्टाङ्करीषिणीम् । 
ईश्वरी ꣳ सर्वभूतानां तामिहोपह्वये श्रियम् ।।

पात्रे अक्षतान् क्षिपेत् । अक्षता राख्दा भन्ने मन्त्र ।
ॐ अक्षन्नमीमदन्त ह्यवप्रियाऽअधूषत । 
अस्तोषत स्वभानवोविप्रान्नविष्ठयामती योजान्विन्द्रतेहरी ।।

पात्रे यवान् क्षिपेत् । जौ राख्दा भन्ने मन्त्र ।
ॐ $वोसि $वयास्मद्वेषो $वयारातीर्दिवे ऽत्वान्तरिक्षायत्वा ।
 पृथिव्यैत्वा शुन्धन्ताँल्लोकाः पितृषदनाःपितृषदनमसि ।।


पात्रे तिलान् क्षिपेत् । तिल राख्दा भन्ने मन्त्र ।
ॐ तिलोसि सोमदैवत्यो गोसवो देवनिर्मितः । 
प्रत्नमद्भिः पृक्तःस्वधया पितृँल्लोकान् पृणाहि नः ।।

पात्रे दुर्वाङ्कुरान् क्षिपेत् । दूबो राख्दा भन्ने मन्त्र ।
ॐ काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि ।
 एवानो दूर्वे प्रतनु सहस्रेण शतेन च ।।

पात्रे पुष्पं क्षिपेत् । फूल राख्दा भन्ने मन्त्र ।
ॐ श्रीश्चतेलक्ष्मीश्चपत्क्न्यावहोरात्रे पार्श्वे नक्षत्राणिरुपमश्विनौव्यात्तम् ।
 इष्णँन्निषाणामुम्मऽइषाण सर्वलोकम्मऽइषाण ।।


पात्रे दधि क्षिपेत् । दही राख्दा भन्ने मन्त्र ।
ॐ दधिक्राव्णोऽअकारिषञ्जिष्णोरश्वस्य व्वाजिनः । 
सुरभिनोमुखा करत्प्रणऽआयू ꣳ षि तारिषत् ।।

पात्रे फलं क्षिपेत् । फल, सुपारी राख्दा भन्ने मन्त्र ।
ॐ याः फलिनीर्याऽअफलाऽअपुष्पायाश्च पुष्पिणीः ।
बृहस्पतिप्प्रसूतास्तानो मुञ्चन्त्व ᳩ हसः ।।

उपरोक्त सम्पूर्ण वस्तुहरू पात्रमा राखिसकेपछि ।
ॐ दशकलात्मने वह्निमण्डलाय नमः । भनी धेनु मुद्रा देखाउने। ॐ द्वादशकलात्मने सूर्यमण्डलाय नमः । भनी मत्स्यमुद्राले ढाकी, । ॐ षोडशकलात्मने चन्द्रमण्डलाय नमः । भनी अङ्कुश मुद्राले छुने ।

 कर्मपात्रनिर्माणविधिः

तत्र मन्त्रः

स्वस्य दक्षिणे कांस्य पात्रं निधाय तत्र देवान् आवाहयेत्
(शुद्ध काँसको पात्रमा देवताको आवाहान गर्ने )
ॐ $द्देवादेवहेडनन्देवा सश्चकृमाव्वयम्
अग्निर्मातस्मादेनसोविश्वान्मुञ्चत्व ᳩ हसः ॥

$दि दिवा यदि नक्तमेना ꣳ सि च कृमाव्वयम्
वायुर्मातस्मादेनसोविश्वान्मुञ्चत्व ᳩ हसः ॥

ॐ $दिजाग्रद्यदिस्वप्न एना ꣳ सि च कृमाव्वयम्
सूर्यो मा तस्मादेनसो विश्वान्मुञ्चत्व ᳩ हसः ॥

पात्रे पवित्रं क्षिपेत्
(कुशको पवित्र हाल्ने)
ॐ पवित्रेस्थोवैष्णव्व्यौसवितुर्वः प्रसवऽउत्पुना-
म्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ॥

पात्रे जलम्
(जल हाल्ने )
ॐ शन्नोदेवीरभिष्टयऽआपोभवन्तु पीतये
शंय्योरभिस्रवन्तु नः ॥

पात्रे तिलान्
(तील हाल्ने)
ॐ तिलोसिसोमदैवत्यो गोसवोदेवनिर्मितः
प्रत्नमद्भिः पृक्तः स्वधया पितृँल्लोकान् पृणाहि नः ॥

पात्रे गन्धम्
(चन्दन हाल्ने )
ॐ गन्धद्वारान्दुराधर्षान्न्त्यिपुष्टां करीषिणीम्
ईश्वरी ꣳ सर्वभूतानां तामिहोपह्वये श्रियम् ॥

पात्रे अक्षतान्
(अक्षता हाल्ने )
ॐ अक्षन्नमीमदन्तह्यवप्रियाऽअधूषत
अस्तोषत स्वभानवोव्विप्रानविष्ठयामतीयोजान्विन्द्रते हरी ॥

पात्रे पुष्पाणि
(पुष्प हाल्ने )
ॐ श्रीश्चते लक्ष्मीश्चपत्क्न्यावहोरात्रे पार्श्वे
नक्षत्राणि रूपमश्श्विनौ व्यात्तम्
इष्णन्निषाणामुम्मऽइषाण सर्वलोकम्मऽइषाण 

ततः कुशत्रयसहितं कर्मपात्रोदकमादाय
(तीन कुशका टुक्रा लिएर कर्मापात्रको पानी लिने )
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा
यः स्मरेत् पुण्डरीकाक्षं स बाह्याऽभ्यन्तरः शुचिः 
स्थपितानी द्रव्याणि आत्मानं च सिञ्चेत् 
(त्यहाँ राखिएको पूजा सामग्री र आफ्नु शिरमा पनि सेन्चन गर्ने )

पुण्डरीकाक्षःपुनातु पुण्डरीकाक्षःपुनातु पुण्डरीकाक्षः पुनातु ।


शङ्खघण्टापूजनम् 

आदौ शङ्ख पूजनम् ( शङ्ख पूजा गर्ने ) 
ॐ त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे । 
निर्मितः सर्वदेवैश्च पाञ्चजन्य नमोऽस्तु ते ॥ 
ॐ पाञ्चजन्याय विद्महे पावमानाय धीमहि ।
तन्नः शङ्खः प्रचोदयात् ॥

 ॐ अग्निर्ऋषिः पवमानः पाञ्चजन्यः पुरोहितः । 
तमीमहे महागयम् ॥ 
ॐ भूर्भुवः स्वः पाञ्चजन्यस्थाय देवाय नमः ॥
सर्वोपचारार्थे गन्धाक्षातपुष्पाणि समर्पयामि 
 ( शङ्खमा पुष्प अक्षता चंदन आदिल चढाउने ) 

  घण्टा पूजनम् ( घण्टा पूजा गर्ने ) 
 सुपर्णोऽसि गरुत्माँस्त्रिवृत्तेशिरोगायत्त्रञ्चक्षुःबृहद्रथन्तरे पक्षौ ।
स्तोमऽआत्मा छन्दाꣳस्यङ्गानियजूꣳषि नाम। साम ते तनूर्वामदेव्यंयज्ञायज्ञियम्पुच्छं
धिष्ण्याः शफाः 
सुपर्णोऽसिगरुत्मान्दिवङ्गच्छस्वः पत ॥ 
ॐ भूर्भुवः स्वः घण्टास्थाय गरुडाय नमः सर्वोपचारार्थे गन्धाक्षातपुष्पाणि समर्पयामि  

सर्षपान् देवयजनभूमौ विकिरेत् 
( यज्ञगर्ने स्थानमा सर्स्यूँ छर्ने )
ॐ अपसर्पन्तु ते भूता ये भूता भूमिमाश्रिताः । 
ये भूताः विघ्नकर्तारस्ते नश्यन्तु ममाज्ञया ॥
 अपक्रामन्तु भूतानि पिशाचाः सर्वतोदिशम् । 
सर्वेषामविरोधेन पूजाकर्म समारभे ॥ 

पवित्र धारणम् 
ॐ पवित्रे स्थो वैष्णव्यौ सवितुर्वः प्रसवऽउत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । 
तस्यते पवित्रपते पवित्रपूतस्ययत्कामः पुने तच्छकेयम्॥
( कर्मपात्रमा रहेको पवित्रलाई काईली औलामा धारण गर्ने ) 

पञ्चभूसंस्कार: 


भुरीतिभूमिशोधनम् ( वेदी बनाउन भूमि शोधन गर्ने )
ॐ भूरसि भूमिरस्यदितिरसि विश्वधाया विश्वस्य भुवनस्य धर्ती ।
पृथिवीं $च्छ पृथिवीन्दृ ᳩ ह पृथिवीं माहि ᳩ सीः ॥ 

अश्मा च म इति मृत्तिकास्थापन (  वेदीमा माटो राख्ने  )
 ॐ अश्मा च मे मृत्तिका च मे गिरयश्चमे पर्वताश्च मे सिकताश्च मे व्वनस्पतयश्च में
हिरण्यञ्च मे यश्च मे श्यामञ्च मे लोहञ्च मे सीसञ्च मे त्रपु च मे यज्ञेन कल्पन्ताम् ॥

 एष वस्तोमेति दर्भ गृह्णाति( यज्ञको वेदी बनाउने )
 ॐ एष वस्तोमो मरुतऽइयङ्गीर्मान्दार्यस्य मान्यस्य कारोः ।
 एषायासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥ 


 यद्देवेति दर्भै: परिसमूहनम् ( कुशले वेदीलाई सम्याउने )
ॐ $द्देवा देवहेडनं देवासश्चकृमाव्वयम् । 
अग्ग्निर्मा तस्मादेनसो व्विश्श्वान् मुञ्चत्व ᳩ हसः ॥

 मा नस्तोक इति उपलेपनं गोमयेन ( गोबर र पानीले लिप्ने ) 
ॐ मानस्तोके तनये मा नऽआयुषि मा नो गोषु मा नोऽअश्वेषुरीरिषः ।
मा नो वीरान्नुद्रभामिनो वधीर्हविष्मन्तःसदमित्वाहवामहे ॥

 त्वामिद्धीत्युल्लेखनं स्रुवेण ( सुरोले वेदी उत्खनन् गर्ने ) 
ॐ त्वामिद्धि हवामहे सातौ वाजस्य कारवः । 
त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥

 प्रथमाद्वितीयैरित्यादिभिः प्रागग्रमुदक्संस्थं रेखात्रयं खादिरेण हस्तमात्रेण खड्गाकृतिना स्फयेन स्रुवमूलेन वा कुर्यात्
 (  ॐ प्रथमा यो मन्त्र पढ्दै सुरोले दक्षिणदेखि उत्तरसम्म तीनओटा रेखा कोर्ने )

 ॐ प्रथमा द्वितीयैर्द्वियीयास्तृतीयैस्तृयीयाः 
सत्येन सत्यं यज्ञेन यज्ञो यजुर्भिर्यजू ꣳ षि 
 सामभिः सामान्यूग्भिर्ऋचः ।
 पुरोनुऽवाक्याभिः पुरोऽनुवाक्या 
याज्याभिर्याज्या वषट्कारैर्वषट्काराऽआहुती 
भिराहुतयो मे कामान्त्समर्ध यन्तु भूः स्वाहा ॥ 

 ॐ दक्षिणामारोह त्रिष्टुप्त्वावतु बृहत्साम पञ्चदशस्तोमो ग्रीष्मऋतुः क्षत्रं द्रविणम् ॥
ॐ प्रतीचीमारोह जगती त्वावतु वैरूप ᳩ साम सप्तदशस्तोमो वर्षाऽऋतुर्विड् द्रविणम् ॥ 
ॐ उदीचीमारोहानुष्टुप्त्वावतु वैराज ᳩ सामैकवि ᳩ शस्तोमः शरदृतुः फलं द्रविणम् ॥

 सदसस्पतिमित्यनामिकाङ्गुष्ठाभ्यां यथोल्लिखिताभ्यो रेखाभ्यस्त्रिरुद्धरणम् ।
 ( अघि कोरेको ३ टा रेखाको केहि माटोलाई साहिली र बूढी औंलाले लिने र  )

 ॐ सदसस्पतिमद्भूतं प्रियमिन्द्रस्य काम्यम् । 
सनिं मेधामयासिष ᳩ स्वाहा ॥ 
व्रतङ्कृणुत इत्यनेन वेद्यां स्रुवेणोद्धृतपासूननामिकागुष्ठाभ्यामुद्धृत्य तानैशान्यां क्षिपेत् सुमृडीकामभिष्टये 

 ॐ व्रतंकृणुत व्रतं कृणुताग्निब्रह्माग्निर्यज्ञो वनस्पतिर्यज्ञियः । 
दैवीं धियं मनामहेसुमृडी कामभिष्टये  वर्चोधां $ज्ञवाहस # सुतीर्था नोऽअसद्वशे । 
ये देवा मनो जाता मनो युजो दक्षक्रतवस्ते नोऽवन्तु ते नः पान्तु तेभ्यः स्वाहा ॥

शन्नो देवीरित्यभ्युक्ष्ययेत् ( जलने सेञ्चन गर्ने )
ॐ शन्नो देवीरभिष्टया आपो भवन्तु पीतये । शं योरभिस्रवन्तु नः ॥ 

अथ स्वस्तिवाचनम् 

अत्रैव मन्त्रोच्चारणपूर्वकं रङ्गवलीं कुर्वन्ति

( रेखी हाल्ने )

ॐ स्वस्ति नो सिमीतामश्विना भगः स्वस्ति देव्यदितिरनर्वणः ।
स्वस्ति पूषा असुरो दधातु नः स्वस्ति द्यावापृथिवी सुचेतुना ॥
 स्वस्तये वायुमुपबवामहै सोमं स्वस्ति भुवनस्य यस्पतिः ।
 बृहस्पति सर्वगण ꣳ स्वस्तये स्वस्तया आदित्यासो भवन्तु नः ॥
 विश्वेदेवा नोऽअद्या स्वस्तये वैश्वानरो वसुरग्निः स्वस्तये ।
 देवाः अभवन्त्वभवः स्वस्तये स्वस्ति नो रुद्रः पात्व हसः ॥
 स्वस्ति मित्रावरुणा स्वस्ति पथ्येन रेवति ।
 स्वस्ति न इन्द्रश्चाग्निश्चं स्वस्ति नोऽअदिते कृषि ॥
 स्वस्ति पन्थामनुचरेम सूर्याचन्द्रमसाविव । 
पुनर्ददताघ्नता जानता सङ्गमेमहि ॥ 
स्वस्त्ययनं तार्क्ष्यरिष्टनेमिं महद्भूतं वायसं देवतानाम् ।
 असुरघ्नमिन्द्रसखं समत्सु वृहद्यशो नावमिवारुहेम ॥
 अहोमुचमाङ्गिरसं गयं च स्वस्त्यात्रेयं मनसा च तार्क्ष्यम् ।
 प्रयतपाणिः शरणं प्रपद्ये स्वस्ति संबाधेष्वभयं नोऽअस्तु ॥

 " ततः आशुः शिशानः ” इति समग्र पठेत् ।

।। प्रायश्चित् गोदान ।।


गोदानको निमित्त एउटा दूनोमा गाईको प्रचलित मूल्य वा यथासम्भव पैसा,जल र कुशको टुक्रा राखी उक्त द्रव्यमा गाईको कल्पना गर्दै चन्दन अक्षतादिले पूजा गर्ने मन्त्र ।

ॐ नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च ।
 नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमो नमः ।।

ॐ इरावती धेनुमती हि भूतᳩ सूयवसिनीमनवेदशस्या । व्यस्कब्भ्नारोदसी विष्णवे तेदाधर्थ्य पृथिवीमभितो मयूखैः स्वाहा ।। 

गवे नमः गोरुपरिद्रव्याय नमः ।। 

गाई लिने ब्राह्मणलाई टिका लगाइदिने मन्त्र ।
ॐ नमो ब्रह्मण्यदेवाय गो ब्राह्मण हिताय च ।
 जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ।।

दूनामा राखिएको जल कुशको टुक्राले अर्को दूनामा तर्पण गर्ने मन्त्र ।
ॐ मनोमे तर्पयत वाचंमे तर्पयत प्राणंमे तर्पयत चक्षुर्मे तर्पयत श्रोत्रम्मे तर्पयतात्मानम्मे तर्पयत प्रजाम्मे तर्पयत पशून्मे तर्पयत गणान्मे तर्पयतगणामेमाव्वितृषन् ।।

उक्त जल कुशको टुक्राले शिरमा मार्जन गर्ने मन्त्र ।

ॐ आपोहिष्ठा मयो भुवः । ॐ तानऽउर्जेदधातन । ॐ महेरणायचक्षसे । ॐ योवः शिवतमो रसः। ॐ तस्यभाजयतेहनः । ॐ उशतीरिव मातरः । ॐ तस्माऽअरङ्गमामवः । ॐ यस्यक्षयायजिन्वथ । ॐ आपोजनयथा च नः ।

हातमा जौ,तिल,कुशको टुक्रा र जल लिई संकल्प गर्नु । संकल्प गरिसकेपछि उक्त जौ, तिल, कुश र जल ब्राम्हणको हातमा राखिदिने ।

।। संकल्प ।।

हरिः ॐ तत्सत् ३ ॐ विष्णुर्विष्णुर्विष्णुः ॐ  । अद्येह श्रीमद्भगवतो पुराणपुरुषोत्तमस्य विष्णोराज्ञयाप्रवर्तमानस्य सकलजगतः सृष्टिकारिणो ब्रह्मणो द्वितीयपरार्धे श्रीश्वेतवराहकल्पे वैवश्वतमन्वन्तरे अष्टाविंशतितमे सत्यत्रेताद्वापरान्ते कलियुगे   कलियुगस्य प्रथम चरणे जम्बुद्वीपे भारतवर्षे भरतखण्डे आर्यावर्तान्तर्गतहिमवत्पर्वतैकनेपालदेशे गङ्गादेव्याः उत्तरभागे गण्डकी कौशिकीप्रदेशे श्रीमद्विष्णुप्रजापतिक्षेत्रे तदन्तर्गत पाशुपतक्षेत्रस्यपशुपतेः(अमुक) दिग्भागे, वाग्मत्यादि (अमुक) पुण्यक्षेत्रे, (अमुकनदीतीर्थादिसन्निधौ, (अमुक) ग्रामे वा नगरे, षष्ठिसंवत्सराणां मध्ये (अमुक) नामसंवत्सरे, श्रीसूर्ये (अमुक) अयने, (अमुक) ऋतौ,(अमुक) मासे, (अमुक) पक्षे, (अमुक) वासरे, (अमुक) पुण्यतिथौ, सकलयोगवारलग्नकरणमुहूर्तान्वितायाम्  अद्य (अमुक) राशिस्थिते श्रीसूर्ये, (अमुक) राशिस्थिते चन्द्रमसि, (अमुक) राशिस्थिते देवगुरौ,अन्येषु शेषेषु ग्रहेषु यथायथास्थानस्थितेषु सत्सु एवंग्रहगणगुणविशेषेणविशिष्टायां अद्येह (अमुक) गोत्रोत्पन्नः, (अमुक) प्रवरान्वितः, (अमुक) नाम्नो (शर्मा-वर्मा-गुप्तः अहं )  मम, (अमुक)नाम्नीदेव्याऽहं मम कृत्याकृत्य, भक्ष्याभक्ष्य, पेयापेय, गम्यागम्य, वाच्यावाच्य,श्रव्याश्रव्य, दृश्यादि, कर्मवशात्, उत्पन्नानां कायिक–वाचिक–मानसिक–सांसर्गिक नैसर्गिकादि ज्ञाताज्ञातरुपेण कृतानाशुष्काद्रलघुगुरुभूतानां पापानां निरसनार्थं तथा (अमुक) देवता प्रीतिद्वारा (अमुक) पदप्राप्त्यर्थं एतत्, अद्यदिनात्प्राक्कर्तव्यनियमाकरणजन्य प्रत्यवायपरिहारपूर्वकं (अमुक) कर्मणः अधिकारप्राप्तये शरीरशुद्ध्यर्थं च इमां गोनिष्क्रयभूतं गवानुकल्पितं द्रव्यं यथानामदैवताकम् (अमुक) गोत्राय, (अमुक) नाम शर्मणे सुपूजिताय ब्राह्मणाय तुभ्यमहं सम्प्रददे ।। तत्सत् न मम ।।

हातमा फूल र अक्षता लिएर गाईको प्रार्थना गर्ने मन्त्र ।

ॐ कपिले सर्वदेवानां पूजनीयाऽसिरोहिणी । 
तीर्थदेवमयी यस्मादतः शान्तिं प्रयच्छमे ॥

गावो मेअग्रतः सन्तु गावो मे सन्तु पृष्ठतः । 
गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम् ॥

पूजितासि वशिष्ठेन विश्वामित्रेण धीमता । 
यन्मया हर मे पापं यन्मया दुष्कृतं कृतम् ॥

पूर्व गोकल्पित् द्रव्यको दशांश द्रव्य एक दुनामा राखी पूजा गर्ने । उक्त द्रव्य पूजा गरि संकल्प पश्चात् ब्राह्मणकोहातमा दिने । द्रव्य पूजा गर्दा भन्ने मन्त्र ।

ॐ स्वर्णधर्मः स्वाहा । स्वणार्कः स्वाहा । स्वर्णशुक्रः स्वाहा । स्वर्णज्योतिः स्वाहा । स्वर्णसूर्यः स्वाहा ।

।। गोदानदानप्रतिष्ठा संकल्प ।।


ॐ पूर्वाेक्तसंकल्प: सिद्धिरस्तु अद्येह कृतस्य प्रायश्चित्तनिमित्तगवानुकल्पद्रव्यदानस्य दानप्रतिष्ठार्थमिदं द्रव्यं यथा दैवतम् (अमुक) नाम शर्मणे तत्प्रतिग्रहित्रे ब्राह्मणाय दानप्रतिष्ठात्वेनतुभ्यमहं सम्प्रददे ॥ ॐ स्वस्ति ॥

गाईब्राह्मणको प्रदक्षिणा गरेको कल्पना गर्ने मन्त्र ।
ॐ यानि कानि च पापानि जन्मान्तरकृतानि च ।
 तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे ।।

नमस्कार गर्दै उक्त गाईलाई ब्राह्मणतिर सारिदिने मन्त्र ।
ॐ कोदात् कस्मा अदात् कामोऽदात् कामायादात् । 
कामोदाताकामः प्रतिग्रहीता कामैतत्ते ॥

ब्राह्मणले उक्त दूनाको जलले कर्ताहरुलाई अभिषेक गरिदिने मन्त्र ।
ॐ द्यौः शान्तिरन्तरिक्षᳩ शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः । वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिब्रह्म शान्तिः सर्वᳩ शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि ।।

 सुशान्तिर्भवतु ॥ ॐ सर्वारिष्टशान्तिरस्तु | उत्तरोत्तरवृद्धिरस्तु ।

। इति प्रायाश्चित्त गोदानम् ।

 अथ स्वस्तिवाचनम्


 ( ब्राह्मणले स्वस्तिवाचन पढ्ने र यजमानले दुबो , चन्दन , अक्षता , फूल , फल लिएर नमस्कार गर्ने ) 

हरिः ॐ
आ नो᳚ भ॒द्राः क्रत॑वो ज्यन्तु वि॒श्वतोऽद॑ब्धासो॒ अप॑रीतास उ॒द्भिदः॑ ।
दे॒वा नो॒ यथा॒ सद॒मिद् वृ॒धेऽअस॒न्नप्रा᳚युवो रक्षि॒तारो᳚ दि॒वेदि॑वे ॥


दे॒वानां᳚ भ॒द्रा सु॑म॒तिऋजूय॒तां दे॒वानां᳚ᳩ रा॒तिर॒भि नो॒ नि व॑र्तताम् ।
दे॒वानां᳚ᳩ स॒ख्यमुप॑ सेदिमा व॒यं दे॒वा न॒ऽआयुः॒ प्रति॑रन्तु जी॒वसे॑ ॥


तान्पूर्व॑या नि॒विदा᳚ हूमहे व॒यं भगं᳚ मि॒त्रमदि॑तिं॒ दक्ष॑म॒स्रिधम्᳚ ।
अ॒र्य॒मणं॒ वरु॑णं॒ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत् ॥


तन्नो॒ वातो᳚ मयो॒भुवा᳚तु भेष॒जं तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौः ।
तद् ग्रावा᳚णः सोम॒सुतो᳚ मयो॒भुव॒स्तद॑श्विना श‍ृणुतं धिष्ण्या यु॒वम् ॥


तमीशा᳚नं॒ जग॑तस्त॒स्थुष॒स्पतिं᳚ धियंजि॒न्वमव॑से हूमहे व॒यम् ।
पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये᳚ ॥


स्व॒स्ति न॒ इन्द्रो᳚ वृ॒द्धश्र॑वाः स्व॒स्ति नः॑ पू॒षा वि॒श्ववे᳚दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ऽअरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥


पृष॑दश्वा म॒रुतः॒ पृश्नि॑मातरः शुभं॒यावा᳚नो वि॒दथे᳚षु॒ जग्म॑यः ।
अ॒ग्नि॒जि॒ह्वा मन॑वः॒ सूर॑चक्षसो॒ विश्वे᳚ नो दे॒वाऽअव॒सा ग॑मन्नि॒ह ॥


भ॒द्रं कर्णे᳚भिः श‍ृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः ।
स्थि॒रैरङ्गै᳚स्तुष्टु॒वांᳩ स॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायुः॑ ॥


श॒तमिन्नु श॒रदो॒ अन्ति॑ देवा॒ यत्रा᳚ नश्च॒क्रा ज॒रसं᳚ त॒नूना᳚म् ।
पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव᳚न्ति॒ मा नो᳚ म॒ध्या री᳚रिष॒तायु॒र्गन्तोः᳚ ॥


अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः ।
विश्वे᳚ दे॒वाऽअदि॑तिः॒ पञ्च॒ जना॒ऽ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ॥

ॐ द्यौ: शान्तिरन्तरिक्षᳩ शान्ति:,
पृथिवी शान्तिराप: शान्तिरोषधय: शान्ति:।
वनस्पतय: शान्तिर्विश्वे देवा: शान्तिर्ब्रह्म शान्ति:,
सर्वᳩ शान्ति:, शान्तिरेव शान्ति:, सा मा शान्तिरेधि॥
ॐ शान्ति: शान्ति: शान्ति:॥

यतो यतः समीहसे ततो न अभयं कुरु।
शन्नः कुरु प्रजाभ्योऽभयं नः

ॐ श्री गणेशाम्बिकाभ्यां नमः ।।
श्री लक्ष्मीनारायणाभ्यां नमः।।
श्री उमामहेश्वराभ्यां नमः ।
श्री वाणीहिरण्यगर्भाभ्यां नमः ।।
श्री शचीपुरन्दराभ्यां नमः ।
इष्टदेवताभ्यो नमः ।।
कुलदेवताभ्यो नमः ।
ग्रामदेवताभ्यो नमः ।।
वास्तुदेवताभ्यो नमः ।
स्थानदेवताभ्यो नमः ।।
सर्वेभ्यो देवताभ्यो नमः
सर्वेभ्यो ब्राह्मणेभ्यो नमः ।।
मातापितृचरणकमलेभ्यो नमः ।।
निर्विघ्नमस्तु ।।

ॐ सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्ननाशो विनायकः ।।


धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यःपठेच्छृणुयादपि ।।

विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।
सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ।।

शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भूजम् ।
प्रशन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ।।

अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः ।
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ।।

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तुते ।।

सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ।
येषां हृदिस्थो भगवान् मङ्गलाय तनो हरिः ।।

तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव ।
विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि ।।

लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषामिन्दीवरश्यामो हृदयस्थो जनार्दन: ।।

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवानीतिर्मतिर्मम ।।

सर्वेष्वारम्भकार्येषु त्रयस्त्रिभुवनेश्वराः ।
देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः ।।

विनायकं गुरुं भानुं ब्रह्मविष्णुमहेश्वरान् ।
सरस्वतीं प्रणम्यादौ सर्वकार्यार्थसिद्धये ।।

गौरीगणेशाभ्यां नमः

इति स्वस्तिवाचनम्


 अष्टदिक्षु पूर्वादिक्रमेण मध्यभागे च पूजनम्


 पृथिव्याः सधस्थादिति पूर्वे 
( यज्ञरेखीको पूर्वमा पूजा गर्ने ) 
ॐ पृथिव्याः सधस्थादग्नि पुरीष्यमङ्गिरस्वदाभराग्नि पुरीष्यमङ्गिरस्वदच्छेमोग्निं पुरीष्यमङ्गिरस्वद्भरिष्यामः ॥ 

 अग्निश्चेति दक्षिणे 
( दक्षिणमा पूजा गर्ने ) 
ॐ अग्निश्च पृथिवी च सन्नते ते मे सन्नमतामदो वायुश्चान्तरिक्षञ्च सन्नते ते मे सन्नमतामद आदित्यश्च द्यौश्च सन्नते ते मे सन्नमतामदआपश्च वरुणश्च सन्नते ते मे सन्नमतामदः सप्तसद @ सदोऽअष्टमी भूतसाधनी सकामाँ२ऽअध्वनस्कुरु संज्ञानमस्तु मेऽमुना ॥

 

वायो ये त इति पश्चिमे ( पश्चिममा पूजा गर्ने ) 
 ॐ वायो ये ते सहस्रिणो रथासस्तेभिरागहि । 
नियुत्वान्त्सोमपीतये ॥

 सोमो धेनुमित्युत्तरे ( उत्तरमा पूजा गर्ने ) 
 ॐ सोमो धेनु सोमोऽअर्वन्तमाशु सोमो वीरं कर्मण्यं ददाति । सादन्यं विदथ्यᳩ सभेयं पितृश्रवणं यो ददाशदस्मै ॥ 

अग्निन्दूतमित्याग्नेये  ( आग्नेयमा पूजा गर्ने ) 
ॐ अग्निन्दूतं पुरोदधे हव्यवाहमुपब्रुवे । 
देवाँऽआसादयादिह । 

 कया नश्चित्र इति नैर्ऋत्याम्  ( नैर्ऋत्यमा पूजा गर्ने )
 ॐ कया नश्चित्रऽआभुवदूती सदावृधः सखा ।
 कया शचिष्ठया वृता ॥ 

 वायुरनिलमिति वायव्ये ( वायव्यमा पूजा गर्ने ) ॐ वायुरनिलममृतमथेदं भस्मान्त ꣳ शरीरम् । 
ॐ ऋतो स्मर क्लीबेस्मर कृत ꣳ स्मर ॥

 ईशावास्यमित्यैशान्याम् ( ईशानमा पूजा गर्ने ) 
 ॐ ईशावास्यमिदᳩ सर्वं यत्किञ्च जगत्यां जगत् ।
 तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥ 

 ततस्तिसृभिर्मध्ये पूजनं कुर्यात्  (तिन मन्त्रले बीचमा पूजा गर्ने )
 ॐ सूर्यरश्मिर्हरिकेशः पुरस्तात्सविता ज्योतिरुदयाँ अजस्रम् । तस्य पूषा प्रसवे याति विद्वान्त्संपश्यन् विश्वा भुवनानि गोपाः ॥

विवस्वन्नादित्य इति पुंसवनम् ( अग्निलाई चढाउने ) 
ॐ विवस्वन्नादित्यैष ते सोमपीथस्तस्मिन्मत्स्व ।
 श्रदस्मै नरो वचसे दधातन यथाशीर्दा दम्पती वाममश्नुतः ।
 पुमान् पुत्रो जायते विन्दते वस्वधा विश्वाहारपएघते गृहे ॥
 इत्यस्याग्नेः पुंसवन करोमि । 

 अजीजनोहीति सीमन्तोन्नयनम् 
( सीमन्तोन्नयन संस्कार गर्दा अग्निलाई फूल अक्षता चढाउने )
 ॐ अजीजनो हि पवमान सूर्य विधारे शक्मना पयः । 
गोजीरयार ꣳ हमाणः पुरन्ध्या ॥ 
इत्यस्याग्नेः सीमन्तोन्नयन करोमि । 

 एजतु दशमास्य इति जातकर्म
 ( जातकर्म संस्कार गर्दा अग्निलाई फूल अक्षता चढाउने र छोपेको उघारिदिने ) 
ॐ एजतु दशमास्यो गर्भो जरायणा सह । यथायं वायुरेजति यथा समुद्राएजति । एवायं दशमास्योऽअसज्जरायणा सह ॥ इत्यस्याग्नेर्जातकर्म करोमि । 

 अत्र पिहितकांस्यपात्रस्योद्घाटनम् । 


यदा पिपेषेति नामकरणम्
 ( नामकरण संस्कारगर्दा अग्निलाई फूल अक्षता चढाउने ) 
 ॐ यदा पिपेष मातरं पुत्रः प्रमुदितो धयन् । 
उतत्तदग्नेऽअनृणो भवाम्यहतौ पितरौ मया । 
सम्पृचस्थ संमा भद्रेण पृङ्क्त विपृच स्थ वि मा पाप्मना पृङ्क्त ॥ 
इत्यस्याग्नेर्नामकरणं करोमि । 

पूषा पञ्चाक्षरेणेति निष्कमणम् 
( अग्निलाई फूल अक्षता चढाउने )
 ॐ पूषापञ्चाक्षरेण पञ्चदिशऽउदजयत्ताऽउज्जेष ꣳ सविता षडक्षरेण षडृतूनुदजयत्तानुज्जेषं मरुतः सप्ताक्षरेण सप्तग्राम्यान्पशूनुदजयँस्तानुज्जेषं बृहस्पतिरष्टाक्षरेण गायत्रीमुदजयत्तामुज्जेषम् । 
इत्यस्याग्नेर्निष्कमणं करोमि । 

अन्नपतेन्नस्येति अन्नप्राशनम् 
(अग्निलाई फूल अक्षता चढाउने ) 
 ॐ अन्नपतेन्नस्य नो देहयनमीवस्य शुष्मिणः । 
प्रप्रदातारं तारिषऽऊर्जं नो धेहि द्विपदे चतुष्पदे ॥ इत्यस्याग्नेरन्नप्राशनं करोमि । 

 अग्न आयाहीति चूडाकरणम् 
( अग्निलाई फूल अक्षता चढाउने ) 
 ॐ अग्नऽआयाहि वीतये गृणानो हव्यदातये । 
निहोता सत्सि बर्हिषि ॥
 इत्यस्याग्नेश्चूडाकरणं करोमि । 

 भद्रं कर्णेभिरिति कर्णवेधः
 ( कुशले अग्निको कान छेदन गर्ने अर्थात् कुशले अग्नि चलाउने ) 
 ॐ भद्रङ् कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवा छं सस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥
इत्यस्याग्नेः कर्णवेधं करोमि ।

 अग्निरेकाक्षरेणेति उपनयनम् ( फूल अक्षता चढाउने )
 ॐ अग्निरेकाक्षरेण प्राणमुदजयत्तामुज्जेषमश्विनौ द्वयक्षरेण द्विपदो मनुष्यानुदजयतां तानुज्जेषं विष्णुस्त्र्यक्षरेण त्रीँ ल्लोकानुदजयत्तानुज्जेष ꣳ सोमश्चतुरक्षरेण चतुष्पदः पशूनुदजयत्तानुज्जेषम् ॥
 इत्यस्याग्नेरुपनयनं करोमि ।

 ततोव्याहृतिसहितां गायत्रीं श्रावयेत् 
 ॐ भूर्भुवः स्वः वैश्वानराय विद्महे सप्तजिह्वाय धीमहि ।
 तन्नो अग्निः प्रचोदयात् ॥ 
इत्यग्निं गायत्रीं श्रावयामि । 
( अग्निलाई गायत्री सुनाउने ) 

 

व्रतं कृणुतेति समावर्तनम् ( अग्निलाई फूल अक्षता चढाउने ) 
 ॐ व्रतं कृणुत व्रतं कृणुताग्निर्ब्रह्माग्निर्यज्ञो वनस्पतिर्यज्ञियः । दैवीन्धियं मनामहे सुमृडीकामभिष्टये वर्चोधां यज्ञवाहस ꣳ सुतीर्थानोऽअसद्वशे । ये देवा मनोजाता मनोयुजो दक्षत्रेतवस्ते नोऽवन्तु ते नः पन्तु तेभ्यः स्वाहा ॥ 
इत्यस्याग्नेः समावर्तनं करोमि । 

 गावउपावतेति गोदान कर्म ( फूल अक्षता चढाउने ) 
ॐ गाव उपावतावतं मही यज्ञस्यरप्सुदा । 
उभा कर्णा हिरण्यया ॥ 
इत्यस्याग्नेर्गौदानकर्म करोमि । 

 भगाएवेति विवाह ( फूल अक्षता चढाउने ) 
 ॐ भग एव भगवाँ३अस्तु देवास्तेन वयं भगवन्तः स्याम । 
तन्त्त्वा  भग सर्व इज्जोहवीति स नो भगपुर एता भवेह ॥ इत्यस्याग्नेर्विवाहं करोमि । 

 तत ऋतावानमित्यादि कण्डिकात्रयं पठेत्

 ( अग्निको प्रार्थना गर्ने ) 

 ॐ ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् । अजस्रघर्ममीमहे । उपयामगृहीतोसि वैश्वानराय त्वैष ते योनिर्वैश्वानराय त्वा ॥ 

 ॐ वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्री इतो जातो विश्वमिदं विचष्टे वैश्वानरो यतते सूर्येण । उपयामगृहीतोसि वैश्वानराय त्वैष ते योनिर्वैश्वानराय त्वा ॥ 

 ॐ वैश्वानरो नाऊतय आप्रयातु परावतः । अग्निरुक्थेन वाहसा । उपयामगृहीतोसि वैश्वानराय त्वैष ते योनिर्वैश्वानराय त्वा ॥

 इति पठित्वा अग्निर्मूर्धेति मन्त्रेण कुण्डे स्वाभिमुखं वन्हिं प्रवेशयेत् ।
 (यो तिनमन्त्र पढिसकेर अग्निलाई स्वाभिमुख बनाएर कुण्डमा राख्ने ) 

 ॐ अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्याऽअयम् । 
अपाᳩ रेता गुॅ सि जिन्वति ॥ 
इति कुण्डे स्थण्डिले वा अग्निं स्थापयेत् ।
( यसरी उपरोक्त मन्त्रले अग्निको प्रतिष्ठापन गर्ने )


 ततोऽग्नि प्रार्थयेदनेन मन्त्रेण (तलको मन्त्रले अग्निको प्रार्थनागर्ने )
 ॐ आवाहये त्वां पुरुषं महान्तं सुरासुरैर्वन्दितपादपद्मम् ।
ब्रह्मादयो यस्य मुखे वसन्ति प्रविश्य कुण्डे सुरलोकनाथ ।।

 

स्थिरो भवेति प्रज्वालयेत् 
 ( अग्निलाई स्थिर बनाउने अर्थात् अग्निलाई दाउरामा सल्काउने )
 ॐ स्थिरो भव वीड्वङ्गऽ आशुर्भव वाज्यर्वन् ।
 पृथुर्भव सुषदस्त्वमग्नेः पुरीषवाहणः ॥

ततोग्नेर्दक्षिणतस्त्रिभिर्दर्भैर्ब्रह्मासनमास्तीर्य हिरण्यगर्भ इतिपञ्चाशद्भिः कुशैर्ब्रह्मपवित्रकरणम् 
( ५० ओटा कुशले निर्मित ब्रह्माको दक्षिणमा ३ कुशको आसन राख्ने  )

 ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेका आसीत् ।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥


आ ब्रह्मन्निति ब्रह्माणमग्निप्रदक्षिणं कारयित्वा 
 “ अस्मिन् कर्मणि त्वं मे ब्रह्मा भव " 
इत्युक्त्वा उद्ङ्मुखमुपवेशयेत् 
(माथिको वाक्य भन्दै ब्रह्माजिलाई उत्तरतर्फ फर्काई पूर्व कल्पित आसनमा राख्ने )

ब्रह्माणं प्रार्थयेत् 
( अब यो मन्त्र पढ़ने र प्रार्थना गर्ने )
 ॐ आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायतामाराष्ट्रे राजन्यः शूरऽइषव्योतिव्याधी महारथो जायतां दोग्ध्री धेनुर्वोढानड्वानाशुः सप्तिः पुरन्धिर्योषा जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य वीरो जायतां निकामे निकामे नः पर्जन्यो वर्षतु फलवत्यो नऽओषधयः पच्यन्तां योगक्षेमो नः कल्पताम् ॥ 

 

यस्य कूर्म इति होतुरासनम् 
( यस मन्त्रले होतालाई आसनमा राख्ने )
 ॐ यस्य कूर्मो गृहे हविस्तमग्ने वर्धया त्वम् । तस्मै देवाऽअधिब्रुवन्नयञ्च ब्रह्मणस्पतिः ॥


 अग्ने प्रेहीति अग्नेरुत्तरतो यजमानासनम् 
(उत्तरतर्फ फर्काई यजमानको आसन राख्ने )
 ॐ अग्ने प्रेहि प्रथमो देवयताञ्चक्षुर्देवानामुत मर्त्यानाम् । इयक्षमाणा भृगुभिः सजोषाः स्वर्यन्तु यजमानाः स्वस्ति ॥ 

 परीत्य भूतानीति अग्नेरुत्तरतो वायव्ये च प्रणीतार्थे आसनद्वयं कल्पयित्वा प्रणीताग्न्योर्मध्ये प्रोक्षण्यासनं च निदध्यात् ।
 ( वेदीको वायव्यमा प्रणीताको लागि आसन राख्ने र अग्नि र प्रणीताको बिचमा प्रोक्षणीको लागि आसन राख्ने )

ॐ परीत्य भूतानि परीत्य लोकान्परीत्य सर्वाः प्रदिशो दिशश्च ।
 उपस्थाय प्रथमजामृतस्यात्मनात्मान मभिसंविवेश ॥

वामहस्तेनादाय तत इन्द्रआसामिति वारणं तच्च दण्डेनसह द्वादशाङ्गुलदीर्घं चतुरङ्गुलविस्तारंचतुरङ्गुलखातं प्रणीतापात्रं
 ( देव्रे हातले बोकेर  प्रणीता हातमा राख्ने ) 

 ॐ इन्द्रा आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुरएतु सोमः ।
 देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रम् । 

उदुत्तममिति दक्षिणहस्तेनोदकं संपूर्य वायव्यासने निधाय दक्षिणानामिकयाऽऽलभ्य कुशैराच्छाद्य ब्रह्मणो मुखमवलोक्य प्रणीतापात्रं प्रणीतासने निदध्यात् । 
( प्रणीता राखिदिने )
ॐ उदुत्तमं वरुण पाशमस्मदवाघमं विमध्यम ꣳ श्रथाय ।
अथा वयमादित्य व्रते तवानागसोऽअदितये स्याम ॥


ततो ये ते शतमिति बर्हिर्मुष्टिमादाय ईशानादिप्रागग्रैबर्हिर्भिरुदक्संस्थमग्नेःपरिस्तरणं कुर्यात् 
( अग्निको वरिपरि कुशको टुप्पो पूर्वतिर पारेर ईशान देखि उत्तरसम्म ओछ्याउने)
 ॐ ये ते शतं वरूणं ये सहस्रं यज्ञियाः पाशा वितता महान्तः ।
 तेभिनऽ अद्य सवितोत विष्णुर्विश्वे मुञ्चन्तु मरुतः स्वर्काः स्वाहा ॥
 

 

 अथ पात्रासादनम्

 तत्वा यामीति मन्त्रं पठित्वा यावद्भिः पदार्थैः प्रयोजनं भवति तावतः पदार्थान् द्वन्द्वशः प्राक्संस्थानुदगग्रानग्नेरुत्तरतः पश्चाद्वाऽऽसादयेत् । ( यज्ञमा आवश्यक यज्ञपात्रहरू राख्ने वा यज्ञमा पैसा राख्ने ) 

 ॐ तत्त्वा यामि ब्रह्मणा व्वन्दमानस्तदाशास्ते यजमानो हविर्भिः ।
 अहेडमानो वरुणेह बोध्यरुश गूँ स मा ना आयुः प्रमोषीः ॥


 त्र्यम्बकमिति पवित्रच्छेदनार्थानि प्रादेशपरिमितानि त्रीणि कुशतरुणानि दृढानि स्थापयेत् 
( कुश लिने )
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिवबन्धनान्मृत्योर्मुक्षीय मामृतात् ॥ 

 

ततः पवित्रे कृत्वा पवित्रे स्थ इति पवित्रकरणार्थं साग्रेऽनन्तर्गर्भे द्वे कुशतरुणे
 ( पवित्र बनाउने )
 ॐ पवित्रेस्थो वैष्णव्यौ सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ।
 देवीरापोऽअग्रेगुवोऽअग्रेपुवोग्रऽइममद्य यज्ञं नयताग्रे यज्ञपति ꣳ सुधातुं यज्ञपतिं देवयुवम् ॥ 

इमं मे वरुण इति वारणं द्वादशाङ्गुलदीर्घं करतलसम्मितखातं पद्मपत्राकृति कमलमुकुलाकृति वा प्रोक्षणीपात्रम्न्युब्जम्  
( प्रोक्षणी बनाउने )
 ॐ इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके ।।

धृतवतीति तैजसी मृन्मयी वा द्वादशाङ्गुलविस्तृता प्रादेशोच्चा आज्यस्थाली न्युब्जम्
 ( घ्यूको थाली अर्थात् कचौरा अथवा मानो राख्ने ) 

 ॐ घृतवती भुव नानामभित्रियोर्वी पृथ्वी मधुदुधे सुपेशसा ।
द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा ॥

 अन्नपतेन्नस्येति तादृश्येव चरुस्थाली न्युब्जम्
 ( चरु थालीमा राख्ने )
 ॐ अन्नपतेऽन्नस्य नो देहघनमीवस्य शुष्मिणः । प्रप्रदातारं तारिषऊर्जं नो घेहि द्विपदे चतुष्पदे ॥ ततः शादन्दद्भिरिति सम्मार्जनकुशास्त्रिप्रभृतयः ( कुश लिने ) 

 ॐ शादन्दद्भिरवकान्दन्तमूलैर्मृदं व्वस्वैर्स्तेगान्दᳩ ष्ट्राभ्यां सरस्वत्याऽअग्रजिह्वं जिह्वायाऽउत्सादम वक्रन्देन तालुवाज ꣳ हनुभ्यामप आस्येन व्वृषणमाण्डाभ्यामादित्वाँ २ ॥ श्मश्रुभिः पन्थानं भ्रूभ्यां द्यावापृथिवी व्वर्तोभ्यां विद्युतङ्कनीनिकाभ्याᳩ शुक्लाय स्वाहा कृष्णाय स्वाहा पार्याणि पक्ष्माण्यवार्याऽ 
इक्षवोऽवार्याणि पक्ष्माणि पार्याऽइयक्षवः ।

उपयामगृहितोऽसीति उपयमनकुशाँस्त्रयोदश 
( १३ ओटा कुशको उपयमन बनाउने) 
ॐ उपयामगृहीतोऽस्यन्तर्यच्छ मघवन् पाही सोमम् । 
उरुष्य राय एषो यजस्व ॥ 

 समिधाग्निमिति समिधस्तिस्रः पलाश्यः प्रादेशमात्र्यः पृथक् स्थापयेत्
(तीनवटा पलाँसका समिधा भिन्नै राख्ने)
ॐ समिधाग्निन्दुवस्यत घृतैर्बोधयतातिथिम् ।  
आस्मिन्हव्या जुहोतन ॥

 
स्रुवःखादिरो हस्तेमात्रोऽङ्गुष्ठपर्वमात्रातखातःपरिणाहवर्तुलपुष्करः न्युब्जः ।
( यज्ञमा सुरो राख्ने )

गव्यम् आज्यम् । चरुपचेत् त्रिप्रक्षालिप्ता बीहितण्डुलाः । 

पूर्णपात्रम् - ( पदपञ्चाशदधिकशतद्वयमुष्टि परिमितं ( २५६ ) परार्घ्यम् , बहु भोक्तृपुरुषाहारपर्यन्तमपराधी ( २५६ मुठी अथवा १ जना अधाउने जति पूर्णपात्र ठिक्क पार्ने । (  तण्डुलापत्यम् ॥

 अन्यानि चोपयुक्तानि वस्तुत्यासाच तत आसाविते द्वे कुशतरणि गृहीत्वा अग्रतः प्रादेशमात्र परिमाय तयोरुपरि आसादितानि त्रीणि कुशतरुणानि तिर्यङ् निधाय पवित्रमूलेन पवित्रे प्रदक्षिणक्रमेणवेष्ट्य त्रयाणां मूलाग्राणि द्वयोर्मूलं च दक्षिणहस्तेन , पवित्रे च वाम हस्तेन गृहीत्वा " पवित्रे स्थः " इति मन्त्रेण प्रच्छिय द्वयोर्मूल त्रीणि चोत्तरतः क्षिपेत् । 

देवस्य त्वेति द्वे पवित्रे प्रणीतापात्रे निधाय 
( प्रोक्षणीमा पवित्र राख्ने ) 
ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् । अग्नये जुष्टं गृण्हाम्यग्नीषोमाभ्यां जुष्टं गृण्हामि ॥

ततः प्रोक्षणीपात्रं प्रणीतासन्निधौ निधाय तत्र पात्रान्तरेण हस्तेन वा प्रणीतोदकमा सिच्य पवित्राभ्यामुत्पूय पवित्रे प्रोक्षणीषु निघाय दक्षिणहस्तेन प्रोक्षणीपात्रमुत्थाप्य सव्ये कृत्वा तदुदकं दक्षिणहस्तानामिकाङ्गुष्ठाभ्यां त्रिरूध्वं क्षिप्त्वा प्रणीतोदकेन प्रोक्ष्य आसादितानि न्युब्जानि उत्तानानि कृत्वा आज्यस्थाल्यादीनि पूर्णपात्रपर्यन्तानि प्रोक्षणीभिरद्भिरासादनक्रमेणैकैकशः प्रोक्ष्य असञ्चरे प्रणीताग्न्योरन्तराले प्रोक्षणीपात्रं निदध्यात् ।
 ( प्रणीतामा कुश चोबेर सबैतिर प्रणीताको जलले सेञ्चन गर्ने ) 

 ततो घृताच्यसीति आज्यस्थाल्यामासादितमाज्यं चरूंश्च प्रणीतोदकमासिच्य चरुस्थाल्यां निदध्यात् ।
 ( थालीमा घ्यू राख्ने )

 ॐ घृताच्यसि जुहूर्नाम्ना सेदं प्रियेण धाम्ना प्रिय सदा आसीद घृताच्यस्युपभृन्नाम्ना सेदं प्रियेण धाम्ना प्रिय ꣳ सदा आसीद घृताच्यसि धुवानाम्ना सेदं प्रियेण धाम्ना प्रियᳩ सदऽआसीद प्रियेण धाम्ना प्रिय सदाऽआसीद । धुवाऽअसदन्नृतस्य योनौ ता व्विष्णो पाहि यज्ञं पाहि मां यज्ञन्यम् ॥ 

ततो ब्रह्मा आज्यं चरुं च युगपदग्नावारोप्य ब्रह्माभावे स्वयं यजमानो वा ज्वलदुल्मुकमादाय ( धृष्टिरसीति ) मन्त्रेणाऽऽज्यचर्वोः समन्ताद्भ्रामयित्वा अग्नौ क्षिपेत् 
( कुश बालेर घ्यू र चरुमा घुमाएर अग्निमा लगाउने )


 ॐ धृष्टिरस्यपाग्नेऽ अग्निमामादं जहि निष्क्रव्यादिशो सेधादेवयजं वह । 
ध्रुवमसि पृथिवीन्दृ गुं ह ब्रह्मवनि त्वा क्षत्रवनि सजातवन्युपदधामि भ्रातृव्यस्य वधाय ॥ 

अथ स्रुवसंस्कारः 

सुचश्च मे इति स्रुवग्रहणम् ( सुरो लिने ) 

ॐ स्रुचश्च मे चमसाश्च मे वायव्यानि च मे द्रोणकलशश्च मे ग्रावाणश्च मे घिषवणे च मे पूतभृच्च म आधवनीयश्च मे वेदिश्च मे बर्हिश्च मे वभृयश्च मे स्वगाकारश्च मे यज्ञेन कल्पन्ताम् ॥


इति दक्षिणहस्तेन ऋजु सुवमादाय पुनन्तु मेति,पूर्वाग्रमकोविलमरती तापयेत् 
( यज्ञको अग्निमा सुरो तताउने)
ॐ पुनन्तु मा देवजनाः पुनन्तु मनसा धियः । 
पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा || 

ततो वामे पाणावृत्तानविलं निधाय ' प्रत्युष्ट रक्ष ' इति दक्षिणहस्तेन संमार्जनकुशः प्रणीतोदकेन खुवप्रोक्षण कुर्यात्
 ( प्रणीताको जलले सुरोलाई सेचन गर्ने ) 
ॐ प्रत्युष्ट ꣳ रक्षः प्रत्युष्टाउअरातयो निष्टप्त£•रक्षो निष्टुप्ताऽअरातयः । उर्वन्तरिक्षमन्वेमि ॥ 

तत अनिशितोसीति दक्षिणहस्तधृतमध्यसम्मार्जनकुशानामग्रैर्मूलतोऽग्रपर्यन्तं मूलैरग्रमारम्य अग्रस्तान्मूलपर्यन्तं समृज्य 
( सुरोलाई संमार्जन गर्ने ) 
ॐ अनिशितोसि समत्नक्षि द्वाजिनं त्वा वाजेध्यायै सम्मार्मि ॥

 पुनन्तु मेति पुनः सुवं प्रतप्य ( फेरि तताउने ) 
ॐ पुनन्तु मा देवजनाः पुनन्तु मनसा धियः । 
पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा ॥

शन्नो देवीरिति प्रणीतोदकेनाभिषिच्य 
( प्रणीताको जलले सेचन गर्ने ) 
ॐ शन्नो देवीरभिष्टया आपो भवन्तु पीतये । 
शंयोरभि स्रवन्तु नः ॥ 

तत्त्वा यामिति पुनः स्रुवं प्रतप्य ( सुरो फेरि तताउने )
 ॐ तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्युरुश ꣳ स मा न आयुः प्रमोषीः ॥

 तमुत्वेति सूवमुदङ्मुखमात्मनो दक्षिणतो कुशोपरि निदध्यात्
( उत्तर फर्काई राख्ने )
 ॐ तमु त्वा दध्यङ् ऋषिः पुत्र ईघेऽ अथर्वणः । 
वृत्रहणं पुरन्दरम् ॥

 तेजोसीति आज्यमुत्याप्य चरोः पूर्वेण नीत्वा अग्नेरुत्तरतः स्थापयित्वा चरुमुत्थाप्य आज्यस्य पश्चिमतो नीत्वा आज्यस्योत्तरतः स्थापयित्वा आज्यमग्नेः पश्चादानीय स्थापयेत् 
( घ्यू तताउने )
 ॐ तेजोऽसि शुक्रमस्यमृतमसि धामनामासि ।
 प्रियं देवानामनाधृष्टदेवयजनमसि । 

तथैव चरुं चानीय पशुभिरित्याग्नेः प्रदक्षिणं कारयित्वा आज्यस्योत्तरतः स्थापयेत् 
( चरुलाई घ्यूको उत्तरतर्फ राख्ने ) 
 ॐ पशुभिः पशूनाप्नोति पुरोडाशैर्हवीᳩष्या ।
 छन्दोभिः सामिधेनीर्याज्याभिर्वषट्कारान् ॥ 

 ( घ्यू सफा गर्ने )
 आपवस्वेत्याज्यावेक्षणम् 
 ॐ आपवस्व हिरण्यवदश्ववत्सोम वीरवत् ।
 व्वा जङ्गो गोमन्तमा भर स्वाहा ॥ 

 प्रत्युष्ट गुं रक्ष इति पूर्वपवित्राभ्यामाज्यं त्रिरुत्पवनम्
 ( पवित्रले घ्यूलाई तीनपटक छर्कने )
 ॐ प्रत्युष्ट ꣳ रक्षः प्रत्युष्टा अरातयो निष्टप्त रक्षो निष्टप्ताऽअरातयः ।  उर्वन्तरिक्षमन्वेमि ॥

आ त्वा हार्यमिति द्रव्यनिरीक्षणम् (घ्यूमा पैसा राख्ने ) 
 ॐ आ त्वाऽहार्यमन्तरभू धुं वतिष्ठाविचाचलिः । विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधि भ्रसत् । 

विष्णोरराटमिति द्वे पवित्रे आज्ये चरौ च निघाय 
( घ्यू र चरुमा पवित्र राख्ने ।
 ॐ विष्णो रराटमसि विष्णोःश्नप्वे स्थो विष्णोः स्यूरसि विष्णोधु वोसि । वैष्णवमसि विष्णवे त्वा ॥ 

देवस्य त्वेति प्रोक्षणीपात्रस्थपवित्राभ्यां पूर्ववत् प्रोक्षणीमुत्पूय तेनासादित वस्तुसेचनम् 
( प्रोक्षणी र प्रणीताको जलले सेचन गर्ने ) 
 ॐ देवस्य त्वा सवितुः प्रसवेश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् । अग्नीषोमाभ्यां त्वा जुष्टं नियुनज्मि । अद्भ्यस्त्वौषधीभ्योऽनु त्वा माता मन्यतामनु पितानु भ्राता सगयोऽनु सखा सयूथ्यः । अग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामि ॥ 

धृष्टिरसीति ज्वलदुल्मुकमाज्यचर्वोरूपरि समन्तात् प्रदक्षिणक्रमेण भ्रामयित्वा अग्नौ क्षिपेत् 
( कुश वाली घ्यू चरुमा घुमाई अग्निमा होम्ने )
 ॐ धृष्टिरस्यपाग्ने अग्निमामादञ्जहि निष्क्रव्याद ꣳ सेघादेवयजं वह । ध्रुवमसि पृथिवीन्द्र गु ब्रह्मवनि त्वा क्षत्रवनि सजातमन्युपदधामि भ्रातृव्यस्य व्वधाय ॥ 

अर्घ्यपूजनम् अर्घ्यदानं च

पूर्वस्थापितं अर्घ्यं गन्धादिभिः पूजयेत् । 
( अर्घको पूजा गर्ने ) 

 ॐ गङ्गे च यमुने चैव गोदावरि सरस्वति । 
नर्मदे सिन्धोकावेरि जलेऽस्मिन् सन्निधिं कुरु ॥
 इति मन्त्रेणाङ्कुशमुद्रया सूर्यमण्डलाद् गङ्गादिनदीरावाह्य धेनुमुद्रयाऽमृतीकृत्य मत्स्यमुद्रयाच्छाद्य प्रणवेन अष्टधा अभिमन्त्रयेत् । ( धेनुमुद्रा , अङ्कुश मुद्रा , मत्स्य , सङ्खमुद्रा बनाई देखाउने ) ततः सूर्याय अर्घ्यं दद्यात् । 
( अब सूर्यलाई अर्घ्य दिने ) 

।। सूर्यार्घ्यदानम् ।।

आफ्नो आसनबाट उठी सूर्यनारायण भगवानको स्मरणगर्दै अर्घ्य दिने मन्त्र ।।

ॐ एहि सूर्य ! सहस्रांशो तेजोराशे ! जगत्पते ।
अनुकम्पय मां भक्त्या गृहाणार्घ्यं दिवाकर ! ।।
ॐ ब्रह्मस्वरुपिणे श्रीसूर्यनारायणाय नमः इदमर्घ्यं दत्तं न मम ।।

हातमा फूल अक्षतादि लिएर सूर्यनारायण भगवान कोप्रार्थना गरि उक्त अर्घ्य दिईएको ठाउँमा फूल चढाउने मन्त्र ।

ॐ ध्येयः सदा सवृत्तिमण्डलमध्यवर्तिः
नारायणसरसिजासरसन्निविष्टः ।
केयूरवान्मकरकुण्डलवान् किरीटिः
हारिहिरण्मयवपुर्धृतशङ्खचक्रः ॥

॥ इति अर्घ्य विधिः ॥

 ब्रह्माविष्णुप्रजापतिनां पूजनम् 


आब्रह्मन् इति ब्रह्मार्चनं कुर्यात् 
( पञ्चोपचारले ब्रह्माजिको पूजा गर्ने र नमस्कार गर्ने )
 ॐ आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायतामाराष्ट्र राजन्यः शूर इषव्योतिव्याधी महारथो जायतां दोग्ध्री धेनुर्वोढानड्वानाशुः सप्तिः पुरन्धिर्योषा जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य वीरो जायतां निकामे निकामे नः पर्जन्यो वर्षतु फलवत्यो नाओषधयः पच्यन्तां योगक्षेमो नः कल्पताम् ॥


 इदं विष्णुरिति विष्णवर्चनम् 
( विष्णुको पूजा गर्ने र ध्यान गर्ने )
ॐ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । 
समूढमस्यपा सुरे स्वाहा ॥ 

प्रजापते अनेन प्रजापतिपूजनम् 
( भगवान् शङ्करको पुजा ध्यान गर्ने ) 
ॐ प्रजापते न त्वदेतान्यन्यो विश्वा रूपाणि परिता बभूव । यत्कामास्ते जुहुमस्तन्नोऽअस्तु वय गुं स्यामपतयोरयीणाम् ॥

 

 हिरण्यगर्भ इति हिरण्यं निधाय
 ( प्रजापतिको पूजा गर्ने र ध्यान गर्ने अनि सबै स्थानमा दक्षिणा अर्पण गर्ने ) 
 ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेकाआसीत् । स दाधार पृथिवीं चामुतेमां कस्मै देवाय हविषा विधेम ॥ 

अग्निपूजनम्

 तदेवाग्निरित्यग्निमर्चयेत् ( पञ्चोपचारले अग्निको पूजा गर्ने )
  तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः । 
तदेव शुक्रं तद्ब्रह्म ताऽआपः स प्रजापतिः ॥ 

ततः पूर्वस्थापितसमिधस्तिस्रो विहाय अपरसमिधादानम्
 ( अन्य तीन समिधा अग्निमा थप्ने )
 ॐ समिधाग्निन्दुवस्यत घृतैर्बोधयतातिथिम् । 
आस्मिन्हव्या जुहोतन ॥ 

ततः अग्नावेव पूर्वादिप्रदक्षिणक्रमेण ऋग्वेदादींश्च पूजयेत्


 पूर्वे  ॐ ऋग्वेदाय नमः । 
( पूर्वमा ऋग्वेदको पूजा गर्ने ) 
 ॐ अग्निमीडे पुरोहितं यज्ञस्य देवमृत्विजम् । 
होतारं रत्नधातमम् ॥ 

दक्षिणे ॐ यजुर्वेदाय नमः । ( दक्षिणमा यजुर्वेदको पूजा गर्ने ) 
ॐ इषे त्वोर्जे त्वा वायवस्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आप्यायध्वमध्न्या इन्द्राय भागं प्रजावतीरनमीवा अयक्ष्मा मा वस्तेनऽईशत माघश ꣳ सो धुवाऽअस्मिन् गोपतौ स्यात बह्वीर्यजमानस्य पशून्पाहि ॥ 

 ( पश्चिममा सामवेदको पूजा गर्ने ) पश्चिमे ॐ सामवेदाय नमः । 
 ॐ अग्नऽआयाहि वीतये गृणानो हव्यदातये । 
 निहोता सत्सि बर्हिषि ॥ 

( उत्तरमा अथर्ववेदको पूजा गर्ने ) उत्तरे ॐ अथर्ववेदाय नमः । 
 ॐ शन्नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभिस्रवन्तु नः ॥ 

आप्यायस्वेति चरुं ब्रह्मणे समर्पयेत् । ( ब्रह्मालाई चरु समर्पण गर्ने )
ॐ आप्यायस्व समेतु ते व्विश्वतः सोम व्वृष्ण्ण्णयम् । भवा व्वाजस्य सङ्गथे ॥ 

ततोऽग्नि प्रार्थनम् ( अग्निको प्रार्थना गर्ने )
अत्र विनियोगः
 ॐ नमो यज्ञपुरुष वैश्वानर परमात्मादेवता ब्रह्मा ऋषिः कपिलवर्ण उष्णिक् छन्दो रुद्रो देवता होमे विनियोगः । 

नारद उवाच 
ॐ प्राङ्मुखस्तु स्थितो वह्निः प्राङ्मुखा एव ऋत्विजः । 
प्राङ्मुखा देवताः सर्वाः कथं प्रत्यङ्मुखो भवेत् ॥ 

ब्रह्मोवाच 
आवाहयेत्ततो वह्निं मन्त्रपूतेन वारिणा । 
अनलश्च जलं दृष्ट्वा भीतः प्रत्यङ्मुखो भवेत् ॥

 नारद उवाच 
पावकस्य तु किं रूपं को वर्णः किञ्च लक्षणम् । शिरोबाहूदराङ्घ्रीणां चक्षुः श्रोत्रमुखस्य च ॥ 

ब्रह्मोवाच 
पावकं द्विजरूपं च त्रिनेत्रं च चतुर्भुजम् । 
त्रिशिखं सप्तजिह्वं च पञ्चलक्षणसंयुतम् ॥ 
त्रिभागं तु मुखं तस्य अधिकं वक्त्रमुच्यते । 
उत्तरास्ये स्थितो विष्णुदक्षिणास्ये प्रजापतिः ॥ 
मध्यवक्त्रे तु ईशान एवं ब्रह्मप्रभासितम् । 
मूर्ध्नि चैव त्वहं ब्रह्मा मुखे चैव तु शङ्करः ॥
 जिव्हायां संस्थितो विष्णुर्दष्ट्रायां च ग्रहाः स्मृताः । 
नासायां देवताः सर्वाश्चक्षुषीन्दुदिवाकरौ ॥ 
ऋग्वेदो हृदयस्थाने बाह्वगुल्योर्यजुस्तथा । 
उदरे कटिगुहये च सामवेदः प्रकीर्तितः ॥ 
अथर्वा जङ्घपादौ च ग्रीवौशरस्तथैव च । 
पृष्ठे चैव तु गायत्री एवं स्यात्तु षडङ्गकम् ॥
 हरकमल पिङ्गललोचन लोहिताक्षः सर्वपापप्रणाशन । 
इति वैश्वानरलक्षणम् ।
 कस्य पुत्रः , कस्य कुलोत्पन्नः , किं गोत्रं , क पिता , का माता इति कात्यायनवचनात् , शृङ्गीगोत्रम् , शण्डिल्यः पिता , अरणिर्माता , उदानकुक्षिमूर्ध्वमुखललाटम् । 

काल कराली च मनोजवा च 
सुलोहिता चैव सुधूम्रवर्णा ।
स्फुलिङ्गिनी विश्वघरा च चण्डी 
लोलायमाना इति सप्तजिह्वाः ॥

त्रिशिख च चक्रघरं साक्षसूत्रकमण्डलुम् । 
व्याघ्रहस्तं दिव्यपुष्पगन्धाभरणभूषितम् । 
अजास्कन्धसमारूढं कृष्णा जिनोत्तरीयकम् । 
ऋग्यजुः सामाथवख्यवेदानां ध्वनिभूषितम् । 
होमार्थं प्रार्थयेहं त्वां चर्वाज्याभ्यां हुताशन । 
( अमुककर्मणि ) 
अमुकनामन् दिव्यरूप वैश्वानर आवाहितो भव ।
 तावत्तिष्ठात्र में ब्रह्मन् यावत्कर्म समाप्यते ।
 
विनियोगः
ॐ चत्वारीति वैश्वानरमन्त्रस्य वामदेवऋषिस्त्रिष्टुप्छन्दो वैश्वानरो देवता अग्निप्रार्थने विनियोगः । 

ॐ चत्वारी शृङ्गा त्रयोऽअस्य पादा द्वे शीर्षे सप्तहस्तासोऽअस्य । त्रिधा बद्धो वृषभो रोरवीति मह देवो मत्याँ २ । आविवेश ॥ इति अग्निप्रार्थनम् ( चन्दन , अक्षता , फूलले कोण कोण र बीचमा पूजा गर्ने ) ततो गन्धपुष्पादिभिरग्निं पूजयेत् - 

आग्नेये - ॐ ब्रह्मणे नमः । 
नैऋत्ये - ॐ पौष्टिकाय नमः ।
वायव्ये - ॐ बलवर्धनाय नमः । 
 ऐशान्ये - ॐ प्रजापतये नमः । 
मध्ये - ॐ विष्णवे नमः ।


कर्मविशेष अग्नेर्नामानि 

अग्निश्च भरतो नाम गर्भाधाने विधीयते ।
तथा पुंसवने चैव सीमन्ते जातकर्मणि ॥

 नाम्नि वै पार्थिवो वह्निः प्राशने तु शुचिः स्मृतः ।
चूडायां मङ्गलो नाम व्रतदाने समुद्भवः ॥ 

 गोदाने सूर्यनामा च विवाहे योजकस्तथा ।
 शान्ति के दारुणो नाम पौष्टिके बलवर्धनः ॥ 

 आवासभ्ये भवेदग्निरग्निष्टोमे प्रदायकः ।
वनदाहे दूतकाख्यः प्रकोष्ठे जठरः स्मृतः ॥

 वायव्ये वरुणो नाम स्थावरे पावको भवेत् । 
क्रव्यादो मृतभक्षी च समुद्र वडवानलः ॥ 
 युगान्ते चाक्षयो नाम वत्सरे प्रलयं गतः । 
इति 

 

 विशेषकर्म अनुसार अग्निका नामहरू

१. गर्भधान , पुंसवन , सीमन्त , जातकर्ममा भरतनाम ,
२. न्वारानमा पार्थिवनाम 
३. अन्नप्राशनमा शुचि
४. चूडाकर्ममा मंगलनाम
५. व्रतदानमा समुद्भव नाम
६ . समावर्तनमा सूर्य
७. विवाहमा योजक ,
८. शान्तिकमा दारुण 
९. पौष्टिकमा बलवर्द्धन ,
१०. घरभित्र गरिने अग्निष्टोमयज्ञमा प्रदायकनाम
११. डढेलोमा दुतक 
१२. प्रकोष्ठमा ( बाहिरी बैठक ) जठर ,
१३. वायव्ययज्ञमा ( वायुयज्ञ ) वरुण
१४. स्थावरयज्ञमा ( वृक्षादिको प्रतिष्ठा ) पावक
१५. चितामा क्रव्याद
१६. समुद्रमा वडवानल
१७. युगान्तमा अक्षय
१८. प्रलयमा संवर्तक 
अग्निका नाम हुन्छन् । 

 अथ ब्राह्मणवरणम् 

तत्रादौ कुशतिलजलयुतगन्धपुष्पाक्षतताम्बूलपूगीफलवस्त्रद्रव्याभरणादीन्यादाय संकल्पं कुर्यात् ।
( वरण सामग्री तयार गरी हातमा कुसजल लिएर सङ्कल्प गर्नुहोस् )

सङ्कल्पः

ॐ तत्सत् विष्णुः ३ इत्यादिदेशकालादीन् सङ्कीर्त्य ( अमुक ) गोत्र ( अमुक ) प्रवर :  ( अमुक ) शर्माहं ( अमुक ) कर्मणि कृताकृतावेक्षणारूपब्रह्मकर्मकर्तुं ( अमुक ) कर्मणि प्रतिदेवतानां साज्यभागान्तमाहवनीयद्रव्ययुतहोमकर्मकर्तुं च ( अमुक ) कर्मणि तत्तत्कर्मविहितोपयोग्याचारकर्मकर्तुं  ( अमुक ) कर्मणि चतुर्वेदोक्तमन्त्रजपपाठकर्मकर्तुं ( पुण्यावाचनार्थं च ) नानानामगोत्रान् नानानामशर्मणो ब्राह्मणानेभिश्चन्दनपुष्पाक्षतताम्बूलपूगीफलवासोद्रव्या भरणादिभिर्गणपतिब्रह्माहोत्राचार्यत्वेन जापकपाठकत्वेन ऋत्विक्त्वेन च युष्मानहं वृणे ।
 ॐ वृताः स्म यथा विहितं कर्म कुरु , यथा ज्ञानेन करवामः ।
 इति ब्राह्मणाः ब्रूयुः ।

नमोस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटि युगाधारिणे नम : ।

आकृष्णे नरजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ।

( ब्राह्मणलाई टीका लगाई वरण सामग्री दिने )
नमो ब्रह्मण्य देवाय गोब्राह्मण हिताय च ।
जगत् हिताय कृष्णाय गोविन्दाय नमो नमः ॥

आकाशात् पतितं तोयं यथा गच्छति सागरम् ।
सर्वदेवनमस्कारम् केशवं प्रति गच्छति ॥ 

अथ ब्रह्मादिऋत्विक्  प्रार्थना ।

ब्रह्मप्रार्थना  ( ब्रह्माको प्रार्थना गर्ने )
ॐ यथा चतुर्मुखो ब्रह्मा सर्ववेदविशारदः ।
तथा त्वं मम यज्ञेऽस्मिन् ब्रह्मा भव द्विजोत्तम ॥

होतृप्रार्थना ( होताको प्रार्थना )
ॐ भगवन् सर्वधर्मज्ञ सर्वधर्मविदांवर ।
वितते मम यज्ञेऽस्मिन् होतृत्वं मे मखे कुरू ॥ 

आचार्य प्रार्थना( आचार्यको प्रार्थना )
ॐ आचार्यस्तु यथा स्वर्गे शक्रादीनां बृहस्पतिः ।
तथा त्वं मम यज्ञेऽस्मिन्नाचार्यो भव सुव्रत । 

 वेदपाठकानां प्रार्थना

 (अन्य ब्राह्मणहरूलाई प्रार्थना गर्ने )

पूर्वदिशि ऋग्वेदपारायणार्थम्
ॐ ऋग्वेदः पद्म पत्राक्षः गायत्रः सोमदैवतः ।
अत्रिगोत्रस्तु विप्रेन्द्र ऋत्विक्त्वं मे मखे भव ॥

 दक्षिणदिशि यजुर्वेदपरायणार्थम्
ॐ कातराक्षो यजुर्वेदस्त्रैष्टुभो विष्णुदैवतः ।
 काश्यपेयस्तु विप्रेन्द्र ऋत्विक्त्वं मे मखे भव ॥

 पश्चिमदिशि सामवेदपरायणार्थम्
ॐ सामवेदस्तु पिङ्गाक्षो जागतः शक्रदैवतः ।
भारद्वाजस्तु विप्रेन्द्र ऋत्विक्त्वं मे मखे भव ॥ 

उत्तरदिशि अथर्ववेदपरायणार्थम्
ॐ बृहन्नेत्रोऽथर्ववेदोऽनुष्टुभो रुद्रदैवतः ।
वैशंपायन विप्रेन्द्र ऋत्विक्त्वं मे मखे भव ॥

 ( अमुक ) कर्मणि ( अमुक ) देवताया अमुकमन्त्रजपकर्मकर्तुं त्वामहं वृण इति जापकांश्च वृणुयात् ।
ततो ब्राह्मणान् मधुपर्कादिना संपूज्य प्रार्थयेत्

ॐ ब्राह्मणाः सन्तु मे शस्ताः पापात्पान्तु समाहिताः ।
वेदानां चैव दातारः पातारः सर्वदेहिनाम् ॥ 

जपयज्ञैस्तथा होमैर्दानैश्च विविधैः पुनः ।
देवानां च पितॄणां च तृप्त्यर्थं पाठकाः कृताः ॥ 

येषां देहे स्थिता वेदाः पावयन्ति जगत्त्रयम् ।
रक्षन्तु सततं तेऽस्मान् जपयज्ञे व्यवस्थिताः ॥

 ब्राह्मणा जङ्गमं तीयं त्रिषु लोकेषु विश्रुतम् ।
येषां वाक्यामृतेनैव शुद्धययन्ति मलिनो जनाः ॥

 पावनाः सर्ववर्णानां ब्राह्मणा ब्रह्मरूपिणः ।
सर्वकर्मरता नित्यं वेदशास्त्रार्थकोविदाः ॥ 

श्रोत्रियाः सत्यवाचश्च वेदध्यानरताः सदा ।
यद्वाक्यामृतसंसिक्ता ऋद्धिं यान्ति नरद्रुमाः ॥ 

अङ्गीकुर्वन्तु कर्मैतत् कल्पद्रुमसमाशिषः ।
यथोक्तनियमैर्युक्ता मन्त्रार्थे स्थिरबुद्धयः ॥

 यत्कृपालोचनात्सर्वा ऋद्धयो बृद्धिमाप्नुयुः ।
मम यज्ञे सदा पूज्याः सन्तु वै नियमान्विताः ॥ 

अक्रोधनाः शौचपराः सततं ब्रह्मवादिनः ।
जपध्यानरता नित्यं प्रसन्नमनसः सदा ॥ 

अदुष्टभाषिणः सन्तु मा सन्तु परनिन्दकाः ।
ममापि नियमा हयेते भवन्तु भवतामपि ॥ 

इति ब्राह्मणप्रार्थनायां विशेषवाक्यानि । 

अथ पुण्याहवाचनम्

गन्धपुष्पाक्षतताम्बूलपूगीफलद्रव्यवस्त्रादिभिस्त्रींश्चतुरः  पञ्च वा ब्राह्मणान् सम्पूज्य हस्ते फलादिकं गृहीत्वा
 ( फल , फूल , दुबो , अक्षता लिई नमस्कार गर्ने ) 

ॐ तत्सत् विष्णुर्विष्णुर्विष्णुरित्यादि देशकालादीन् स्मृत्वा  अद्येहामुकगोत्रस्यामुकशर्मणो मम गृहे अस्मिन्  कर्मणि
( वा अस्मै कर्मणे )
भो ब्राह्मणाः ।  ॐ पुण्याहं भवन्तो ब्रुवन्तु इति त्रिः । श्रावयेत् ।  ते च ॐ पुण्याहम् । इति त्रिः प्रतिवचनं ब्रूयुः ।

( यजमानले तीनपटक भन्ने )
ॐ पुनन्तु मा देवजनाः पुनन्तु मनसा धियः ।
पुनन्तु विश्वा भूतानि जातवेदः पुनीहि माम् ॥

 पुनः पूर्ववत् 

 ॐ अद्येहेत्याद्युच्चार्य अस्मिन् कर्मणि  ( वा अस्मै कर्मणे ) भो ब्राह्मणाः ॐ स्वस्ति भवन्तो ब्रुवन्तु
( यजमानले तीन चोटि भन्ने ) इति त्रिः श्रावयेत् । 
( ब्राह्मण ले भन्ने ) ॐ स्वस्तिः ॐ स्वस्तिः ॐ स्वस्तिः 

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः
 स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्द्दधातु ॥ 

 पुनः पूर्ववत् ॐ अद्येहेत्यादि उच्चार्य अस्मिन् कर्मणि ( वा अस्मै कर्मणे ) मोमणाः । 
ॐ अभिवन्तो इति इति कि प्रतिवचनम् । 
( यजमानले भन्ने )
ॐ सत्रस्य ऋद्धिरस्यगन्म ज्योतिरमृताऽ अभूम ।
दिवं पृथिव्या अध्यारुहामाविदाम देवान्स्वर्ज्योतिः ॥


 पुनः पूर्ववत्  ॐ अद्येहेत्यायुच्चार्य अस्मिन् कर्मणि  ( वा अस्मै कर्मणे ) भो ब्राह्माणः ।  ॐ वृद्धि भवन्तो ब्रुवन्तु इति त्रिः । ॐ वृद्धिः । इति त्रिः प्रतिवचनम् ।  ( यजमानले तीन पटक भन्ने । 
 ॐ ज्यैष्ठघन्च माआधिपत्यञ्च में मन्युश्च मे मामश्च
 मेमश्च मेम्मश्च मे जेमा च मे महिमा च मे वरिमा
च मे प्रथिमा च मे वर्षिमा च मे द्राधिमा च मे वृद्धञ्च
 मे वृद्धिश्च मे यज्ञेन कल्पन्ताम् ।

 ( ब्राह्मणहरूले भन्ने - उन्नति , नाफा होस ) 

पुनः पूर्ववत्ॐ  अद्येहेत्यायुच्चार्य अस्मिन् कर्मणि ( वा अस्मै कर्मणे ) भो ब्राह्मणाः ।  ॐ कल्याणं भवन्तो ब्रुवन्तु । इति त्रिः । ॐ कल्याणम् ।  इति त्रिः प्रतिवचनम् । ( यजमानले तीन पटक भन्ने )

ॐ यथेमां वाचं कल्याणीमावदानि जनेभ्यः ।
ब्रह्मराज न्याभ्या छ शूद्राय चार्याय च स्वाय चारणाय च ।
 

प्रियो देवानां दक्षिणायै दातुरिह भूयासमयं मे
कामः समृद्धियतामुपमादो नमतु ॥

( ब्राह्मणहरूले भन्ने कल्याण , भलाइ , सौभाग्य , स्वर्ण होस् ) 

पुनः पूर्ववत्  ॐ अद्येहेत्याद्युच्चार्य अस्मिन् कर्मणि ( वा अस्मै कर्मणे ) भो ब्राह्मणाः ।  ॐ शान्तिं भवन्तो ब्रुवन्तु । इति त्रिः ॐ शान्तिः । इति त्रिः प्रतिवचनम् । 
 ( यजमानले तीन पटक भन्ने 

( ब्राह्मणहरूले भन्ने -  ) 

ॐ द्यौः शान्ति रन्तरिक्ष ꣳ
शान्तिः पृथिवीशान्तिरापः शान्तिरोषधयः शान्तिः वनस्पतयः
शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्मशान्तिः सर्व शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि ॥ 

( ब्राह्मणहरूले भन्ने -  ) 

पुनः पूर्ववत् अद्येहेत्याद्युच्चार्य अस्मिन् कर्मणि  ( वा अस्मै कर्मणे ) भो ब्राह्मणाः  । ॐ श्रियं भवन्तो ब्रुवन्तु ।  इति त्रिः श्रीः । इति त्रिः प्रतिवचनम् ।  ( यजमानले तीन पटक भन्ने )
ॐ मनसः काममाकूतिं वाचः सत्यमशीय ।
पशूना ॐ रूपमन्नस्य रसो यशः श्रीः श्रयताम् । 

( ब्राह्मणहरूले भन्ने- सम्पत्ति , सम्पन्न होस् )

गजाननं भूतगणाधिसेवितं कपित्यजम्बूफलचारुभक्षणम् ॥
उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपङ्कजम् ॥ 

ॐ विघ्नेश्वराय वरदाय सुरप्रियाय
लम्बोदराय सकलाय जगद्धिताय 
नागाननाय श्रुतियज्ञविभूषिताय
गौरीसुताय गणनाथ नमो नमस्ते ॥
 

इति मन्त्रान् पठित्वा  ( यजमानलाई टीका लगाई फूल या सुपारी दिने  )
श्रीर्वर्चस्वमायुष्यमारोग्यमाभिधात् पवमानं महीयते ।
धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमाऽऽयुः 

मन्त्रार्थाः सफलाः सन्तु पूर्णाः सन्तु मनोरथाः 
शत्रूणां बुद्धिनाशोऽस्तु मित्राणामुदयोऽस्तु वः ॥

 अव्याधिना शरीरेण मनसा च निराधिना ।
पूरयन्नथिनामाशास्त्वं  जीव शरदां शतम् ॥
भद्रमस्तु शिवं चास्तु महालक्ष्मीः प्रसीदतु ।
 रक्षन्तु त्वां सदा देवा आशिषः सन्तु सर्वदा ॥


 इति पुण्याहवाचनम् । 

अथ दीपपूजा 

तत्र स्थिरो भवेति दीप प्रज्वालयेत् (दियो बाल्ने)

ॐ स्थिरो भव बीड्वङ्गऽआशुर्भव वाज्यर्वन् ।
पृथुर्भव सुषदस्त्वमग्नेः पुरीषवाहणः ॥ 

ॐ नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः ॥ 

पृष्टो दिवीति दीपपूजनम् 

ॐ पृष्टो दिवि पृष्टोऽअग्निः पृथिव्यां पृष्टो विश्वाऽ ओषधीराविवेश ।
 वैश्वानरः सहसा पृष्टोऽअग्निः स नो दिवा सरिषस्पातु नक्तम् ॥ 

इति पाद्यादिभिरुपचारैः सम्पूज्य प्रार्थयेत्
( पञ्चोपचारले पूजा दियोको पूजा गर्ने र फूल अक्षता लिई नमस्कार गर्ने )

दीपप्रर्थाना 

ॐ नमः कमलनाभाय नमस्ते जलशायिने ।
 नमस्ते केशवानन्त वासुदेव नमोऽस्तु ते ॥ 

 वासनाद्बासुदेवस्य वासितं भुवनत्रयम् । 
 सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥

ॐ शुभं भवतु कल्याणमारोग्यं सुखसम्पदः ।
सर्वशत्रुविनाशाय दीपज्योतिर्नमोऽस्तु ते ॥ 

अथ कलशस्थापनं पूजनञ्च 

अथ भूरसीतिभूमिशोधनम्
( फूल अक्षता लिएर कलश नजिकै भूमिमा छुने )
ॐ भूरसि भूमिरस्यदितिरसि विश्वधाया विश्वस्य भुवनस्य धर्ती ।
पृथिवीं यच्छ पृथिवीन्दृहपृथिवीं मा हि गुं सीः ॥

धान्यमसीति धान्यं स्थापयेत् 
 ( धानमा छुने )
ॐ धान्यमसि धिनुहि देवान् प्राणाय त्वोदानाय त्वा व्यानाय त्वा ।
दीर्घामनु प्रसितिमायुषे धां देवो वः सविता हिरण्यपाणिः
 प्रतिगृभ्णात्वच्छिद्रेण पाणिना चक्षुषे त्वा महीनां पयोऽसि ॥

 आ जिघ्रकलशमिति धान्योपरि कलशं स्थापयेत्
 ( कलशलाई छुने )
ॐ आ जिघ्र कलशं महचा त्वा विशन्त्विन्दवः ।
पुनरूर्जा निवर्तस्व सा नः सहस्रं धुक्ष्वोरुधारा पयस्वती पुनर्मा विशताद्रयिः ॥

वरुणस्योत्तम्भनमसीति कलशे तीर्थादिजलं प्रक्षिपेत्
( तीर्थको जल राख्ने )
ॐ वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भसर्जनी स्थो वरुणस्य
ऋतसदन्यसि वरुणस्य ऋतसदनमसि वरुणस्य ऋतसदनमासीद ॥ 

या ओषधीरिति सर्वौषधीः प्रक्षिपेत् ( सर्वौषधि राख्ने )
ॐ या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा ।
मनैनु बभ्रूणामह गुं शतं धामानि सप्त च ॥ 

हिरण्यगर्भ इति पञ्चरत्नानि ( पञ्चरत्न राख्ने )
ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेकऽआसीत् ।
 स दाधार पृथिवीन्द्यामुतेमाङ्कस्मै देवाय हविषा विधेम ॥ 

या फलिनीरिति फलादीनि ( कलशमा फलफूल राख्ने )
ॐ याः फलिनीर्याऽअफलाऽअपुष्पा याश्च पुष्पिणीः ।
वृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व ꣳ हसः ॥

ओषधय इति यवान् ( कलशमा जौ राख्ने )
ॐ ओषधयः समवदन्त सोमेन सह राज्ञा ।
यस्मै कृणोति ब्राह्मणस्त गुं राजन्पारयामसि ॥

 गन्धद्वारामिति चन्दनम् ( चन्दनले सिँगार्ने )
ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
 ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥ 

काण्डात्काण्डादिति दूर्वा (कलशमा दुबो राख्ने )
ॐ काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि ।
 एवा नो दूर्वे प्रतनु सहस्रेण शतेन च ॥ 

स्योना पृथिवीति सप्तमृत्तिका
( कलशमा सप्तमृत्तिका राख्ने )
 ॐ स्योना पृथ्वी नो भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः ॥ 

अश्वत्थेव इति पञ्चपल्लवैस्तन्मुखमाच्छाद्य
( कलशमा पञ्चपल्लव राख्ने )
 ॐ अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता ।
 गोभाजऽ इत्किलासथ यत्सनवथ पूरुषम् ॥


बृहस्पतेऽअतीति वस्त्रयुग्मेन कलशं वेष्टयेत्
(कलशमा कपडा वेरिदिने )
 ॐ बृहस्पतेऽअति यदर्योऽअर्हाद्युमद्विभाति ऋतुमज्जनेषु ।
यद्दीदयच्छवसऽऋत प्रजात तदस्मासु धेहिचित्रम् ॥
 उपऽयामगृहीतोसि बृहस्पतये त्वैषते योनिर्बृहस्पते त्वा ॥

 अम्बेअम्बिके इति आम्रपल्लवैस्तन्मुखमाच्छाद्य
( कलशमा आँप , पीपल , बरको पात राख्ने ) 

ॐ अम्बेअम्बिको म्बालिके न मा नयति कश्चन ।
 ससस्त्यश्वक : सुभद्रिकां काम्पीलवासिनीम् ॥ 

 तत्त्वा यामीति कलशे वरुणमावाह्य पूजयेत् 
 ॐ तत्त्वा यामि ब्रह्मणा वन्दमानस्तादाशास्ते यजमानो हविर्भिः ॥
अहेडमानो वरुणेह बोध्यरूश गुं स मा न आयुः प्रमोषीः ॥

 ( वरुणको आवाहन गरी,पञ्चोपचारले पूजा गर्ने )

ततः कलशे गङ्गादितीर्थान्यावाहयेत् 
 ( तीर्थहरूलाई आवाहन गर्ने )
ॐ सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः ।
आयान्तु यजमानस्य दुरितक्षयकारकाः ॥ 

कलशं स्पृष्ट्वाभिमन्त्रयेत् ( कलशलाई छुने )
ॐ कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः ।
मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥


कुक्षौ तु सागराः सप्त सप्तद्वीपा वसुन्धरा ॥ 
 ऋग्वेदोऽर्थ यजुर्वेदः सामवेदोऽप्यथर्वणः ।
अङ्गैश्च सहिताः सर्वे कलशं तु समाश्रिताः ।

ततः कलशप्रार्थना
 ( फूल , अक्षता लिई नमस्कार गर्ने ) 

ॐ देवदानवसंवादे मध्यमाने महोदधौ ।
उत्पनोऽसि तदा कुम्भ विधृतो विष्णुना स्वयम् ॥

त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः ।
त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः ॥ 

शिवः स्वयं त्वमेवासि विष्णु स्त्वं च प्रजापतिः ।
आदित्या वसवो रुद्रा विश्वेदेवाः सपितृकाः ॥ 

 त्वयि तिष्ठन्ति सर्वोपि यतः कामफलप्रदाः ।
 त्वत्प्रसादादिमं यज्ञं कर्तुमीहे जलोद्भव ॥ 

सान्निध्यं कुरु देवेश प्रसन्नो भव सर्वदा ।
नमो नमस्ते स्फट्टिकाप्रभाय सुश्वेत हाराय सुमङ्गलाय ।
सुपास हस्ताय झषासनाय जलाधिनाथय नमो नमस्ते ॥
 पासपाणे नमस्तुभ्यम् पद्मिनी जिवनायक । 
 यावत् कर्म समाप्तिस्यात् तावत् त्वं सुस्थिरो भव ॥
 इति ॥ 

अथ गणेशपूजा 

हस्ते कुशयवजलान्यादाय-
ॐ अद्येहेत्यादि ( अमुक ) कर्म निर्विघ्नपरिसमाप्त्यर्थममुकर्माङ्गतया गणेशपूजनमहं करिष्ये ।  इति सङ्कप्ल्य ," गणानान्त्वा "" हे हेरम्ब " इत्यादिमन्त्रैरावाहयेत् ।
( गणेशलाई आवाहन गर्ने )
ॐ गणानान्त्वा गणपति हवामहे प्रियाणान्त्वा
प्रियपति ꣳ हवामहेनिधीनान्त्वा निधिपति हवामहे व्वसोमम ।
आहमजानि गर्भधमा त्वमजासि गर्भधम् । 

ॐ हे हेरम्ब त्वमेहथेहि अम्बिकात्र्यम्बकात्मज ॥
सिद्धिबुद्धिपते त्र्यक्ष लक्ष्यलाभयितः पितः ॥

 नागस्य नागहार त्वं गणराज चतुर्भुज ।
भूषितैः स्वायुधैर्दिव्यैः पाशाङकुशपरस्वधैः ॥ 

आवाहयामि पूजार्थं रक्षार्थं च मम क्रतोः ।
इहागत्य गृहाण त्वं पूजां ऋतुं च रक्ष माम् ॥

इत्यावाह्य
( गणेशलाई पूजा गर्ने ) 

ॐ भूर्भुवः स्वः गणपतये सिद्धिबुद्धिसहिताय साङ्गाय सायुधाय सवाहनाय सपरिवाराय इदमासनं समर्पयामि ।
ततः सहस्रशीर्षेत्यादिषोडशमन्त्रैः षोडशोपचारैः पूजयेत् ।

 तद्यथा ( षोडशोपचारले पूजा गर्ने ) -
आसनम् पाद्यम् , अर्घ्य , आचमनीयम् , पञ्चामृतम् , शुद्धोदकम् यज्ञोपवीतम , वस्त्रम् , चन्दनम् , दूर्वा , अक्षताः , धूपः , दीपः , नैवेद्यम् , आचमनीयम् , ताम्बूलम् ,  वस्वालङ्कारादियल्लब्धम् , दक्षिणाद्रव्यम् , पादवन्दनम् ।
एभिः सम्पूज्य नारिकेलादिफलं सवस्वं पुरतः पात्रे निधाय स्तुतिं कुर्यात् ।
 ( नरिवल या फल लिई नमस्कार गर्ने ) 

ॐ रक्ष रक्ष गणाध्यक्ष रक्ष त्रैलोक्यरक्षक ।
भक्तानामभयं कर्ता त्राता भव भवार्णवात् ॥

 द्वैमातुर कृपासिन्धो षाण्मातुराग्रज प्रभो ।
वरदस्त्वं वरं देहि वाञ्चितं वाञ्छितार्थद ॥ 

इदं फलं प्रियं तुभ्यं अर्पयामि गणाधिप ।
अनेन फलदानेन फलदोऽस्तु सदा मम ॥

 वक्रतुण्ड महाकाय कोटिसूर्य समप्रभ !
अविघ्नं कुरु  मे देव सर्वकार्येषु सर्वदा ॥ 

अथ रक्षाबन्धनपूजा

 ( रक्षाबन्धनमा जौ , दुबो , सर्स्यूं , चन्दन , गोबर , दही राख्ने )
 यवकुशदूर्वासर्षपचन्दनगोमयहरिद्रादधिसहितां रक्षां
ताम्रपात्रे निधाय पात्रं स्पृशन् नारायण कवचं पठेत् 
 ( फूल अक्षता लिई छुने ) 

ॐ पूर्वे रक्षतु गोविन्द आग्नेय्यां धरणीधरः ।
 याम्यां रक्षतु वाराहो नारसिंहस्तु नैर्ऋते ॥

 वारुण्यां केशवो रक्षेद्वायव्यां मधुसूदनः ।
उत्तरे श्रीधरो रक्षेदधस्तात्तु महीधरः ॥

 एवं दशदिशो रक्षेद्वासुदेवो जनार्दनः ।
यज्ञाग्रे रक्षताच्छः पृष्ठे वै पद्ममुत्तमम् ॥ 

वामपार्श्वे गदा रक्षेद्दक्षिणे तु सुदर्शनः ।
उपेन्द्रः पातु ब्रह्माणमाचार्यं पातु वामनः ॥

ऋग्वेदमच्युतो रक्षेद्यजुर्वेदमधोक्षजः ।
 कृष्णो रक्षतु सामानमथर्वाणञ्च माधवः ॥

उपविष्टांश्च विप्राँस्ताननिरुद्धोऽभिरक्षतु ।
यजमानं सपत्नीकं पुण्डरीकाक्ष एव तु ॥

रक्षाहीनं तु यत्स्थानं तत्सर्वं रक्षताद्धरिः ।
वेदमन्त्रैश्च कर्तव्या रक्षा शुभ्रैस्तु सर्वपैः ॥


कृत्वा पोटलिकां कृत्वा दक्षिणे करे बध्नीयाद्  ॥ 

इति 

 ततो वक्षमाणमन्त्रैः पूजयेत् ( रक्षावन्धनमा पूजा गर्ने )
ॐ रक्षोहणं वलगहनं वैष्णवीमिदमहन्तं वलगमुत्किरामि यं
 मे निष्ट्यो यममात्यो निचखानेदमहन्तं वलगमुत्किरामि यं
मे समानो यमसमानो निचखानेदमहन्तं वलगमुत्किरामि यं
मे सबन्धुर्यमस बन्धुर्निचखानेदमहन्तं वगलगमुत्किरामि यं
 मे सजातो यमसजातो निचखानोत्कृत्याङ्किरामि ॥
ॐ स्वराडसि सपत्नहा सत्रराडस्यभिमातिहा जनराडसि  रक्षोहा सर्वराडस्य मित्रहा ॥ 

ॐ रक्षोहणो वो वलगहनः प्रोक्षामि वैष्णवान्रक्षोहणो वो
वलगहनोऽवनयामि वैष्णवान्रक्षोहणो वो व्वलगहनोऽवस्तृणामि
वैष्णवान्रक्षोहणौ वां व्वलगहनाऽउपदधामि  वैष्णवी रक्षोहणौ वां
व्वलगहने पर्यूहामि वैष्णवी वैष्णवमसि  वैष्णवास्थ ॥


ॐ सप्तऋषयः प्रतिहिताः शरीरे सप्त रक्षन्ति सदमप्रमादम् ।
सप्तापः स्वपतोलोकमीयुस्त जागृतोऽअस्वप्नजौ सत्रसदौ च देवौ ।

 इति रक्षाबन्धन पूजा ॥

ततः कलशस्कन्धप्रदेशे
( ईशानकलशमा चन्दन , अक्षता  पञ्चोपचारले पूजा गर्ने ) 

( फूलले पूजा गरिरहने )
ॐ गणपतिसूर्यदेवीशिवविष्णून्  ,
विनायकदुर्गावाय्वाकाशाश्विनिकुमारान्  ,
सूर्यसोमभौमबुधबृहस्पति शुक्रशनिराहुकेतून्  ,
ईश्वरोमास्कन्दहरिब्रह्मेन्द्रयमकालचित्रगुप्तान्  , अग्नि-अपभूमिविष्णु-इन्द्र-इन्द्राणीप्रजापतिसर्पब्रह्माणः  इन्द्राग्नियमनिर्ऋतिवरुणवायुसोमेशानब्रह्मानन्तान् धुवाद्यष्टवसून्  ,  धात्रादिद्वादशादित्यान्  , वीरभद्राचेकादशरुद्रान् , गौर्यादिषोडशमातृः , आवहादिसप्तमरुतः , विनायक - ब्रह्मविष्णुरुद्रार्कवनस्पतीनात्म इष्टदेवता कुलदेवताः स्थानग्रामदेवताश्चावाय यथामिलितोपचारैः
( पञ्चोपचारैः षोडशोपचारैर्वा ) पूजयेत् । 

स्तुतिं कुर्यात्
( पञ्चोपचारले पूजा गरी फूल अक्षता लिई नमस्कार गर्ने )
सूर्यः सौर्यमथेन्दुरिन्द्रपदवीं सन्मंगलं मङ्गलः ।
सद्बुद्धिंच बुधो गुरुश्च गुरुतां शुक्रः सुखं शं शनिः ॥
 राहुर्बाहुबलं करोतु सततं केतुः कुलस्योन्नतिं ।
नित्यं प्रीतिकरा भवन्तु मम ते सर्वेऽनुकूलाः ग्रहाः  ॥

ब्रह्मामुरारिस्त्रिपुरान्तकारी , भानु शशि भूमिसूतो बुधश्च ।
 गुरुश्च शुक्र : शनिराहुकेतवः सर्वे ग्रहाः शान्तिकरा भवन्तु ॥

पुस्तक पूजनम् वा पुस्तक प्रार्थना 

 ( पुस्तक पूजा गरी फूल लिएर नमस्कार गर्ने )
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
 या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माऽच्युतशङ्कर प्रभृतिभिर्देवैः  सदा वन्दिता
सा मां पातु सरस्वती भगवतीनिःशेषजाड्यापाहा ॥ 

शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनं
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ।
हस्ते स्फाटिक मालिकां च दधती पद्मासने संस्थितां
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥ 

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top