सम्पूर्ण अग्निस्थापना उत्तराङ्गम्
अथ होमसङ्कल्प :
कुशादिकमादाय ( तिल , जौ , कुश लिई पानी समाउने )
॥ इति होमसङ्कल्पः ॥
ततः उपयमनकुशान् वामहस्ते कृत्वोत्तिष्ठन् प्रजापतिं मनसा घ्यायन् समिद्धतमेऽग्नौ समिधाग्निमितिमन्त्रेण
( उपनयन कुश लिनु र पहिले राखेका तीनओटा समिधा घ्यूमा चोबेर होम्ने )
ॐ समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम् । आस्मिन्हव्या जुहोतन ॥
पृष्टो दिवीति मन्त्रेण दक्षिणचुलुकेन सपवित्रप्रोक्षण्यदकमादाय –
ॐ पृष्टो दिवि पृष्टोऽअग्निः पृथिव्यां पृष्टो विश्वाऽओषधीराविवेश ।
वैश्वानरः सहसा पृष्टोऽ अग्निः स नो दिवा सरिषस्पातु नक्तम् ॥
सुसमिद्धायेतिमन्त्रेण तज्जलेन प्रदक्षिणक्रमेणाग्निं पर्युक्ष्य -
ॐ सुसमिद्धाय शोचिषे घृतं तीव्रं जुहोतन । अग्नये जातवेदसे ॥
पातितदक्षिणजानुः कुशेन ब्रह्मणान्वारब्धः समिद्धतमेऽग्नौ
स्रुवेणाज्याहुतीर्जुहोति तत्राघारादारभ्य द्वादशाहुतिषु तत्तदाहुत्यनन्तरं स्रुवावस्थितहुतशेषघृतस्य प्रोक्षणीपात्रे प्रक्षेपः ।
(घ्यू हवन गर्ने र सुरोमा अवशेष प्रोक्षणीमा छोड्ने )
अथ प्रजापत्यादिवनस्पत्यन्तहोम :
विनियोगः
ॐ प्रजापतय इति प्रजापतिऋषिस्त्रिष्टुप् छन्दः प्रजापतिर्देवता आज्यहोमे विनियोगः ।
ॐ प्रजापतये स्वाहा । इदं प्रजापतये न मम ।
( इति मनसा ) प्रोक्षणीपात्रेऽपि ।
विनियोगः
ॐ इन्द्रायेति प्रजापति ऋषिस्त्रिष्टुप्छन्द इन्द्रो देवता आज्यहोमे विनियोगः ।
ॐ इन्द्राय स्वाहा । इदमिन्द्राय न मम ।
( इति आधारौ प्रोक्षणीपात्रेऽपि ।
विनियोगः
ॐ अग्नय इति प्रजापतिऋषिस्त्रिष्टुप्छन्दोऽग्निर्देवता आज्यहोमे विनियोगः । ॐ अग्नये स्वाहा । इदमग्नये न मम प्रोक्षणीपात्रेऽपि ।
विनियोगः
ॐ सोमायेति प्रजापतिऋषिस्त्रिष्टुप् छन्दः सोमो देवता आज्यहोमे विनियोगः । ॐ सोमाय स्वाहा । इदं सोमाय न मम । ( इति आज्यभागौ ) प्रोक्षणीपात्रेऽपि ।
विनियोगः
ॐ भूर्भुवः स्वरिति महाव्याहृतीनां प्रजापतिऋषिरग्निवायुसूर्यो देवता गायत्र्युष्णिगनष्टुभश्छदांसि अग्न्याधाने विनियोगः ।
ॐ भूः स्वाहा । इदमग्नये न मम । प्रोक्षणीपात्रेऽपि ।
ॐ भुवः स्वाहा । इदं वायवे न मम । प्रोक्षणीपात्रेऽपि ।
ॐ स्वः स्वाहा । इदं सूर्याय न मम । प्रोक्षणीपात्रेऽपि ।
एता महाव्याहृतयः ।
पञ्चवारुणीहोम :
( घ्यू हवन गर्ने )
विनियोगः
ॐ त्वन्नो अग्न इति वामदेवऋषिग्नीवरुणौ देवते त्रिष्टुप्छन्दः प्रायश्चित्त आज्यहोमे विनियोगः ।
ॐ त्वन्नोऽअग्ने वरुणस्य विद्वान् देवस्य हेडोऽअवयासिसीष्ठाः ।
यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषा गुं सि प्रमुमुग्ध्यस्मत्स्वाहा ॥
इदमग्निवरुणाभ्यां न मम प्रोक्षणीपात्रेऽपि।
विनियोगः
ॐ स त्वन्न इति वामदेवऋषिरित्रष्टुप्छन्दः अग्नीवरुणौ देवते आज्यहोमे विनियोगः ।
ॐ स त्वन्नोऽअग्नेवमो भवोती नेदिष्ठोऽअस्याऽउषसो व्युष्टौ ।
अवयव नो वरुण छ रराणो वीहि मृडीकल सुहवो नएधि स्वाहा ॥
इदमग्निवरुणाभ्यां न मम । प्रोक्षणीपात्रेऽपि ।
विनियोगः
ॐ अयाश्चाग्न इति वामदेवऋषिस्त्रिष्टुप्छन्दोऽग्निर्देवता सर्व प्रायश्चित्त आज्यहोमे विनियोगः ।
अयाश्चाग्नेस्यनभिशस्तिपाश्च सत्यमित्त्वमयाऽअसि ।
ॐ अया नो यज्ञं वहास्यया नो धेहि भेषज ॐ स्वाहा ॥ इदमग्नये न मम । प्रोक्षणीपात्रेऽपि ।
विनियोगः
ॐ ये ते शतमिति वामदेवऋषिस्त्रिष्टुप्छन्दो वरुणः सवित विष्णुर्विश्वेदेवा मरुतः स्वर्का देवताः प्रायश्चित्त आज्यहोमे विनियोगः ।
ॐ ये ते शतं वरुणं ये सहस्रं यज्ञियाः पाशा वितता महान्तः ।
ते भिर्नोऽअद्य सवितोत विष्णुर्विश्वे मुञ्चन्तु मरुतः स्वर्काः स्वाहा ॥
इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यो न मम प्रोक्षणीपात्रेऽपि ।
विनियोगः
ॐ उदुत्तममिति शुनः शेफऋषिस्त्रिष्टुप्छन्दो वरुणो देवता पाशान्मोचने विनियोगः ।
ॐ उदुत्तमं वरुण पाशमस्मदवाघमं विमध्यम ॐ श्रथाय ।
अथा वयमादित्यवते तवानागसोऽअदितये स्याम स्वाहा ॥
इदं वरुणाय न मम । प्रोक्षणीपात्रेऽपि । एताः प्रायश्चित्तसंज्ञकाः ।
इति पञ्चवारुणिहोमः ।
अथ प्रधानदेवताहोमसूत्राणि
( कर्ताले थोरै चरु हातमा लिएर प्रार्थना गर्ने र हवन गर्ने चलन छ ।
गणेशो भास्करो देवी शिवो विष्णुश्च पञ्चमः ।
पञ्चायतननामानि कथिताः पञ्चदेवताः ॥१ ॥
विनायकस्तथा दुर्गा वायुराकाश एव च ।
नासत्यौ चेति पञ्चैते लोकपाला प्रकीर्तिताः ॥ २ ॥
सूर्यः सोमश्च भौमश्च बुधो जीवश्च भार्गवः ।
शनि राहुश्च केतुश्च कथिताश्च नवग्रहाः ॥ ३ ॥
ईश्वरश्च उमा स्कन्दो विष्णुर्ब्रह्मा शचीपतिः ।
यमःकालश्चित्रगुप्त इत्येता अधिदेवताः ॥ ४ ॥
अग्निरापो धरा विष्णुरिन्द्र ऐन्द्री प्रजापतिः ।
सर्पा ब्रह्मा क्रमाप्रोक्ता नव प्रत्यधिदेवताः ॥ ५ ॥
इन्द्राग्नी यमनिर्ऋती वरुणो मरुतो विधुः ।
ईशो ब्रह्मा तथानन्तो दिक्पालाः दश कीर्तिताः ॥६ ॥
ध्रुवाद्यप्टवसुर्ज्ञेयो धात्रादित्यास्तु द्वादश ।
वीरभद्राद्येकादश गौर्यादिमातृषोडश ॥७ ॥
आवहादिमरुत्सप्त विनायकविधी हरिः ।
रुद्रश्चार्कस्तथा प्रोक्तो वनस्पतिः क्रमेण हि || ८ ||
चतुः स्वस्तिः पयःपञ्च षड्विष्णुर्देव द्वादश ।
शान्तिर्द्वादश षप्रातः षड्वातास्तु क्रमेण हि ॥१ ॥
अनत्संज्ञको ज्ञेयो होमकर्मणि वै धुवम् ।
पञ्चभगेन्द्रियाः पञ्च वरुणाः पञ्च एव च ॥१० ॥
गायत्री चैव सावित्री वाग्देवी गृहमातृकाः ।
अन्नपूर्णा महालक्ष्मी महारिष्टविनाशिनी ॥११ ॥
चण्डी चौराली विज्ञेया वास्तुभूम्यस्तथैव च ।
गैदुश्च क्षेत्रपालश्च ग्रामदेवास्ततः परम् || १२ ||
स्वर्गेन्द्रो वासुकिश्चैव मित्रलोकस्तथैव च ।
मान्धाता तीर्थराजश्च व्रतराजस्ततः परम् ॥१३ ॥
पुनर्दिक्पालका ज्ञेयास्तिथिनक्षत्रयोगकाः ।
वारश्च करणश्चैव वायुमेघसमुद्रकाः ॥१४ ॥
नदीष्टकुलदेवाश्च स्थापिता देवताः क्रमात् ।
भैरवो भैरवी विन्ध्यवासिनी स्थानदेवताः ॥१५ ॥
एषोह सर्वदेवाश्च शुक्रज्योतिस्तथैव च ।
पाण्डवाः पितरश्चैव वैश्वानरः क्रमेण च ॥१६ ॥
पूर्णपात्रं ततो दद्याद्बहिर्होमस्ततः परम् ।
गोभूरत्नहिरण्यादि रौप्यवस्वाणि चैव हि ॥१७ ॥
देयानी द्विजमुख्येभ्यो यजमानै विशेषतः ।
इति होमसूत्राणी ।
( चरु अग्निमा लगाउने )
अथ प्रधानदेवताहोमः
( अब घ्यूसहित चरु पनि हवन गर्ने )
ॐ गणानान्त्वा गणपति & हवामहे प्रियाणान्त्वा प्रियपति & हवामहे निधीनान्त्वा
निधिपति &हवामहे व्वसो मम । आहमजानि गर्भधमात्वमजासि गर्भधम् स्वाहा ॥
इदं गणपतये न मम ।
( गणपतये स्वाहा इदं गणपतये )
ॐ आ कृष्ण्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यञ्च ।
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् स्वाहा ॥ इदं सूर्याय न मम ।
( सूर्याय स्वाहा इदं सूर्याय )
ॐ देवीद्व इन्द्र सङ्घाते वीड्वीर्यामन्नवर्धयन् ।
आवत्सेन तरुणेन कुमारेण च मीवता पार्वाण & रेणुककाटं नुदन्तां वसुवने वसुधेयस्य व्यन्तु यज स्वाहा ।
इदं देव्यै न मम ।
ॐ नमः शम्भवाय च मयो भवाय च नमः शङ्कराय च मयस्कराय च नमः । शिवाय च शिवतराय च स्वाहा ।
इदं शिवाय न मम । अत्र प्रणीतोदकस्पर्शः ।
( शिवलाई आहुति दिएर सुरोको टुप्पोले प्रणीतामा छुने )
ॐ विष्णो रराटमसि विष्णोः श्नप्त्रेस्थो विष्णोः
स्यूरसि विष्णोधुवोसि वैष्णवमसि विष्णवे त्वा स्वाहा ।
इदं विष्णवे न मम । इति पाञ्चायनाः ।
अथ पञ्चलोकपालाः
( हवन गर्ने )
ॐ गणानान्त्वा गणपति & हवामहे प्रियाणान्त्वा प्रियपति & हवामहे
निधीनान्त्वा निधिपति & हवामहे व्वसो मम । आहमजानि गर्भधमात्वमजासि गर्भधम् स्वाहा ॥
इदं विनायकाय न मम ।
ॐ अम्बेऽअम्बिकेम्बालिके न मानयति कश्चन ।
ससस्त्यश्वकः सुभद्रिकाशम्पीलवासिनीम् स्वाहा ॥
इदं दुर्गायै न मम ।
ॐ वायो ये ते सहस्रिणो रथासस्तेभिरागहि । नियुत्वान्त्सोमपीतये स्वाहा ॥
इदं वायवे न मम ।
ॐ ऊर्ध्वाऽअस्य समिधो भवन्त्यूर्ध्वा शुक्रा शोचीं व्यग्नेः ।
द्युमत्तमा सुप्रतीकस्य सूनोः स्वाहा ।
इदमाकाशाय न मम ।
ॐ अश्विनोभैषज्येन तेजसे ब्रह्मवर्चसायाभिषिञ्चामि सरस्वत्यै भैषज्येन
वीर्यायान्नाथायामिपिञ्चा मीन्द्रस्येन्द्रियेण बलाय श्रियै यशसेभिषिञ्चामि स्वाहा ॥
इदमश्विनीकुमाराभ्यां न मम इति पञ्चलोकपालाः ।
( हवन गर्ने )
अथ नवग्रहाः
ॐ आ कृष्ण्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यञ्च ।
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् स्वाहा ॥
इदं सूर्याय न मम ।
ॐ इमन्देवाऽअसपत्न & सुवध्वं महते क्षत्राय महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय ।
इदममुष्य पुत्रममुष्यै पुत्रमस्यै विशएष वोऽमी राजा सोमोऽस्माकं ब्राह्मणाना & राजा स्वाहा ॥
इदं सोमाय न मम ।
ॐ अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्याऽअयम् ।
अपा @ रेता @ सि जिन्वति स्वाहा ॥
इदं भौमाय न मम ।
ॐ उद्बुध्यस्वाग्ने प्रतिजागृहि त्वमिष्टापूर्ते स @ सृजेथामयञ्च
अस्मिन्त्सधस्थेऽ अध्युत्तरस्मिन् विश्वेदेवा यजमानश्च सीदत स्वाहा ॥
इदं बुधाय न मम ॥
ॐ बृहस्पतेऽअति यदर्योऽअर्हाद्युमद्विभाति ऋतुमज्जनेषु ।
यद्दीदयच्छवसॠत प्रजात तदस्मासु द्रविणं धेहिचित्रम् ॥
उपयामगृहीतोसि बृहस्पतये त्वैषते योनिर्बृहस्पते त्वा स्वाहा ॥
इदं बृहस्पतये न मम ॥
ॐ अन्नात्परिसुतो रसं ब्रह्मणा व्यपिवत्क्षत्रं पयः सोमं प्रजापतिः ।
ऋतेन सत्यमिन्द्रियं विपान शुक्रमन्धसऽइन्द्रस्येन्द्रियमिदं पयोमृतं मधु स्वाहा ॥
इदं शुक्राय न मम ॥
ॐ शन्नो देवीरभिष्टया आपो भवन्तु पीतये । शं योरभिस्रवन्तु नः स्वाहा ॥
इदं शनैश्चराय न मम ॥
ॐ कया नश्चित्र आभुवदूती सदावृधः सखा ।
कया शचिष्ठया वृता स्वाहा ॥
इदं राहवे न मम ।
ॐ केतुङ्कण्वन्नकेतवे पेशो मर्याऽ अपेशसे ।
समुषद्भि रजायथाः स्वाहा ।
इदं केतवे न मम ( केतुभ्यो न मम ) ॥
इति नवग्रहाः ॥
अथाधिदेवता
( हवन गर्ने )
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् स्वाहा ।
इदमीश्वराय न मम । अत्र प्रणीतोदकस्पर्शः ।
ॐ श्रीश्च ते लक्ष्मीश्चपल्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् ।
इष्णन्निषाणामुम्मऽइषाणसर्व्वलोकम्मऽइषाण स्वाहा ॥
इदमुमायै न मम ॥
ॐ यदकन्दः प्रथमं जायमान उद्यन्त्समुद्रादुतवा पुरीषात् ।
श्येनस्य पक्षा हरिणस्य बाहूऽउपस्तुत्यं महि जातं तेऽअर्वन् स्वाहा ॥
इदं स्कन्दाय न मम ।
ॐ विष्णो रराटमसि विष्णोः श्नप्वेस्थो विष्णोः स्यूरसि विष्णोधुवोसि वैष्णवमसि विष्णवे त्वा स्वाहा ।
इदं विष्णवे न मम ॥
ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरूचो वेन आवः ।
स बुध्न्याऽउपमाऽअस्य विष्ठाः सतश्च योनिमसतश्च विवः स्वाहा ॥
इदं ब्रह्मणे न मम ॥
ॐ त्रातारमिन्द्रमवितारमिन्द्र हवे हवे सुहव & शूरमिन्द्रम् ।
वयामि शक्रं पुरुहूतमिन्द्र स्वस्ति नो मघवा धात्विन्द्रः स्वाहा ॥
इदमिन्द्राय न मम ।
ॐ यमाय त्वा मखाय त्वा सूर्यस्य त्वा तपसे ।
देवस्त्वा सविता मध्वा नक्तु पृथिव्याः स & स्पृशस्पाहि ।
अर्चिरसि शोचिरसि तपोऽसि स्वाहा ॥
इदं यमाय न मम । अत्र प्रणीतोदकस्पर्शः ।
( यहा सुरोको टुप्पोले प्रणीताको जल छुने )
ॐ कार्षिरसि समुद्रस्य त्वा क्षित्याऽउन्नयामि ।
समापोऽअद्भिरग्मत समोषधीभिरोषधीः स्वाहा ॥
इदं कालाय न मम ।
अत्र प्रणीतोदकस्पर्शः । ( यहा सुरोको टुप्पोले प्रणीताको जल छुने )
ॐ इन्धानास्त्वा शत & हिमा द्युमन्त समिधीमहि ।
वयस्वन्तो वयस्कृत & सहस्वन्तः सहस्कृतम् अग्ने सपत्नदम्भनमदब्धासोऽ अदाभ्यम् ।
चित्रावसो स्वस्ति ते पारमशीय स्वाहा ॥
इदं चित्रगुप्ता न मम । अत्र प्रणीतोदकस्पर्शः ।
( यहा सुरोको टुप्पोले प्रणीताको जल छुने )
इत्यधिदेवताः ।
अथ प्रत्यधिदेवताः
( हवन गर्ने )
ॐ अग्निन्दूतं पुरो दधे हव्यवाहमुपब्रुवे ।
देवाँऽआसादयादिह स्वाहा ॥
इदमग्नये न मम ।
ॐ अप्स्वग्ने सधिष्टव सौषधीरनुरुध्यसे ।
गर्भे सजायसे पुनः स्वाहा ॥
इदमद्भ्यो न मम ।
ॐ स्योना पृथिवि नो भवानृक्षरा निवेशनी ।
यच्छा नः शर्मसप्रथाः स्वाहा ॥
इदं भूम्यै न मम ।
ॐ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ।
समूढमस्यपा @ सुरे स्वाहा ॥
इदं विष्णवे न मम ।
ॐ इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः ।
देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रम् स्वाहा ॥
इदमिन्द्राय न मम ।
ॐ अदित्यै रास्नासीन्द्राण्याऽउष्णीषः । पूषासि घर्माय दीष्व स्वाहा ॥
इदमिन्द्राण्यै न मम ।
ॐ प्रजापते न त्वदेतान्यन्यो विश्वा रूपाणि परिता बभूव ।
यत्कामास्ते जुहुमस्तन्नोऽअस्तु वय स्याम पतयोरयीणाम् स्वाहा ॥
इदं प्रजापतये न मम ।
ॐ नमोऽस्तु सर्पेभ्यो ये के च पृथिवी मनु ।
अन्तरिक्षे ये दिवि तेभ्य : सर्पेभ्यो नमः स्वाहा ॥
इदं सर्पेभ्यो न मम ।
ॐ ब्रह्म जज्ञानं प्रथम पुरस्ताद्विसीमतः सुरूचो वेन आवः ।
स बुध्न्याऽउपमाऽ अस्य विष्ठाः सतरच योनिमसतश्च विवः स्वाहा ॥
इदं ब्रह्मणे न मम ।
इति प्रत्यधिदेवताः ।
अथ दशदिक्पाला :
( हवन गर्ने )
ॐ त्रातारमिन्द्रमवितारमिन्द्र हवे हवे सुहव & शूरमिन्द्रम् ।
स्वयामि शक पुरुहूतमिन्द्र स्वस्ति नो मघवा धात्विन्द्रः स्वाहा ॥
इदं मिन्द्राय न मम ।
ॐ अग्निन्दूतं पुरो दधे हव्यवाहमुपब्रुवे ।
देवा२आसादयादिह स्वाहा ॥
इदमग्नये न मम ।
ॐ यमाय त्वा मखाय त्वा सूर्यस्य त्वा तपसे ।
देवस्त्वा सविता मध्वा नक्तु पृथिव्याः स ६ स्पृशस्पाहि ।
अर्चिरसि शोचिरसि तपोसि स्वाहा ॥
इदं यमाय न मम । अत्र प्रणीतोदकस्पर्शः ।
(यहा सुरोको टुप्पोले प्रणीताको जल छुने)
ॐअसुन्वन्तमयजमानमिच्छस्तेनस्येत्यामन्विहि तस्करस्य ।
अन्यमस्मदिच्छ सा तइत्यानमो देवि निर्ऋते तुभ्यमस्तु स्वाहा ॥
इदं निर्ऋतये न मम । अत्र प्रणीतोदकस्पर्शः ।
( यहा सुरोको टुप्पोले प्रणीताको जल छुने)
ॐ वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भसर्जनी स्थो वरुणस्य
ऋतसदन्यसि वरुणस्य ऋतसदनमसि वरुणस्य ऋतसदनमासीद स्वाहा ॥
इदं वरुणाय न मम ।
ॐ वायो ये ते सहस्रिणो रथासस्तेभिरागहि ।
नियुत्वान्त्सोमपीतये स्वाहा ॥
इदं वायवे न मम ।
ॐ सोमो धेनु सोमोऽअर्वन्तमाशु सोमो वीरं कर्मण्यं ददाति ।
सादन्यं विदथ्य @ सभेयं पितृश्रवण यो ददाशदस्मै स्वाहा ॥
इदं सोमाय न मम ।
ॐ तमीशानञ्जगतस्तस्थुषस्पतिं धियं जिन्वमवसे हूमहे वयम् ।
पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्ध स्वस्तये स्वाहा ॥
इदमीशानाय न मम । अत्र प्रणीतोदकस्पर्शः ।
( यहा सुरोको टुप्पोले प्रणीताको जल छुने )
ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेनऽआवः ।
स बुध्न्याऽउपमाऽअस्य विष्ठाः सतश्च योनिमसतश्च विवः स्वाहा ॥
इदं ब्रह्मणे न मम ।
ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमि सर्वतस्मृत्वात्यतिष्ठद्दशाङ्गुलम् स्वाहा ।
इदमनन्ताय न मम ।
इति दशदिक्पालाः ।
अथाष्टवसवः
( हवन गर्ने )
ॐ सुगा वो देवाः सदना ऽअकर्म य आजग्मेद ६ सवनञ्जुषाणाः ।
भरमाणा वहमाना हवी @ ष्यस्मे धत्त वसवो वसूनि स्वाहा ।
इदं धुवाद्यष्टवसुभ्यो न मम ।
अथ द्वादशादित्या :
ॐ यज्ञो देवानां प्रत्येति सुम्नमादित्यासो भवता मृडयन्तः आवोर्वाची
सुमतिर्ववृत्याद@ होश्चिद्या वरिवोवित्तरासत् स्वाहा ।
इदं धात्रादिद्वादशादित्येभ्यो न मम ।
( हवन गर्ने )
अथैकादशरुद्रा :
ॐ य एतावन्तश्च भूया ७ सश्च दिशो रुद्रा वितस्थिरे ।
तेषा सहस्रयोजने वघन्वानि तन्मसि स्वाहा ॥
इदं वीरभद्राद्येकादशरुद्रेभ्यो न मम ।
अत्र प्रणीतोदकस्पर्शः ।
( सुरोको टुप्पो प्रणीतामा चोब्ने )
अथ षोडशमातरः
( हवन गर्ने )
ॐ गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी त्रिपदी सा चतुष्पदी ।
अष्टापदी नवपदी बभूवुषि सहस्राक्षरा परमे व्योमन् स्वाहा ॥
इदं गौर्यादिषोडशमातृभ्यो न मम ।
( हवन गर्ने ) अथावहादिसप्तमरुतः
ॐ मरुतो यस्य हि क्षये पाथा दिवो विमहसः ।
ससुगोपातमो जनः स्वाहा ॥
इदमावहादि सप्तमरुद्भ्यो न मम ।
( हवन गर्ने )
अथ विनायकादिषट्
( हवन गर्ने )
ॐ गणानान्त्वा गणपति & हवामहे प्रियाणान्त्वा प्रियपति & हवामहे निधीनान्त्वा निधिपति & हवामहे व्वसो मम । आहमजानि गर्भधमा त्वमजासि गर्भधम् स्वाहा ॥
इदं विनाकाय न मम ।
ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेन आवः ।
स बुध्न्याऽउपमाऽअस्य विष्ठाः सतश्च योनिमसतश्च विवः स्वाहा ॥
इदं ब्रह्मणे न मम ।
ॐ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ।
समूढमस्यपा @ सुरे स्वाहा ॥
इदं विष्णवे न मम ।
ॐ मा नस्तोके तनये मा नआयुषि मानो गोषु मानोऽअश्वेषु रीरिषः ।
मा नो वीरान्द्र भामिनो वधीर्हविष्मन्तः सदमित्त्वा हवामहे स्वाहा ॥
इदं रुद्राय न मम । अत्र प्रणीतोदकस्पर्शः ।
( आहुति दिएर सुरोको टुप्पो प्रणीतामा चोब्ने )
ॐ अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म S आसन ।
अर्कस्त्रिधातू रजसो विमानोऽजस्रो घर्मो हविरस्मि नाम स्वाहा ॥
इदमर्काय न मम ।
ॐ वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः ।
गोभिः सन्नद्धोऽअसि वीडयस्वास्थाता ते जयतु जेत्वानि स्वाहा ।
इदं वनस्पतये न मम ।
अथ विशेषकर्म
( जुन उद्देश्यले हवन गरेको हो त्यो कर्म गर्ने , जस्तै : - नामकरन , व्रतबन्ध , विवाह आदि विशेष हवन गर्ने )
अत्र विशेषोद्देश्याभिमतं कर्मकृत्वा तत्पश्चादेवोत्तरं कर्म कुर्वन्ति ॥
अथ चतुः स्वस्त्यादि होम :
( मूल देवताहरूलाई हवन गरिसकेपछि यहाँको हवन गर्ने )
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्ताक्ष्यो
अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु स्वाहा ॥
इदं चतुःस्वस्तिभ्यो न मम ।
ॐ पयः पृथिव्यां पयाओषधीषु पयो दिव्यन्तरिक्षे पयोधाः ।
पयस्वतीः प्रदिशः सन्तु महचम् स्वाहा ।
इदं पयःपञ्चेभ्यः न मम ।
ॐ विष्णो रराटमसि विष्णोः श्नप्वेस्थो विष्णोः स्यूरसि विष्णोधुवोसि वैष्णवमसि विष्णवे त्वा स्वाहा ।
इदं षड्विष्णुभ्यो न मम ।
ॐ अग्निर्देवता वातो देवता सूर्यो देवता चन्द्रमा देवता वसवो देवता रुद्रा देवता दित्या देवता मरुतो देवता विश्वेदेवा देवता बृहस्पतिर्देवतेन्द्रो देवता वरुणो देवता स्वाहा ।
इदं द्वादशदेवेभ्यो न मम ।
ॐ द्यौः शान्ति रन्तरिक्ष & शान्तिः पृथिवीशान्तिरापः शान्तिरोषधयः शान्तिः वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्मशान्तिः सर्व शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि स्वाहा ।
इदं द्वादशशान्तिभ्यो न मम ।
ॐ प्रातरग्निं प्राररिन्द्र & हवामहे प्रातर्मित्रावरुणा प्रात रश्विना ।
प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्र हुवेम स्वाहा ।
इदं षट्प्रातर्भ्यः न मम ।
ॐ समुद्राय त्वा वाताय स्वाहा सरिराय त्वा वाताय स्वाहा अनाधृष्यायत्वा वाताय स्वाहा प्रतिघृष्याय त्वा वाताय स्वाहा अवस्यवे त्वा वाताय स्वाहा शिमिदाय त्वा वाताय स्वाहा ॥
इदं षट्वातेभ्यो न मम ।
( कसै कसैले प्रत्येक स्वाहा आएको ठाउमा आहुति दिएको पनि देखिन्छ )
ॐ अनड्वान्वयः पङ्क्तिश्छन्दो धेनुर्वयो जगती छन्दत्र्य विर्वयस्त्रिष्टुप्छन्दो दित्यावाड्यो विराट्छन्द पञ्चाविर्वयो गायत्रीछन्दस्त्रिवत्सोवय उष्णिक्छन्दस्तुर्यवाड्वयोऽनुष्टुप्छन्दो लोकन्ताऽइन्द्रम् स्वाहा ।
इदं त्र्यनडुद्भ्यो न मम ।
ॐ भगएव भगवाँ२ अस्तु देवास्तेन वयं भगवन्तः स्याम ।
तन्त्वा भगः सर्वइज्जोहवीति स नो भगःपुरता भवेह स्वाहा ॥
इदं पञ्चमगेभ्यो न मम ।
ॐ प्राणाय स्वाहापानाय स्वाहा व्यानाय स्वाहा चक्षुषे स्वाहा श्रोत्राय स्वाहा वाचे स्वाहा मनसे स्वाहा ॥
इदं पञ्चेन्द्रियेभ्यो न मम ।
ॐ वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भसर्जनी स्थो वरुणस्य ऋतसदन्यसि वरुणस्य ऋतसदनम वरुणस्य ऋतसदनमासीद स्वाहा ॥
इदं पञ्चवरुणेभ्यो न मम ।
ॐ गायत्री त्रिष्टुब्जगत्यनुष्टुप्पङ्क्त्या सह ।
बृहत्युष्णिहा ककुप्सूचीभिः शम्यन्तु त्वा स्वाहा ॥
इदं गायत्र्यै न मम ।
ॐ उपयामगृहीतोऽसि सवित्रोऽसि चनोघाश्चनोधा असि चनो मयि धेहि ।
जिन्व यज्ञं जिन्व यज्ञपतिंभगाय देवायत्वा सवित्रे स्वाहा ।
इदं सावित्र्यै न मम ।
ॐ सरस्वती योन्याङ्गर्भ मन्तरश्विभ्यां पत्नी सुकृतं विभर्ति ।
अपा @ रसेन वरुणो न साम्नेन्द्र श्रियै जनयन्नप्सु राजा स्वाहा ।
इदं सरस्वत्यै न मम ।
ॐ गृहा मा विभीत मा वेपध्वमूर्जं बिभ्रता एमसि ।
ऊर्ज विद्धः सुमनाः सुमेधा गृहानैमि मनसा मोदमानः स्वाहा ।
इदं गृहमात्रे न मम ।
ॐ अन्नपतेन्नस्य नो देयनमीवस्य शुष्मिणः ।
प्रप्रदातारं तारिषऽऊर्ज नो धेहि द्विपदे चतुष्पदे स्वाहा ॥
इदमन्नपूर्णायै न मम ।
ॐ श्रीश्च तेलक्ष्मीश्चपत्क्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् ।
इष्णन्निषाणामुम्मा इषाणसर्व्वलोकम्मऽइषाण स्वाहा ॥
इदं महालक्ष्म्यै न मम ।
ॐ देवीद्वार इन्द्र & सङ्घाते वीड्वीर्यामन्नवर्धयन् ।
आवत्सेन तरुणेन कुमारेण च मीवता पार्वाण & रेणुककाटं नुदन्तां वसुवने वसुधेयस्य व्यन्तु यज स्वाहा ।
इदं महारिष्टविनाशिन्यै न मम ।
ॐ अम्बेअम्बिकेम्बालिके न मानयति कश्चन ।
ससस्त्यश्वकः सुभद्रिकाशम्पीलवासिनीम् स्वाहा ॥
इदं चण्डयै न मम ।
ॐ द्यौरासीत्पूर्वचित्तिरश्वऽआसीबृहद्वयः ।
अविरासीत् पिलिप्पिला रात्रिरासीत् पिशङ्गिला स्वाहा ॥
इदं द्यौराल्यै न मम ।
ॐ वसोः पवित्रमसि शतधारं वसोः पवित्रमसि सहस्रधारम् ।
देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुप्वा कामधुक्षः स्वाहा ॥
इदं वास्तुदेवाय न मम ।
ॐ भूम्याऽआखूनालभतेन्तरिक्षाय पात्रान् दिवे कशान्दिग्भ्यो नकुलान्वभ्रुकानवान्तरदिशाभ्यः स्वाहा ॥
इदं भूमिदेवाय न मम ।
ॐ नमः शम्भवाय च मयो भवाय च नमः शङ्कराय च मयस्कराय च नमः ।
शिवाय च शिवतराय च स्वाहा ।
इदं गैडुदेवाय न मम ।
ॐ क्षत्रस्य योनिरसि क्षत्रस्य नाभिरसि ।
मा त्वा हि सीन्मा मा हि सीः स्वाहा ॥
इदं क्षेत्रपालाय न मम ।
ॐ यद्ग्रामे यदरण्ये यत्सभायां यदिन्द्रिये ।
यदेनश्चकृमा वयमिदन्तदवयजामहे स्वाहा ॥
इदं ग्रामदेवाय न मम ।
ॐ त्रातारमिन्द्रमवितारमिन्द्र हवे हवे सुहव & शूरमिन्द्रम् ।
वयामि शुक्रं पुरुहूतमिन्द्र स्वस्ति नो मघवा धात्विन्द्रः स्वाहा ॥
इदं स्वर्गेन्द्राय न मम ।
ॐ नमोऽस्तु सर्पेभ्यो ये के च पृथिवी मनु ।
येऽअन्तरिक्षे ये दिवि तेभ्य : सर्पेभ्यो नमः स्वाहा ॥
इदं पातालवासुकिभ्यो न मम ।
ॐ मित्रोन एहि सुमित्रा इन्द्रस्योरमाविश दक्षिणमुशन्नुशन्त स्योनः स्योनम् ।
स्वान भ्राजाधारे वम्भारे हस्त सुहस्त कुशानवे ते वः सोमक्रयणास्तान्रक्षध्वं मा वो दभन् स्वाहा ।।
इदं मित्रलोकपालाय न मम ।
ॐ राजन्तमध्वराणाङ्गोपामृतस्य दीदिविम् ।
वर्धमान स्वे दमे स्वाहा ॥
इदं मान्धात्रे न मम ।
ॐ ये तीर्थानि प्रचरन्ति सुकाहस्ता निषङ्गिणः ।
तेषा सहस्रयोजनेऽव धन्वानि तन्मसि स्वाहा ॥
इदं तीर्थराजाय न मम ।
ॐ व्रतेन दीक्षामाप्नोति दीक्षयाप्नोति दक्षिणाम् ।
दक्षिणा श्रद्धामाप्नोति श्रद्धया सत्यमाप्यते स्वाहा ॥
इदं व्रतराजाय न मम ।
( प्रत्येक स्वाहामा आहुति दिने पनि चलन छ )
ॐ प्राच्यै दिशे स्वाहार्वाच्चै दिशे स्वाहा दक्षिणायै दिशे स्वाहार्वाच्यै दिशे स्वाहा प्रतीच्यै दिशे स्वाहार्वाच्यै दिशे स्वाहोदीच्यै दिशे स्वाहार्वाच्यै दिशे स्वाहोर्ध्वायै दिशे स्वाहार्वाच्यै दिशे स्वाहावाच्यै दिशे स्वाहा स्वाहार्वाच्यै दिशे स्वाहा ।
इदं पुनर्दिकपालेभ्यो न मम ।
ॐ अग्नेः पक्षतिर्वायोर्निपक्षतिरिन्द्रस्य तृतीया सोमस्य चतुर्थ्यदित्यै पञ्चमीन्द्राण्यै षष्ठी मरुता सप्तमी बृहस्पतेरष्ट म्यर्यम्णो नवमी धातुर्दशमीन्द्रस्यैकादशी वरुणस्य द्वादशी यमस्य त्रयोदशी स्वाहा ॥
इदं तिथिभ्यो न मम ।
ॐ नक्षत्रेभ्यः स्वाहा नक्षत्रियेभ्यः स्वाहाहोरात्रेभ्यः स्वाहा र्धमासेभ्यः स्वाहा मासेभ्यः स्वाहा ऋतुभ्यः स्वाहार्त्तवेभ्यः स्वाहा संवत्सराय स्वाहा द्यावापृथिवीभ्या छ स्वाहा चन्द्राय स्वाहा सूर्याय स्वाहा रश्मिभ्यः स्वाहा वसुभ्यः स्वाहा रुद्रेभ्यः स्वाहादित्येभ्य स्वाहा मरुद्भ्यः स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा मूलेभ्यः स्वाहा शाखाभ्यः स्वाहा वनस्पतिभ्यः स्वाहा पुष्पेभ्यः स्वाहा फलेभ्यः स्वाहौषधीभ्यः स्वाहा ॥
इदं नक्षत्रेभ्यो न मम ।
ॐ योगे योगे तवस्तरं वाजे वाजे हवामहे ॥
सखायऽइन्द्रमूतये स्वाहा ॥
इदं योगेभ्यो न मम ।
ॐ आदित्यङ् गर्भं पयसा समङ्घि सहस्रस्य प्रतिमां विश्वरूपम् ।
परिवृद्धि हरसा माभिम£•स्थाः शतायुषं कृणुहि चीयमानः स्वाहा ॥
इदं वारेभ्यो न मम ।
ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवा & सस्तनूभिर्व्यशेमहि देवहितं यदायुः स्वाहा ॥
इदं करणेभ्यो न मम ।
ॐ वायो ये ते सहस्रिणो रथासस्तेभिरागहि ।
नियुत्वान्त्सोमपीतये स्वाहा ॥
इदं वातेभ्यो न मम ।
ॐ वाताय स्वाहा धूमाय स्वाहाब्भ्राय स्वाहा मेघाय स्वाहा विद्योतमानाय स्वाहा स्तनयते स्वाहावस्फूर्जते स्वाहा वर्षते स्वाहावर्षते स्वाहोग्रं वर्षते स्वाहा शीघं वर्षते स्वहोद्गृह्णते स्वाहोद् गृहीताय स्वाहा पुष्णते स्वाहा शीकायते स्वाहा पुष्वाभ्यः स्वाहा स्वदिनीभ्यः स्वाहा नीहाराय स्वाहा ॥
इदं मेघेभ्यो न मम ।
ॐ समुद्रं गच्छ स्वाहान्तरिक्ष गच्छ स्वाहा देव छ सवितारं गच्छ स्वाहा मित्रावरुणौ गच्छ स्वाहाऽहोरात्रे गच्छ स्वाहा छन्दा सि गच्छ स्वाहा द्यावापृथिवी गच्छ स्वाहा यज्ञ गच्छ स्वाहा सोम गच्छ स्वाहा दिव्यं नमो गच्छ स्वाहाऽग्निं वैश्वानरगच्छ स्वाहा मनोमे हार्दि यच्छ दिवं ते धूमो गच्छतु स्वर्ज्योतिः पृथवीं भस्मनाऽऽपूण स्वाहा ॥
इदं समुद्रेभ्यो न मम ।
ॐ नदीभ्यः पौब्जिष्ठमृक्षीकाभ्यो नैषादं पुरुषव्याघ्राय दुर्मदं गन्धर्वाप्सरोभ्यो व्रात्यं प्रयुग्म्य उन्मत्त @ सर्पदेवजनेभ्योप्रतिपदमयेभ्यः कितवमीर्यतायाऽअकितवं पिशाचेभ्यो विदलकारी यातुधानेभ्यः कण्टकीकारीम् स्वाहा ॥
इदं नदीभ्यो न मम ।
ॐ इष्टो यज्ञो भृगुभिराशीर्दा वसुभिः ।
तस्य नइष्टस्य प्रीतस्य द्रविणेहागमेः स्वाहा ॥
इदमिष्टदेवाय न मम ।
ॐ कुलायिनी घृतवती पुरन्धिः स्योने सीद सदने पृथिव्याः । अभि त्वा रुद्रा वसवो गृणन्त्विमा ब्रह्म पीपिहि सौभगायाश्विनाऽध्वर्यू सादयतामिह त्वा स्वाहा ॥
( यहाँ यजमानले कुलदेवताको हवन गर्ने चलन छ )
इदं कुलदेवाय न मम ।
यत्र स्थापितो यो देव स्तंत्तन्मन्त्रेण होमयेत् ।
ॐ नमः शम्भवाय च मयो भवाय च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च स्वाहा ।
इदं भैरवाय न मम ।
ॐ देवीर्द्वाऽइन्द्र & सङ्घाते वीड्वीर्यामन्नवर्धयन् ।
आवत्सेन तरुणेन कुमारेण च मीवता पार्वाण & रेणुककाटन्नुदन्तां वसुवने वसुधेयस्य व्यन्तु यज स्वाहा ।
इदं भैरव्यै न मम ।
ॐ अम्बे अम्बिकेम्बालिके न मानयति कश्चन ।
ससस्त्यश्वकः सुभद्रिकाशम्पीलवासिनीम् स्वाहा ॥
इदं विन्ध्यवासिन्यै न मम ।
यत्र स्थानविशेषाधिष्ठितो यो देवो देवी वा तत्तन्मन्त्रेण होमयेत् ।
( स्वस्थान देश ग्राम ठाउँ का तत्तत् स्थानविशेष देवताहरूलाई हवन गर्ने )
ॐ एषोह देवः प्रदिशोऽनु सर्वाः पूर्वो ह जातः सऽउ गर्भेऽ अन्तः ।
स एव जातः स जनिष्यमाणः प्रत्यङ्जनास्तिष्ठति सर्वतो मुखः स्वाहा ॥
इदं सर्वभ्यो देवेभ्यो न मम ।
ॐ शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ज्योतिष्मांश्च ।
शुक्रश्चऽऋतपाश्चात्यछ हाः स्वाहा ॥
इदं सर्वहोमपूरणार्थेभ्यो न मम ।
ॐ राजन्तमध्वराणाङ्गोपामृतस्य दीदिविम् ।
वर्धमान @ स्वे दमे स्वाहा ॥
इदं पञ्चपाण्डवेभ्यो न मम ।
ॐ उग्रश्च भीमश्च ध्वान्तश्च धुनिश्च ।
सासवांश्चाभियुग्वा च विक्षिपः स्वाहा ॥
इदं भीमसेनाय न मम ।
ॐ पितृभ्यः स्वधायिभ्यः स्वधा नमः पितामहेभ्यः स्वधायिभ्यः स्वधा नमः प्रपितामहेभ्यः स्वधायिभ्य : स्वधा नमः । अक्षन् पितरोमीमदन्त पितरोऽतीतृपन्त पितरः पितरः शुन्धध्वम् स्वाहा ॥
इदं पितृभ्यो न मम ।
अत्र प्रणीतोदक स्पर्शः ।
( सुरोको टुप्पो प्रणीतामा चोब्ने )
ॐ ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् । अजस्रघर्ममीमहे ।
उपयामगृहीतोसि वैश्वानराय त्वैष ते योनिर्वैश्वानराय त्वा स्वाहा ॥
इदं वैश्वानराय न मम ।
ॐ वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्री इतो जातो विश्वमिदं विचष्टे वैश्वानरो यतते सूर्येण । उपयामगृहीतोसि वैश्वानराय त्वैष ते योनिर्वैश्वानराय त्वा स्वाहा ॥
इदं वैश्वानराय न मम ।
ॐ वैश्वानरो नाऊतय आप्रयातु परावतः ।
अग्निरुक्थेन वाहसा । उपयामगृहीतोसि वैश्वानराय त्वैष ते योनिर्वैशवानराय त्वा स्वाहा ॥
इदं वैश्वानराय न मम ।
ॐ आकाशे यानि तीर्थानि यानि तीर्थानि भूतले ।
पाताले यानि तीर्थानि सर्व तीर्थ नमोऽस्तुते स्वाहा ॥
ॐ आकाशे सन्ति ये देवा ये देवाः सन्ति भूतले ।
पाताले सन्ति ये देवाः सर्वदेव नमोऽस्तु ते स्वाहा ॥
ॐ आकाशे यानि लिङ्गानि यानि लिङ्गानि भूतले ।
पाताले यानि लिङ्गानि सर्वलिङ्ग नमोऽस्तु ते स्वाहा ॥
ततो हुतशेषहविर्द्रव्यं गृहीत्वा ब्रह्मणान्वारब्धः स्विष्टकृद्धोमं कुर्यात् ।
ॐ अग्नये स्विष्टकृते स्वाहा । इदमग्नये स्विष्टकृते न मम ।
ततः संस्रवप्राशनम् । ततो महाव्याहृत्यादि उत्तराङ्गहोम ।
तद्यथा ( सुरोको घ्यू पातमा लगाई यजमानले जिब्रोमा लगाउनु र आचमन गर्नु )
विनियोगः
ॐ महाव्याहृतीनां प्रजापतिऋषिरग्निवायुसूर्या देवता गायत्र्युष्णिगनष्टुभश्छदांसि अग्न्याधाने विनियोगः ।
ॐ भूः स्वाहा । इदमग्नये न मम । प्रोक्षणीपात्रेऽपि ।
( सुरोको टुप्पोले प्रोक्षणी पात्रको जलमा छुवाउने )
ॐ भुवः स्वाहा । इदं वायवे न मम । प्रोक्षणीपात्रेऽपि ।
ॐ स्वः स्वाहा । इदं सूर्याय न मम प्रोक्षणीपात्रेऽपि । एता महाव्याहृतयः ।
विनियोगः
ॐ त्वन्नोऽअग्न इति वामदेवऋषिरग्नीवरुणौ देवते स्त्रिष्टुप्छन्दः आज्यहोमे विनियोगः ।
ॐ त्वन्नोऽअग्ने वरुणस्य विद्वान् देवस्य हेडोऽअवयासिषीष्ठाः ।
यजिष्ठो वन्हितमः शोशुचानो विश्वा द्वेषा @ सि प्रमुमुग्ध्यस्मत्स्वाहा ।
इदमग्नीवरुणाभ्यां न मम प्रोक्षणीपात्रेऽपि ।
( सुरोको टुप्पोले प्रोक्षणी पात्रको जलमा छुवाउने )
विनियोगः
ॐ स त्वन्नोऽबग्न इति वामदेवऋषिरग्निवरूणौ देवते स्विष्टुप्छन्द आज्यहोमे विनियोगः ।
ॐ स त्वन्नोऽअग्नेवमो भवोती नेदिष्ठोऽअस्याऽउषसो व्युष्टौ ।
अवयव नो वरुण @ रराणो वीहि मृडीक @ सुहवो नएधि स्वाहा ॥
इदमग्नीवरुणाभ्यां न मम । प्रोक्षणीपात्रेऽपि ।
विनियोगः
ॐ अयाश्चाग्नं इति वामदेवऋषिऽग्निर्देवता स्त्रिष्टुप् छन्दः प्रायश्चित्तहोमे विनियोगः ।
ॐ अयाश्चाग्नेऽस्यनभिशस्तिपाश्च सत्यमित्वमयाऽअसि ।
अया नो यज्ञं वहास्यया नो घेहि भेषज @ स्वाहा ॥
इदमग्नये न मम । प्रोक्षणीपात्रेऽपि ।
विनियोगः
ॐ ये ते शतमिति वामदेवऋषिस्त्रिष्टुप्छन्दो वरुणः सविता विष्णुर्विश्वेदेवा मरुतः स्वर्का देवताः प्रायश्चित्तहोमे विनियोगः ।
ॐ ये ते शतं वरुणं ये सहस्रं यज्ञियाः पाशा वितता महान्तः ।
ते भिर्नोऽ अद्य सवितोत विष्णुर्विश्वे मुञ्चन्तु मरुतः स्वः स्वाहा ॥
इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यो न मम प्रोक्षणीपात्रेऽपि ।
विनियोगः
ॐ उत्तममिति शुनः शेपऋषिस्त्रिष्टुप्छन्दो वरुणो देवता पाशान्मोचने विनियोगः ।
ॐ उदुत्तमं वरुण पाशमस्मदवाघमं विमध्यम @ श्रथाय ।
अथा वयमादित्यवते तवानागसोऽअदितये स्याम स्वाहा ॥
इदं वरुणाय न मम । प्रोक्षणीपात्रेऽपि ।
विनियोगः
ॐ प्रजापतय इति प्रजापतिऋषिस्त्रिष्टुप्छन्दः प्रजापतिर्देवता आज्यहोमे विनियोगः ।
ॐ प्रजापतये स्वाहा ।
इदं प्रजापतये न मम । ( इति मनसा )
एवं होमं समाप्याग्नेः स्थापितदेवतानां चोत्तराङ्गपूजनं कार्यम् ।
ॐ अद्येत्यादि पूर्वसङ्कल्पसिद्धिरस्तु मम कृतस्यामुककर्मणः साङ्गतासिद्धयर्थं स्थापितदेवतानां मृडाग्नेश्चोत्तराङ्गपूजनं करिष्ये । इति सङ्कल्प्य ।
ॐ अग्ने नय सुपथा रायेऽअस्मान् विश्वानि देव व्वयुनानि विद्वान् ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमऽउक्तिं विधेम ॥
( सबै देवतालाई पुनः ( उत्तराङ्ग ) पूजा गर्ने )
ॐ मृडाग्नये नमः ।
इति गन्धाद्युपचारैः सम्पूज्य
“ स्थापितदेवताश्च गन्धाद्युपचारैः । सम्पूजयेत् । ”
अनया पूजया मृडाग्निः स्थापितदेवताश्च प्रीयन्तां न मम इति ।
( होताले जल , कुश लिने )
ततो होता गन्धक्षातजलमादाय संकल्पं कुर्यात् -
ॐ अद्येत्यादि कृतस्यामुककर्मणः परिपूर्णतासिद्धयर्थं पूर्णाहुतिं होमयिष्ये ।
इति सङ्कल्प्य ।
( अब सुरोमा सुपारी , घ्यू राखी पूर्णाहुति दिने )
ॐ मूर्धानन्दिवोऽअरतिं पृथिव्या वैश्वानरमृतऽआजातमग्निम् ।
कवि सम्राजमतिथिञ्जनानामासन्ना पात्रञ्जनयन्त देवाः स्वाहा ॥
इति पूर्णाहुतिं होमयेत् ।
सुवश्च मऽइति स्रुवपूजनम् ।
( सुरोको पूजा गर्ने )
स्रुवश्च मे चमसाश्च मे वायव्यानि च मे द्रोणकलशश्च मे ग्रावाणश्च मे धिषवणे च मे पूतभृच्च म आघवनीयश्च मे वेदिश्च मे बर्हिश्च मे वभृयश्च मे स्वगाकारश्च मे यज्ञेन कल्पन्ताम् ॥
( अब यहाँ आरती , पुष्पाञ्जली गर्ने चलन छ )
अथ पूर्णपात्रदानम्
रौप्यं ताम्रं मृण्मयं वा यत्संभवं पात्रं फलवस्त्रद्रव्यसहितं षट्पञ्चाशदधिकद्विशतमुष्टिपरिमितं ( २५६ ) बहुभोक्तृपुरुषाहारपरिमितं वा तण्डुलयुतं पूर्णपात्रमादाय पूर्णादवति पूर्णपात्रं ब्राह्मणं च त्रिः सम्पूज्य ।
( २५६ मुठी चामल राखेर पूर्णपात्र बनाउने जसमा सम्भव भए सुन फल वस्त्र द्रव्य राखेर पूर्णपात्रलाई चन्दन , अक्षता, फूलले पूजा गर्ने )
ॐ पूर्णादवि परापत सुपूर्णा पुनरापत ।
वस्नेव विक्रीणावहाऽद्वषमूर्ज @ शतक्रतो ।
( जल , कुश , तिल , जौसहित पूर्णपात्र हातमा लिने )
ॐ अद्येहेत्यादि अस्मिन् अमुककर्माङ्गभूतहोमकर्मणि कृताकृतावेक्षणरूप ब्रह्मकर्मप्रतिष्ठाय इदं पूर्णपात्रम् प्रजापतिदैवतं यथानामगोत्राय यथानामशर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददे ।
इति सङ्कल्प्य पूर्णपात्रं ब्रह्मणे दद्यात् ।
ॐ स्वस्तीति प्रतिवचनम् ।
ततः प्रणीताविमोकः ।
( प्रणीताको जलले यजमानलाई सेञ्चन गर्ने )
ॐ सुमित्रिया नआपडओषधयः सन्तु ।
इतिमन्त्रेण पवित्राभ्यां प्रणीतोदकेन कर्तुः शिरः सम्मृज्य ।
ॐ दुर्मित्रियास्तस्मै सन्तु योस्मान् द्वेष्टि यञ्च वयं दिष्मः ।
इति मन्त्रेणैशान्यां प्रणीतापात्रं न्युब्जीकुर्यात् ।
ततस्तरणक्रमेणैव बर्हिरुत्याप्य आज्येनाभिधार्य ' देवा गातुविदो
' इति पठित्वा हस्तेनैव होमयेत् ।
( प्रणीतालाई घोप्ट्याउने )
( अग्निको वरिपरिको कुश अग्निमा होम्ने )
ॐ देवा गातुविदो गातुं वित्त्वा गातुमित ।
मनसस्पताइमन्देव यज्ञ & स्वाहा वाते धाः स्वाहा ॥
इति बर्हिर्होमः ।
अथ महाबलिः
ततो आचार्य ( ब्राह्मणो वा ) माषतण्डुलाद्यन्नकुङ्कुमादिगन्धरक्तपुष्पादियुतं सदीपं सवस्त्रं सदक्षिणं सजलं बलिं क्षेत्रपालाय दद्यात् । तत्र मन्त्रः
( आचार्यले अथवा अरु कोइ ब्राह्मणले मास , चामल , रातो फूल , दक्षिणा , वस्त्र , जल , फलसमेत राखी बत्ती बाल्ने र चन्दन , अक्षता , फूलले पूजा गर्ने कुश , जलसहित बलि दिने , र मन्त्र भन्ने )
ॐ क्षेत्रपालाय भूतप्रेतपिशाचराक्षसशाकिनीडाकिनीवेतालादिपरिवारयुताय इमं बलिं समर्पयामि , भो भो क्षेत्रपाल ! इमं बलिं गृहाण , मम यजमानस्य आयुः कर्ता , क्षेमकर्ता , वरदस्तुष्टिदो भव ।
इति पठित्वा बलिं शूद्रेण ब्राह्मणेन वा चतुष्पथे विसर्जयेत् ।
तत आचार्यः प्रक्षालितपाणिपाद आचामेत्
( यो मन्त्र पढेर आचार्य अथवा कोइ अशुद्ध घर देखि बाहिरको व्यक्तिले बलिलाई दोबाटो या चौबाटोमा राखेर हात खुट्टा धोएर आचमन गर्ने ।
यज्ञान्तगोदानम्
तत्र गोपूजनमन्त्र:
ॐ नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च ।
नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमो नमः ।।
ॐ इरावती धेनुमतीहिभूत गुँ सूयवसिनी मनवेदशस्या ।
व्व्यस्क्कब्भ्न्ना रोदसीविष्णवे ते दाधर्त्थ पृथिवी मभितो मयूखैः ।।
इति मन्त्रद्वयेन गां त्रि:संपूजयेत् ।
ॐ आकृष्णेन रजसावर्त्तमानो निवेशयन्न् अमृतम्मर्त्यञ्च।
हिरण्ययेन सवितारथेना देवोयाति भुवनानिपश्यन् ।।
इति मन्त्रेण ब्राह्मणं त्रि:संपूज्य कुशजलेन गामभ्युक्ष्य गोपुच्छं गृहीत्त्वा स्वशिरस्यभिषिञ्चेदनेन मन्त्रेण-
ॐ मनोमेतर्पयत वाचम्मेतर्पयत प्प्राणम्मेतर्पयत चक्षुर्मेतर्पयत श्श्रोत्रम्मेतर्पयत आत्क्मानम्मेतर्पयत प्प्रजाम्मेतर्पयत पशून्न्मेतर्पयत गणान्न्मेतर्पयत गणामेमाव्वितृषन् ।।
ततः कुशादिसहितं गोपुच्छमादाय गोदानसङ्कल्प:
ॐ तत्सत्३ विष्णु:३ इत्यादि देशकालौ स्मृत्वाऽमुकगोत्रोऽमुकशर्माहं मया कृतेऽस्मिन्न् अमुककर्मणि तदङ्गत्त्वेन यथालब्धोपचारैः कृतस्य पूजनहवनकर्मणो यथावत्फलप्राप्ति पूर्वकम् अमुकदेवता प्रीतये इमां गां रुद्रदैवताम् इत्यादि योजयेत् ।
गोप्रार्थना
ॐ कपिले सर्वदेवानां पूजनीयासि रोहिणि ।
सर्वदेवमयी यस्मादतः शान्तिं प्रयच्छ मे ।।
दानप्रतिष्ठा
द्रव्यं कुशादिसहितमादाय-
ॐ अद्य कृतस्य गोदानस्यैतस्य प्रतिष्ठासिद्ध्यर्थमिदं द्रव्यमित्यादि योजयेत् ।
ब्राह्मण: स्वस्तीत्युच्चारयन् गृहीत्वाऽधोलिखितं मन्त्रं पठेत्-
ॐ कोदात्त्कस्म्माऽअदात्कामोदात्त् कामायादात् कामोदाताकामः प्प्रतिग्ग्रहीता कामैतत्ते ।
अथ मेधाकरणम्
( नरिवल , सुपारी , घ्यू अग्निमा हवन गर्ने ।
घृतपूर्णस्रुवे नारिकेलपूगीफलादिकं चन्दनपुष्पाणि च निघाय घृतघारां पातयन् होमयेदेभिर्मन्त्रै :
ॐ सदसस्पतिमद्भूतं प्रियमिन्द्रस्य काम्यम् ।
सनिं मेघामया सिष स्वाहा ॥
ॐ यां मेघां देवगणाः पितरश्चोपासते ।
तया मामद्य मेघयाग्ने मेधाविनं कुरू स्वाहा ॥
ॐ मेघां मे वरुणो ददातु मेघामग्निः प्रजापतिः ।
धामिन्द्रश्च वायुश्च मेधां धाता ददातु मे स्वाहा ॥
ॐ आकूतिमग्निं प्रयुज स्वाहा वाचो विधृतिमग्निं प्रयुजछ स्वाहा ।
प्रजापतये मनवे स्वाहाग्नये वैश्वानराय स्वाहा ॥
ॐ सप्त तेऽअग्ने समिधः सप्तजिव्हाः सप्त ऋषयः सप्तधाम प्रियाणि ।
सप्तहोत्राः सप्तधा त्वा यजन्ति सप्त योनीरापृणस्व घृतेन स्वाहा ॥
ॐ पूर्णादवि परापत सुपूर्णा पुनरापत ।
वस्नेव विक्रीणावहा इषमूर्ज शतक्रतो ॥
ॐ इदं मे ब्रह्म च क्षत्रञ्चोभे श्रियमश्नुताम् ।
मयि देवा दधतु श्रियमुत्तमां तस्यैते स्वाहा ॥
शेषचरुहोम : तत्रादौ एघोऽसीति वस्त्रहोमः
अभ्यादधामीति शेषचरुहोमः
यजमानः सपरिवारो बन्धुवर्गः सह घृताक्तवस्त्र चन्दनपुष्पफलचर्वादिभिरग्निं सम्पूजयेदनेन मन्त्रेण ।
( उपयमनकुश वस्त्रसहित यजमानले हवन गर्ने )
ॐ एघोस्येधिषीमहि समिदसि तेजोसि तेजो मयि धेहि ।
समाववर्ति पृथिवी समुषाः समुसूर्यः समुविश्वमिदं जगत् ।
वैश्वानरञ्ज्योतिर्भूयासं विभून्कामार्व्यश्नवै भूः स्वाहा ॥
इति वस्त्रहोमः ।
ततः शेषचरुहोमः ।
( सबैले चरु हवन गर्ने )
ॐ अभ्यादधामि समिधमग्ने व्रतपते त्वयि ।
व्रतञ्च श्रद्धाञ्चोपैमीन्धे त्वा दीक्षितोऽअहम् ॥
ॐ यत्र ब्रह्म च क्षतञ्च सम्यञ्चौ चरतः सह ।
तँल्लोकं पूण्यं प्रज्ञेषं यत्र देवाः सहाग्निना ॥
ॐ यत्रेन्द्रश्च वायुश्च सम्यञ्चौ चरतः सह ।
तँल्लोकं पुण्यं प्रज्ञेषं यत्र सेदिर्न विद्यते स्वाहा ॥
इति शेषचरुहोमः ।
ततः स्रुवेण भस्म किञ्चिद् गृहीत्वा अवशिष्टाज्येन पिष्ट्वा तत्तिलकं हस्तेन स्पृष्ट्वाभिमन्त्रयेदनेन मन्त्रेण
( सुरोले तिलक बनाउने )
ॐ अग्नये गायत्राय त्रिवृते राथन्तरायाष्टाकपालऽइन्द्राय त्रैष्टुभाय पञ्चदशाय बार्हतायैकादशकपालो विश्वेभ्यो देवेभ्यो जागतेभ्यः सप्तदशेभ्यो वैरूपेभ्यो द्वादशकपालो मित्रावरुणाभ्यामानुष्टुभाभ्यामेकवि @ शायशाक्वराय चरुः सवित्र औष्णिहाय त्रयस्त्रि शाय रैवताय द्वादशकपालः प्राजापत्यश्चरूरदित्यै बिष्णुपत्न्यै चरुरग्नये वैश्वानराय द्वादशकपालोनुमत्याऽअष्टा कपालः ॥
ततो यजमानस्य तिलकं कुर्यात् ।
( यजमानलाई तिलक लगाइदिने )
ॐ त्र्यायुषञ्जमदग्नेः । इति ललाटे ।
ॐ कश्यपस्य त्र्यायुषम् । इति ग्रीवायाम् ।
ॐ यद्देवेषु व्यायुषम् । इति दक्षिणबाहुमूले ।
ॐ तन्नोऽअस्तु व्यायुषम् । इति हृदि ।
घृतच्छाया
ततो यजमानो घृते छायां निरीक्ष्य तं ब्राह्मणाय दद्यात् ।
तत्र क्रमः - ( रौप्यपात्रे , ताम्रपात्रे , कांस्यपात्रे )
वा घृतं सुवर्णं च निघाय तेजोऽसि , ध्रुवासि इति मन्त्रद्वयं पठन छायां निरीक्षेत् ।
विनियोगः
तेजोऽसीति परमेष्ठीऋषिर्गायत्री छन्दः आज्यं देवता आज्यावेक्षणे विनियोगः ।
ॐ तेजोऽसि शुक्रममृतमायुष्पा आयुर्मे पाहि ।
देवस्य त्वा सवितुः प्रसवेश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे ॥
ॐ धुवासि धुवोयं यजमानोऽस्मिन्नायतने प्रजया पशुभिर्भूयात् ।
घृतेन द्यावापृथिवी पूर्येथामिन्द्रस्य च्छदिरसि विश्वजनस्य च्छाया ।
तत आज्यं स्पृष्ट्वा पठेत् ( छायाँ हेर्ने ) ( पात्र छुने ) के
ॐ अलक्ष्मीर्यच्च दौस्थ्यं मे सर्वगात्रेष्ववस्थितम् ।
तत्सर्वं शमयाज्य त्वं लक्ष्मी पुष्टिं च वर्धय ॥
ॐ आज्यं तेजः समुद्दिष्टमाज्यं पापहरं शुभम् ।
आज्यं सुराणामाहारमाज्य लोकाः प्रतिष्ठिताः ॥
ॐ नमोऽन्तरिक्षं दिव्यं वा यन्मे किल्विषमागतम् ।
सर्वं तदाज्यसंस्पर्शात् प्रणाशमुपगच्छतु ॥
( दुबोले चलाउने ) ततो दुर्वं स्पृष्ट्वा पठेत् ।
ॐ काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि ।
एवा नो दुर्वे प्रतनु सहस्रेण शतेन च ॥
ॐ या क्षीरसागरोत्पन्ना दूर्वा पीयूषसम्भवा ।
तत्संस्पर्शनमात्रेण हयायुर्वृद्धिर्यशोबलम् ॥
ततस्तदाज्यपात्रं कुशतिलजलसहितमादाय
( कुश , तिल , जलसहित घृतछाया लिने )
ॐ अद्येहेत्यादि मम दुःस्वप्नदुर्निमित्तादिसर्वारिष्टोपशमनपूर्वकमसमानतेजः प्रज्ञाशौर्य यशोबलायुर्लक्ष्मीपुष्टिवर्ध नार्थमिदमाज्यं मृत्युञ्जयदैवतं ( रौप्यं ताम्रं वा ) कांस्यपात्रं चन्द्रदैवतं सुवर्णमग्निदैवतं ( अमुक ) गोत्राय ( अमुक ) शर्मणे ब्राह्मणाय तुभ्यमहं संप्रददे ।
( ब्राह्मणलाई दिने र नमस्कार गर्ने )
ॐ तत्सन्न मम ।
प्रार्थना
कामधेनो समुद्भूतं देवानामुत्तमं हविः ।
आयुर्वृद्धिकरं दातू राज्यं पातु सदैव माम् ।
ततो महामृत्युब्जयः प्रीयतामिति संप्रार्थ्य दानप्रतिष्ठां दद्यात् । -
( दान प्रतिष्ठा गर्ने )
दक्षिणा सङ्कल्प
ॐ हिरण्यगर्भगमस्थं हेमवीजं विभावसोः ।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥
( वरण गरेका ब्राह्मणहरूलाई दक्षिणा दिने )
इतिं देयम् ब्राह्मणं च त्रिः सम्पूज्य कुशादिसहितं दक्षिणाद्रव्यमादाय
( कुश , जलसहित दक्षिणा लिने )
भूयसीदक्षिणासङ्कल्प
( दिनुपर्ने सबैलाई दक्षिणा दिने )
ॐ तत्सद्विष्णुरित्यादि पूर्वसङ्कल्पमुच्चार्य ( अमुक ) गोत्र : ( अमुक ) शर्माहं कृतस्यामुक ( अमुकदेवताप्रीतये कृतस्य पूजनहवनादिकर्म ) यज्ञ प्रतिष्ठा सिध्यर्थं दक्षिणा द्रव्यममुक दैवतं नानानामगोत्रेभ्यो नानानामशर्मेभ्यो ब्राह्मणेभ्यो कन्याकुमारीकुमारेभ्यश्च दीनानाथेभ्यश्च यथायोग्यभागं विभज्य यथाकाले दातुमहमुत्सृजे । इति जले उत्सृजेत् ।
सङ्कल्पसिद्धान्नम्
( सिद्धान्न दानको सङ्कल्प गर्ने )
ॐ अद्येहामुकगोत्रोऽमुकशर्माहं कृतस्यामुककर्मणो यथावत्फलप्राप्तये नानानामगोत्रान्नानामशर्मणो ब्राह्मणान् यथोपपन्नेनान्नेन भोजयिष्ये ( आमान्नपक्षे सन्तोषयिष्ये ) ।
ततो विसर्जनम्
अथ अर्घ्यनिवेदनम्
ततः कर्ता देवायार्घ्यं निवेदयेत्
ॐ जातो दैत्यवधार्थाय देवानां पालनाय च ।
तस्मै देवाय सत्याय सगुणाय महात्मने ॥
व्यक्ताव्यक्तस्वरूपाय हृषीकपतये नमः ।
गृहाणार्घ्यं मया दत्तं रमया सहित प्रभो ॥
( अर्घ्य निवेदन गरेर त्यो पात्र घोप्ट्याएर पूजा गर्ने र पछि उठाएर जल राख्ने चलन छ )
स्वबन्धुवर्गैब्रह्मणैश्च सह यज्ञे देवेषु च पुष्पाक्षताः क्षिपन्
यानि कानीति मन्त्रेण यज्ञप्रदक्षिणं कुर्यात्
( यज्ञको ओरिपरि घुमेर नमस्कार गर्ने )
ॐ यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्तु प्रदक्षिणपदे पदे ॥
इति प्रदक्षिणीकृत्य नमस्कुर्यात् ।
ततः पुष्पाक्षतैः ब्रह्माणं संपूज्य ' उत्तिष्ठ ब्रह्मणस्पते ' इति विसृज्य उत्थापयेत्
( कुशको ब्राह्मण उठाउने )
ॐ उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे ।
उपप्रयन्तु मरुतः सुदानव इन्द्रप्राशुर्भवा सचा ॥
( वरिपरि पूजा गर्ने र विसर्जन गर्ने )
ततो यान्तु देवेति पुष्पाक्षतैरभ्यर्च्य देवान् विसर्जयेत्
ॐ यान्तु देवगणाः सर्वे पूजामादाय पार्थिवीम् ।
इष्टकामप्रसिद्ध्यर्थं पुनरागमनाय च ॥
ॐ गच्छ गच्छ सुरश्रेष्ठ स्वस्थानं परमेश्वर ।
यत्र ब्रह्मादयो देवास्तत्र गच्छ हुताशन ॥
ॐ आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां चैव न जानामि क्षमस्व परमेश्वर ॥
कर्मेश्वरार्पणम्
( विसर्जनम् )
हस्ते सपवित्रकुशजलमादाय पठेत्
( कुशको औंठी र तिलानीको अन्य कुश लिएर जल समाउने )
ॐ कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वानुसृतः स्वभावात् ।
करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयेतत् ॥
ततो यस्य स्मृत्येति अच्युतं नमस्कुर्यात् ।
ॐ यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥
ॐ विष्णवे नमः ३ । ॐ अच्युताय नमः ३ ।
एतत्कर्म श्रीकृष्णार्पणमस्तु इतीश्वरं ध्वात्वोत्सृजेत् जलम्।
( ईश्वरलाई ध्यान गर्दै अब त्यो पानि भूमिमा छोड्नु होस् )
ततोऽन्जलिं बध्वा अच्युतं नमस्कुर्यात्
(हात जोडेर अच्युत भगवान्लाई नमस्कार गर्ने )
ॐ चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च ।
हूयते च पुनर्वाभ्यां स मेविष्णुः प्रसीदतु ।।
ॐ विष्णवे नमः ३।
तत्सद्ब्रह्मार्पणमस्त्विति कर्मेश्वरार्पणं कुर्यात् ।
कुल , पितृ , इष्टदेवता पूजनम्
( कुलदेवता , पितृदेवता , इष्टदेवता र स्थानीय देवताहरूलाई प्रसाद चढाई धूपवती गर्ने )
ॐ कुलायिनी घृतवती पुरन्धिः स्योने सीद सदने पृथिव्याः ।
अभि त्वा रुद्रा वसवो गृणन्त्विमा ब्रह्म पीपिहि सौभगायाश्विनाध्वर्यू सादयतामिह त्वा ॥
ॐ कुलदेवाय नमः ।
( कुल , इष्ट , पितर , ग्राहश्च ग्रामादि स्थापितदेवतालाई नमस्कार गर्ने )
अभिषेकः प्रसादग्रहणं च
तत्राभिषेकः । आचार्यादयो ब्राह्मणाः शान्तिकलशोदकेन पौराणिकैर्वेदिकैश्च मन्त्रैर्यजमानस्याभिषेकं कुर्युः
। तत्रादौ पौराणिका मन्त्राः
ॐ सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ।
वासुदेवो जगन्नाथ स्तथा सङ्घर्षणो विभुः ॥१ ॥
प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते ।
आखण्डलोऽग्निर्भगवान् यमो वै निर्ऋतिस्तथा ॥२ ॥
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ।
वह्मणा सहितः शेषो दिक्पालाः पान्तु ते सदा || ३ ||
कीर्तिर्लक्ष्मीधृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः ॥
बुद्धिलंज्जा वपुः शान्तिस्तुष्टिः कान्तिश्च मातरः ॥४ ॥
पञ्चदेवाश्च योगाश्च करणानि च वासशः ।
एतास्त्वामभिषिञ्चन्तु राहुः केतुश्च तर्पिताः ॥ ५ ॥
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ॥
ऋषयो मनवो गावो देवमातर एव च ॥६ ॥
देवपत्न्यो द्रमा नागा दैत्याश्चाप्सरसो गणाः ।
अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च ॥ ७ ॥
औषधानि च रत्नानि कालस्यावयवाश्च ये ।
सरितः सागराः शैलास्तीर्थानि जलदा नदाः ॥ ८ ॥
विश्वब्रह्माण्डदेवाश्च सलोकाः सचराचराः ॥
एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये ॥ ९ ॥
इति पौराणिका मन्त्राः ।
वैदिका मन्त्राः
ॐ देवस्य त्वा सवितुः प्रसवेश्विनोब्र्बाहुभ्यां पूष्णो हस्ताभ्याम् ।
अश्विनोर्भैषज्येन तेजसे ब्रह्मवर्चसायाभिषिञ्चामि सरस्वत्यै भैषज्ज्येन
व्वीर्यायान्नाद्यायाभिषिञ्चामीन्द्रस्येन्द्रियेण ब्बलाय श्रियै यशसेऽभिषिञ्चामि ॥
ॐ कोऽसि कतमोऽसि कस्मै त्वा काय त्वा ।
सुश्लोक सुमङ्गल सत्यराजन् ॥
शिरो में श्रीर्यशो मुखन्त्विषिः केशाश्च श्मश्रूणि ।
राजा मे प्राणोऽअमृत सम्राट् चक्षुर्व्विराट् श्रोत्रम् ॥ ( यजुः- २०/५ )
ॐ जिह्वा मे भद्रं वाङ्महो मनो मन्युः स्वराड् भाम ।
मोदाः प्रमोदाऽ अङ्गुलीरङ्गानि मित्रं मे सहःक | ( यजु : - २०/६ )
ॐ ब्बाहू मे ब्बलमिन्द्रिय हस्तौ मे कर्म व्वीर्यम् ।
आत्मा क्षत्रमुरो मम ॥ ( २०/७ )
ॐ पृष्टीमें राष्ट्रमुदरम & सौ ग्रीवाश्च श्रोणी ।
ऊरुअरत्नी जानुनी व्विशो मेऽङ्गानि सर्वतः ॥ ( यजुः- २०/८ )
ॐ नाभिर्मे चित्तं व्विज्ञानं पायुर्मेऽपचित्तिर्भसत् ।
आनन्दनन्दावाण्डौ मे भगः सौभाग्यं पसः ।
जङ्घाभ्यां पद्भ्यां धर्मोऽस्मि व्विशि राजा प्रतिष्ठितः । ( यजुः- २०/९ )
ॐ प्रतिक्षत्रे प्रतितिष्ठामि राष्ट्र प्रत्यश्वेषु प्रतितिष्ठामि गोषु ।
प्रत्यङ्गेषु प्रतितिष्ठाम्यात्मन् प्रतिप्राणेषु प्रतितिष्ठामि पुष्टे प्रतिद्यावापृथिव्योः प्रतितिष्ठामि यज्ञे ॥ ( यज्ञ- २०१० )
ॐ त्रया देवाऽएकादश त्रयस्त्रिशाः सुराधसः बृहस्पति पुरोहिता देवस्य सवितुः सवे ।
देवा देवैरवन्तु मा ॥ ( यजु : २०।११ )
ॐ प्रथमा द्वितीयैर्द्वितीयास्तृतीयैस्तृतीयाः सत्येन सत्यं यज्ञेन यज्ञो यजुर्भिर्यजूंषि सामर्भिः सामान्यूग्भिर्ऋचः पुरोऽनुवाक्याभिः पुरोऽनुवाक्या याज्याभिर्याज्या व्वषट्कारैर्वषट्काराऽ आहुतिभिराहुतयो मे कामान्त्समर्धयन्तु भूः स्वाहा ॥ ( यजुः २०/१२ )
ॐ द्यौः शान्तिरन्तरिक्ष & शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः ।
व्वनस्पतयः शान्तिर्व्विश्वेदेवाः शान्तिर्ब्रह्म शान्तिः सर्व्व शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि ॥ ( यजुः ३६।१७ )
तच्चक्षुर्देवहितं पुरस्ताच्छुवक्रमुच्चरत् ।
पश्येम शरदः शतञ्जीवेम शरदः शत शृणुयाम शरदः शतम्प्रब्रवाम शरदः शतमदीनाः स्याम शरदः शतम्भूयश्च शरदः शतात् ॥ ( यजुः ३६।२४ )
ॐ स्वस्ति नऽइन्द्रो व्वृद्धश्रवाः स्वस्ति नः पूषा व्विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्योऽअरिष्टनेमिः स्वस्ति नो ब्बृहस्पतिर्दधातु । ( यजुः २५ / १ ९ )
ॐ व्विश्वानि देव सवितर्दुरितानि परासुव । यद्भद्रं तन्नऽआसुव । ( यजुः ३० ३ )
ॐ यथेमां व्वाचङ्कल्याणीमावदानि जनेभ्यः ।
ब्रह्मराजन्याभ्यां शूद्राय चार्याय च स्वाय चारणाय च ।
प्रियो देवानान्दक्षिणायै दातुरिह भूयासमयम्मे कामः समृद्ध्यतामुपमादो नमतु ॥
( यजुः २६ । २ ) इत्यभिषेकः ॥
प्रसादवितरणम्
तत आचार्यादयो हस्ते प्रसादादिकं गृहीत्वा '
आब्रह्मन् ' इत्याद्याशीर्वादमन्त्रान् पठेयुः -
ॐ आ ब्ब्रह्मन् ब्ब्राह्मणो ब्ब्रह्मवर्च्चसी जायतामाराष्ट्र राजन्न्यः शूरऽइषव्योतिव्याधी महारथो जायतान्दोग्धी धेनुर्व्वोढानड्वानाशुः सप्तिः पुरन्धिर्योषा जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य व्वीरो जायतान्निकामे निकामे नः पर्ज्जन्यो वर्षतु फलवत्यो नऽओषधयः पच्यन्तां योगक्षेमो नः कल्पताम् । ( यजु : - २२।२२ )
ॐ दीर्घायुस्तऽओषधे खनिता यस्मै च त्वा खनाम्यहम् ।
अथोत्वन्दीर्घायुर्भूत्वा शतवल्शा व्विरोहतात् ॥ ( यजुः- १२ | १०० )
ॐ पुनस्त्वादित्या रुद्रा वसवः समिन्धतां पुनर्ब्रह्माणो व्वसुतीथ यज्ञैः ।
घृतेन त्वन्तन्वं व्वर्द्धय स्व सत्याः सन्तु यजमानस्य कामाः ॥
ॐ मनसः काममाकूतिं व्वाचः सत्यमशीय ।
पशूनांरूपमन्नस्य रसो यशः श्रीः श्रयताम् ॥ ( यजु : - ३९ ।४ )
ॐ आयुष्यं वर्चस्य रायस्पोषमौद्भिदम् ।
इद & हिरण्यं व्वर्चस्वं जैत्रायाविशतादुमाम् ॥ ( यजु : - ३४।५० )
ॐ न तद्रक्षां सि न पिशाचास्तरन्ति देवानामोजः प्रथमजहचेतत् ।
यो बिभर्ति दाक्षायण & हिरण्य & स देवेषु कृणुते दीर्घमायुः स मनुष्येषु कृणुते दीर्घमायुः । ( यजु : - ३४।५१ )
यजमान अपूपपुष्पादि हस्तेनादाय मन्त्रं पठेत् बलिर्विभीषणो भीष्मः प्रह्लादो नारदो ध्रुवः ।
कपिलश्चान्तरिक्षश्च वसुर्वायुसुतस्तथा ॥
विश्वक्सेनोद्धवाक्रूरसनकाद्या महर्षयः ।
वासुदेवप्रसादोऽयं सर्वे गृह्णन्तु वैष्णवाः ॥
इति मन्त्रोच्चारणपूर्वकं विष्णुभक्तेभ्यः प्रसादादिक समर्पयेत् ।
ॐ द्यौः शान्ति ......। तच्चक्षुर्देवहितम्
रक्षाबन्धनम्
ॐ येन बद्धो बली राजा दानवेन्द्रो महाबलः ॥
तेन त्वां प्रतिबध्नामि रक्षेन्माचल मा चल ॥
ॐ त्वं यविष्ठ्य दाशुषो नं : पाहि शृणुधि गिरः ॥
रक्षा तोकमुत क्तूमना ॥
॥ इति ।
तिलककरणम्
ॐ त्र्यायुषञ्जमदग्नेः । इति ललाटे ।
ॐ कश्यपस्य त्र्यायुषम् । इति ग्रीवायाम् ।
ॐ यद्देवेषु त्र्यायुषम् ।
इति दक्षिणवाहुमूले ।
ॐ तन्नोऽअस्त त्र्यायुषम् । इति हृदि ।
यजमानाय प्रसाद वितरणम्
आशीर्मन्त्रपठनपूर्वकं प्रसादवितरणं कुर्यात्
ॐ श्रीर्वर्चस्वमायुष्यमारोग्यमाविधात्पवमानं महीयते ।
धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥
( अभिषेक गर्ने ) .... इत्यादि .....।
ॐ स्वस्तिन इन्द्रो वृद्धश्रवा
( प्रसाद लिई भन्ने )
( प्रसाद लगाइदिने र वितरण गर्ने )
ॐ स्वस्त्यस्तु ते कुशलमस्तु चिरायुरस्तु
गोवाजिहस्तिधनधान्यसमृद्धिरस्तु ।
ऐश्वर्य्यमस्तु विजयोऽस्तु रिपुक्षयोऽस्तु
सन्तानवृद्धिसहिता हरिभक्तिरस्तु ॥
इत्याशीर्वादपुरःसरं ब्राह्मणहस्तेन प्रसादादिकं गृहीत्वा ब्राह्मणान् भोजयित्वा स्वयमपि सुहृद्युक्तो भुञ्जीत ।
आचार्यपूजन मन्त्राः
( आचार्यलाई पूजा गर्ने )
नमोस्त्वनन्ताय ...। आकृष्ण । नमो ब्रह्मण्य ... ।
आकाशात् पतितंतोयं यथागच्छतिसागरम् ।
सर्व देव नमस्कारम् केशवं प्रति गच्छति ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते
ॐ शान्तिः ॐ शान्तिः ॐ शान्तिः
।। इत्यग्निस्थापना विधिः।।