अथ तिङन्तम्

Sri App

अथ तिङन्ते भ्वादयः


लट्  लिट् लुट् लृट् लेट् लोट् लङ् लिङ् लुङ् लृङ् । एषु पञ्चमो लकारश्छन्दोमात्रगोचरः ॥

लः कर्मणि च भावे चाकर्मकेभ्यः ।३।४।६९।
लकाराः सकर्मकेभ्यः कर्मणि कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि च ॥

वर्तमाने लट् ।३।२।१२३।
वर्तमानक्रियावृत्तेर्धातोर्लट् स्यात् । अटावितौ । उच्चारणसामर्थ्याल्लस्य नेत्त्वम् । भू सत्तायाम् ॥१॥ कर्तृविवक्षायां भू ल् इति स्थिते –

तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ।३।४।७८।
एतेऽष्टादश लादेशाः स्युः ॥

लः परस्मैपदम् ।१।४।९९।
लादेशाः परस्मैपदसंज्ञाः स्युः ॥

तङानावात्मनेपदम् ।१।४।१००।
तङ् प्रत्याहारः शानच्कानचौ चैतत्संज्ञाः स्युः । पूर्वसंज्ञापवादः ॥

अनुदात्तङित आत्मनेपदम् ।१।३।१२।
अनुदात्तेतो ङितश्च धातोरात्मनेपदं स्यात् ॥

स्वरितञितः कर्त्रभिप्राये क्रियाफले ।१।३।७२।
स्वरितेतो ञितश्च धातोरात्मनेपदं स्यात् कर्तृगामिनि क्रियाफले ॥

शेषात्कर्तरि परस्मैपदम् ।१।३।७८।
आत्मनेपदनिमित्तहीनाद्धातोः कर्तरि परस्मैपदं स्यात् ॥

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः ।१।४।१०१।
तिङ उभयोः पदयोस्त्रयस्त्रिकाः क्रमादेतत्संज्ञाः स्युः ॥

तान्येकवचनद्विवचनबहुवचनान्येकशः ।१।४।१०२।
लब्धप्रथमादिसंज्ञानि तिङस्त्रीणि त्रीणि प्रत्येकमेकवचनादिसंज्ञानि स्युः ॥

युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः ।१।४।१०५।
तिङ्वाच्यकारकवाचिनि युष्मदि प्रयुज्यमानेऽप्रयुज्यमाने च मध्यमः ॥

अस्मद्युत्तमः ।१।४।१०७।
तथाभूतेऽस्मद्युत्तमः ॥

शेषे प्रथमः ।१।४।१०८।
मध्यमोत्तमयोरविषये प्रथमः स्यात् । भू ति इति जाते ॥

तिङ् शित्सार्वधातुकम् ।३।४।११३।
तिङः शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः ॥

कर्तरि शप् ।३।१।६८।
कर्त्रर्थे सार्वधातुके परे धातोः शप् ॥

सार्वधातुकार्धधातुकयोः ।७।३।८४।
अनयोः परयोरिगन्ताङ्गस्य गुणः । अवादेशः । भवति । भवतः ॥

झोऽन्तः ।७।१।३।
प्रत्ययावयवस्य झस्यान्तादेशः । अतो गुणे । भवन्ति । भवसि । भवथः । भवथ ॥

अतो दीर्घो यञि ।७।३।१०१।
अतोऽङ्गस्य दीर्घो यञादौ सार्वधातुके । भवामि । भवावः । भवामः । स भवति । तौ भवतः । ते भवन्ति । त्वं भवसि । युवां भवथः । यूयं भवथ । अहं भवामि । आवां भवावः । वयं भवामः ॥

परोक्षे लिट् ।३।२।११५।
भूतानद्यतनपरोक्षार्थवृत्तेर्धातोर्लिट् स्यात् । लस्य तिबादयः ॥

परस्मैपदानां णलतुसुस्थलथुसणल्वमाः ।३।४।८२।
लिटस्तिबादीनां नवानां णलादयः स्युः । भू अ इति स्थिते –

भुवो वुग् लुङ्लिटोः ।६।४।८८।
भुवो वुगागमः स्यात् लुङ् लिटोरचि ॥

लिटि धातोरनभ्यासस्य ।६।१।८।
लिटि परेऽनभ्यासधात्ववयवस्यैकाचः प्रथमस्य द्वे स्त आदिभूतादचः परस्य तु द्वितीयस्य । भूव् भूव् अ इति स्थिते–

पूर्वोऽभ्यासः ।६।१।४।
अत्र ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात् ॥

हलादिः शेषः ।७।४।६०।
अभ्यासस्यादिर्हल् शिष्यते अन्ये हलो लुप्यन्ते । इति वलोपः ॥

ह्रस्वः ।७।४।५९।
अभ्यासस्याचो ह्रस्वः स्यात् ॥

भवतेरः ।७।४।७३।
भवतेरभ्यासस्योकारस्य अः स्याल्लिटि ॥

अभ्यासे चर्च ।८।४।५४।
अभ्यासे झलां चरः स्युर्जशश्च । झशां जशः खयां चर इति विवेकः । बभूव । बभूवतुः । बभूवुः ॥

लिट् च ।३।४।११५।
लिडादेशस्तिङ्ङार्धधातुकसंज्ञः ॥

आर्धधातुकस्येड्वलादेः ।७।२।३५।
वलादेरार्धधातुकस्येडागमः स्यात् । बभूविथ । बभूवथुः । बभूव । बभूव । बभूविव । बभूविम ॥

अनद्यतने लुट् ।३।३।१५।
भविष्यत्यनद्यतनेऽर्थे धातोर्लुट् ॥

स्यतासी लृलुटोः ।३।१।३३।
धातोः स्यतासी एतौ प्रत्ययौ स्तो लृलुटोः परतः । शबाद्यपवादः । लृ इति लृङ्लृटोर्ग्रहणम् ॥

आर्धधातुकं शेषः ।३।४।११४।
तिङ्शिद्भ्योऽन्यो धातोरिति विहितः प्रत्यय एतत्संज्ञः स्यात् । इट् ॥

लुटः प्रथमस्य डारौरसः ।२।४।८५।
डा रौ रस् एते क्रमात् स्युः । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः । भविता ॥

तासस्त्योर्लोपः ।७।४।५०।
तासेरस्तेश्च सस्य लोः स्यात्सादौ प्रत्यये परे ॥

रि च ।७।४।५१।
रादौ प्रत्यये तथा । भवितारौ । भवितारः । भवितासि । भवितास्थः । भवितास्थ । भवितास्मि । भवितास्वः । भवितास्मः ॥

लृट् शेषे च ।३।३।१३।
भविष्यदर्थाद्धातोर्लृट् क्रियार्थायां क्रियायां सत्यामसत्यां वा । स्यः । इट् । भविष्यति । भविष्यतः । भविष्यन्ति । भविष्यसि । भविष्यथः । भविष्यथ । भविष्यामि । भविष्यावः । भविष्यामः ॥

लोट् च ।३।३।१६२।
विध्याद्यर्थेषु धातोर्लोट् ॥

आशिषि लिङ्लोटौ ।३।३।१७३।
एरुः ।३।४।८६।
लोट इकारस्य उः । भवतु ॥

तुह्योस्तातङ्ङाशिष्यन्यतरस्याम् ।७।१।३५।
आशिषि तुह्योस्तातङ् वा । परत्वात्सर्वादेशः । भवतात् ॥

लोटो लङ्वत् ।३।४।८५।
लोटस्तामादयस्सलोपश्च ॥

तस्थस्थमिपां तान्तन्तामः ।३।४।१०१।
ङितश्चतुर्णां तामादयः क्रमात्स्युः । भवताम् । भवन्तु ॥

सेर्ह्यपिच्च ।३।४।८७।
लोटः सेर्हिः सोऽपिच्च ॥

अतो हेः । ६।४।१०५।
अतः परस्य हेर्लुक् । भव । भवतात् । भवतम् । भवत ॥

मेर्निः ।३।४।८९।
लोटो मेर्निः स्यात् ॥

आडुत्तमस्य पिच्च ।३।४।९२।
लोडुत्तमस्याट् पिच्च । हिन्योरुत्वं न, इकारोच्चारणसामर्थ्यात् ॥

ते प्राग्धातोः ।१।४।८०।
ते गुत्युपसर्गसंज्ञका धातोः प्रागेव प्रयोक्तव्याः ॥

आनि लोट् ।८।४।१६।
उपसर्गस्थान्निमित्तात्परस्य लोडादेशस्यानीत्यस्य नस्य णः स्यात् । प्रभवाणि । (दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः) ।  दुःस्थितिः । दुर्भवानि । (अन्तश्शब्दस्याङ्किविधिणत्वेषूपसर्गत्वं वाच्यम् । अन्तर्भवाणि ॥

नित्यं ङितः ।३।४।९९।
सकारान्तस्य ङिदुत्तमस्य नित्यं लोपः । अलोऽन्त्यस्येति सलोपः । भवाव । भवाम ॥

अनद्यतने लङ् ।३।२।१११।
अनद्यतनभूतार्थवृत्तेर्धातोर्लङ् स्यात् ॥

लुङ्लङ्लृङ्क्ष्वडुदात्तः ।६।४।७१।
एष्वङ्गस्याट् ॥

इतश्च ।३।४।१००।
ङितो लस्य परस्मैपदमिकारान्तं यत्तदन्तस्य लोपः । अभवत् । अभवताम् । अभवन् । अभवः । अभवतम् । अभवत । अभवम् । अभवाव । अभवाम ॥

विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ।३।३।१६१।
एष्वर्थेषु धातोर्लिङ् ॥

यासुट् परस्मैपदेषूदात्तो ङिच्च ।३।४।१०३।
लिङः परस्मैपदानां यासुडागमो ङिच्च ॥

लिङः सलोपोऽनन्त्यस्य ।७।२।७९।
सार्वधातुकलिङोऽनन्त्यस्य सस्य लोपः । इति प्राप्ते –

अतो येयः ।७।२।८०।
अतः परस्य सार्वधातुकावयवस्य यास् इत्यस्य इय् । गुणः ॥

लोपो व्योर्वलि ।६।१।६६।
भवेत् । भवेताम् ॥

झेर्जुस् ।३।४।१०८।
लिङोः झेर्जुस् स्यात् । भवेयुः । भवेः । भवेतम् । भवेत । भवेयम् । भवेव । भवेम ॥

लिङाशिषि ।३।४।११६।
आशिषि लिङस्तिङार्धधातुकसंज्ञः स्यात् ॥

किदाशिषि ।३।४।१०४।
आशिषि लिङो यासुट् कित् । स्कोः संयोगाद्योरिति सलोपः ॥

क्क्ङिति च ।१।१।५।
गित्किन्ङिन्निमित्ते इग्लक्षणे गुणवृद्धी न स्तः । भूयात् । भूयास्ताम् । भूयासुः । भूयाः । भूयास्तम् । भूयास्त । भूयासम् । भूयास्व । भूयास्म ॥

लुङ् ।३।२।११०।
भूतार्थे धातोर्लुङ् स्यात् ॥

माङि लुङ् ।३।३।१७५।
सर्वलकारापवादः ॥

स्मोत्तरे लङ् च ।३।३।१७६।
स्मोत्तरे माङि लङ् स्याच्चाल्लुङ् ॥

च्लि लुङि ।३।१।४३।
शबाद्यपवादः ॥

च्लेः सिच् ।३।१।४४।
इचावितौ ॥

गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु ।२।४।७७।
एभ्यः सिचो लुक् स्यात् । गापाविहेणादेशपिबती गृह्येते ॥

भूसुवोस्तिङि ।७।३।८८।
भू सू एतयोः सार्वधातुके तिङि परे गुणो न । अभूत् । अभूताम् । अभूवन् । अभूः । अभूतम् । अभूत । अभूवम् । अभूव । अभूम ॥

न माङ्योगे ।६।४।७४।
अडाटौ न स्तः । मा भवान् भूत् । मा स्म भवत् । मा स्म भूत् ॥

लिङ्निमित्ते लृङ् क्रियातिपत्तौ ।३।३।१३९।
हेतुहेतुमद्भावादि लिङ्निमित्तं तत्र भविष्यत्यर्थे लृङ् स्यात् क्रियाया अनिष्पत्तौ गम्यमानायाम् । अभविष्यत् । अभविष्यताम् । अभविष्यन् । अभविष्यः । अभविष्यतम् । अभविष्यत । अभविष्यम् । अभविष्याव । अभविष्याम । सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्यत्, इत्यादि ज्ञेयम् । अत सातत्यगमने ।२। अतति ॥

अत आदेः ।७।४।७०।
अभ्यासस्यादेरतो दीर्घः स्यात् । आत । आततुः । आतुः । आतिथ । आतथुः । आत । आत । आतिव । आतिम । अतिता । अतिष्यति । अततु ॥

आडजादीनाम् ।६।४।७२।
अजादेरङ्गस्याट् लुङ्लङ्लृङ्क्षु । आतत् । अतेत् । अत्यात्। अत्यास्ताम् । लुङि सिचि इडागमे कृते –

अस्तिसिचोऽपृक्ते ।७।३।९६।
विद्यमानात् सिचोऽस्तेश्च परस्यापृक्तस्य हल ईडागमः ॥

इट ईटि ।८।२।२८।
इटः परस्य सस्य लोपः स्यादीटि परे । (सिज्लोप एकादेशे सिद्धो वाच्यः) । आतीत्। आतिष्टाम् ॥

सिजभ्यस्तविदिभ्यश्च ।३।४।१०९।
सिचोऽभ्यस्ताद्विदेश्च परस्य ङित्संबन्धिनो झेर्जुस् । आतिषुः । आतीः ।आतिष्टम् । आतिष्ट । आतिषम् । आतिष्व । आतिष्म । आतिष्यत् । षिध गत्याम् ॥

ह्रस्वं लघु ।१।४।१०।
संयोगे गुरु ।१।४।११।
संयोगे परे ह्रस्वं गुरु स्यात् ॥

दीर्घं च ।१।४।१२।
गुरु स्यात् ॥

पुगन्तलघूपधस्य च ।७।३।८६।
पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः सार्वधातुकार्धधातुकयोः । धात्वादेरिति सः । सेधति । षत्वम् । सिषेध ॥

असंयोगाल्लिट् कित् ।१।२।५।
असंयोगात् परोऽपिल्लिट् कित् स्यात् । सिषिधतुः । सिषिधुः । सिषेधिथ । सिषिधथुः । सिषिध । सिषेध । सिषिधिव । सिषिधिम । सेधिता । सेधिष्यति । सेधतु । असेधत् । सेधेत् । सिध्यात् । असेधीत् । असेधिष्यत् । एवं चिती संज्ञाने ॥ ४॥  शुच शोके ॥ ५॥ गद व्यक्तायां वाचि ॥ ६॥ गदति ॥

नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च ।८।४।१७।
उपसर्गस्थान्निमित्तात्परस्य नेर्नस्य णो गदादिषु परेषु । प्रणिगदति ॥

कुहोश्चुः ।७।४।६२।
अभ्यासकवर्गहकारयोश्चवर्गादेशः ॥

अत उपधायाः ।७।२।११६।
उपधया अतो वृद्धिः स्याञ्ञिति णिति च प्रत्यये परे । जगाद । जगदतुः । जगदुः । जगदिथ । जगदथुः । जगद ॥

णलुत्तमो वा ।७।१।९१।
उत्तमो णल् वा णित् स्यात् । जगाद, जगद । जगदिव । जगदिम । गदिता । गदिष्यति । गदतु । अगदत् । गदेत् । गद्यात् ॥

अतो हलादेर्लघोः ।७।२।७।
हलादेर्लघोरकारस्य वृद्धिर्वेडादौ परस्मैपदे सिचि । अगादीत्, अगदीत् । अगदिष्यत् । णद अव्यक्ते शब्दे ॥ ७॥

णो नः ।६।१।६५।
धात्वादेर्णस्य नः । णोपदेशास्त्वनर्दूनाटिनाथ्नाध्नन्दनक्कनॄनृतः ॥

उपसर्गादसमासेऽपि णोपदेशस्य ।८।४।१४।
उपसर्गस्थान्निमित्तात् परस्य णोपदेशस्य धातोर्नस्य णः । प्रणदति । प्रणिनदति । नदति । ननाद ॥

अत एकहल्मध्येऽनादेशादेर्लिटि ।६।४।१२०।
लिण्निमित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहल्मध्यस्थस्यात एत्त्वमभ्यासलोपश्च किति लिटि । नेदतुः । नेदुः ॥

थलि च सेटि ।६।४।१२१।
प्रागुक्तं स्यात् । नेदिथ । नेदथुः । नेद । ननाद, ननद । नेदिव । नेदिम । नदिता । नदिष्यति । नदतु । अनदत् । नदेत् । नद्यात् । अनादीत्, अनदीत् । अनदिष्यत् । टुनदि समृद्धौ ॥८॥

आदिर्ञिटुडवः ।१।३।५।
उपदेशे धातोराद्या एते इतः स्युः ॥

इदितो नुम् धातोः ।७।१।५८।
नन्दति । ननन्द । नन्दिता । नन्दिष्यति । नन्दतु । अनन्दत् । नन्देत् । नन्द्यात् । अनन्दीत् । अनन्दिष्यत् । अर्च पूजायाम् ॥९॥ अर्चति ॥

तस्मान्नुड् द्विहलः ।७।४।७१।
द्विहलो धातोर्दीर्धोभूतात्परस्य नुट् स्यात् । आनर्च । आनर्चतुः । अर्चिता । अर्चिष्यति । अर्चतु । आर्चत् । अर्चेत् । अर्च्यात् । आर्चीत् । आर्चिष्यत् । व्रज गतौ ॥१०॥ व्रजति । वव्राज । व्रजिता । व्रजिष्यति । व्रजतु । अव्रजत् । व्रजेत् । व्रज्यात् ॥

वदव्रजहलन्तस्याचः ।७।२।३।
एषामचो वृद्धिः सिचि परमैपदेषु । अव्राजीत् । अव्रजिष्यत् । कटे वर्षावरणयोः ॥११॥ कटति । चकाट । चकटतुः। कटिता । कटिष्यति । कटतु । अकटत् । कटेत् । कट्यात् ॥

ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् ।७।२।५।
हमयान्तस्य क्षणादेर्ण्यन्तस्य श्वयतेरेदितश्च वृद्धिर्नेडादौ सिचि । अकटीत् । अकटिष्यत् । गुपू रक्षणे ॥१२॥

गुपूधूपविच्छिपणिपनिभ्य आयः ।३।१।२८।
एभ्य आयः प्रत्ययः स्यात् स्वार्थे ॥

सनाद्यन्ता धातवः ।३।१।३२।
सनादयः कर्मेर्णिङन्ताः प्रत्यया अन्ते येषां ते धातुसंज्ञकाः । धातुत्वाल्लडादयः । गोपायति ॥

आयादय आर्धधातुके वा ।३।१।३१।
आर्धधातुकविवक्षायामायादयो वा स्युः । (कास्यनेकाच आम् वक्तव्यः) । लिटि आस्कासोराम्विधानान्मस्य नेत्त्वम्॥

अतो लोपः ।६।४।४८।
आर्धधातुकोपदेशे यददन्तं तस्यातो लोप आर्धधातुके ॥

आमः ।२।४।८१।
आमः परस्य लुक् ॥

कृञ् चानुप्रयुज्यते लिटि ।३।१।४०।
आमन्ताल्लिट्पराः कृभ्वस्तयोऽनुप्रयुज्यन्ते । तेषां द्वित्वादि ॥

उरत् ।७।४।६६।
अभ्यासऋवर्णस्यात् प्रत्यये । रपरः । हलादिः शेषः । वृद्धिः । गोपायाञ्चकार । द्वित्वात्परत्वाद्यणि प्राप्ते –

द्विर्वचनेऽचि ।१।१।५९।
द्वित्वनिमित्तेऽचि अच आदेशो न द्वित्वे कर्तव्ये । गोपायाञ्चक्रतुः  ॥

एकाच उपदेशेऽनुदात्तात् ।७।२।१०।
उपदेशे यो धातुरेकाजनुदात्तश्च तत आर्धधातुकस्येण्न ।

ऊदॄदन्तैर्यौतिरुक्ष्णुशीङ्स्नुनुक्षुश्विडीङ्श्रिभिः ।
वृङ्वृञ्भ्यां च विनैकाचोऽजन्तेषु निहताः स्मृताः ॥
कान्तेषु शल्केकः । चान्तेषु पच्मुच्रिच्वच्विच्सिचः षट् । छान्तेषु प्रच्छेकः । जान्तेषु त्यज्निजिर्भज्भञ्ज्भुज्भ्रस्ज्मस्ज्यज्युज्रुज्रञ्ज्विजिर्स्वञ्ज्सञ्जसृजः पञ्चदश । दान्तेषु अद् क्षुद् खिद् छिद् तुद् नुद् पद्य भिद् विद्य विनद् विन्द् शद् सद् स्विद्य स्कन्द् हदः षोडश । धान्तेषु क्रुध् क्षुध् बुध्य बन्ध् युध् रुध् राध् व्यध् साध्  शुध् सिध्या एकादश । नान्तेषु मन्यहनी द्वौ । पान्तेषु आप् छुप् क्षिप् तप् तिप् तृप्य दृप्य लिप् लुप् वप् शप् स्वप् सृपस्त्रयोदश । भान्तेषु यभ्रभ्लभस्त्रयः । मान्तेषु गम्नम्यम्रमश्चत्वारः । शान्तेषु क्रुश् दंश् दिश् दृश् मृश् रिश् रुश् लिश् विश् स्पृशो दश । षान्तेषु कृष् त्विष् तुष् द्विष् दुष् पुष्य पिष् विष् शिष् शुष् श्लिष् एकादश । सान्तेषु घस्वसती द्वौ । हान्ते दह्-दिह्-दुह-नह्-मिह्-रुह्-लिह्-वहोऽष्टौ ।
 अनुदाता हलन्तेषु धातवस्त्र्यधिकं शतम् ।
गोपायाञ्चकर्थ । गोपायाञ्चक्रथुः । गोपायाञ्चक्र । गोपायाञ्चकार, गोपायाञ्चकर । गोपायाञ्चकृव । गोपायाञ्चकृम । गोपायाम्बभूव, गोपायामास । जुगोप । जुगुपतुः । जुगुपुः ॥

स्वरतिसूतिसूयतिधूञूदितो वा ।७।२।४४।
स्वरत्यादेरूदितश्च परस्य वलादेरार्धधातुकस्येड्वा स्यात् । जुगोपिथ, जुगोप्थ । गोपायिता, गोपिता, गोप्ता । गोपायिष्यति, गोपिष्यति, गोप्स्यति । गोपायतु । अगोपायत् । गोपायेत् । गोपाय्यात्, गुप्यात् । अगोपायीत् ॥

नेटि ।७।२।४।
इडादौ सिचि हलन्तस्य वृद्धिर्न । अगोपीत्, अगौप्सीत् ॥

झलो झलि ।८।२।२६।
झलः परस्य सस्य लोपो झलि । अगौप्ताम् । अगौप्सुः । अगौप्सीः । अगौप्तम् । अगौप्त । अगौप्सम् । अगौप्स्व । अगौप्स्म । अगोपायिष्यत्, अगोपिष्यत्, अगोप्स्यत् । क्षि क्षये ॥१३॥ क्षयति । चिक्षाय । चिक्षियतुः । चिक्षियुः । एकाच इति निषेधे प्राप्ते –

कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि ।७।२।१३।
क्रादिभ्य एव लिट इण्न स्यादन्यस्मादनिटोऽपि स्यात् ॥

अचस्तास्वत् थल्यनिटो नित्यम् ।७।२।६१।
उपदेशेऽजन्तो यो धातुस्तासौ नित्यानिट् ततस्थल इण् न ॥

उपदेशेऽत्वतः ।७।२।६२।
उपदेशेऽकारवतस्तसौ नित्यानिटः परस्य थल इण् न स्यात् ॥

ऋतो भारद्वाजस्य ।७।२।६३।
तासौ नित्यानिट ऋदन्तादेव थलो नेट् भारद्वाजस्य मते । तेन अन्यस्य स्यादेव । अयमत्र संग्रहः –

अजन्तोऽकारवान्वा यस्तास्यनिट् थलि वेडयम ।
ऋदन्त ईदृङ्नित्यानिट् क्राद्यन्यो लिटि सेड् भवेत् ॥
चिक्षयिथ, चिक्षेथ । चिक्षियथुः । चिक्षिय । चिक्षाय, चिक्षय । चिक्षियिव । चिक्षियिम । क्षेता । क्षेष्यति । क्षयतु । अक्षयत् । क्षयेत् ॥

अकृत्सार्वधातुकयोर्दीर्घः ।७।४।२५।
अजन्ताङ्गस्य दीर्घो यादौ प्रत्यये न तु कृत्सार्वधातुकयोः । क्षीयात् ॥

सिचि वृद्धिः परस्मैपदेषु ।७।२।१।
इगन्ताङ्गस्य वृद्धिः स्यात् परस्मैपदे सिचि । अक्षैषीत् । अक्षेष्यत् । तप संतापे ॥१४॥ तपति । तताप । तेपतुः । तेपुः । तेपिथ, ततप्थ । तेपिव । तेपिम । तप्ता । तप्स्यति । तपतु । अतपत् । तपेत् । तप्यात् । अताप्सीत् । अताप्ताम् । अतप्स्यत् । क्रमु पादविक्षेपे ॥१५॥

वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः ।३।१।७०।
एभ्यः श्यन्वा कर्त्रर्थे सार्वधातुके परे । पक्षे शप् ॥

क्रमः परस्मैपदेषु ।७।३।७६।
क्रमो दीर्घः परस्मैपदे शिति । क्राम्यति, क्रामति । चक्राम । क्रिमिता । क्रिमिष्यति । क्राम्यतु, क्रामतु । अक्राम्यत्, अक्रामत् । क्राम्येत्, क्रामेत् । क्रम्यात् । अक्रमीत् । अक्रमिष्यत् । पा पाने ॥१६॥

पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः ।७।३।७८।
पादीनां पिबादयः स्युरित्संज्ञकशकारादौ प्रत्यये परे । पिबादेशोऽदन्तस्तेन न गुणः । पिबति ॥

आत औ णलः ।७।१।३४।
आदन्ताद्धातोर्णल औकारादेशः स्यात् । पपौ ॥

आतो लोप इटि च ।६।४।६४।
अजाद्योरार्धधातुकयोः क्ङिदिटोः परयोरातो लोपः । पपतुः । पपुः । पपिथ, पपाथ । पपथुः । पप । पपौ । पपिव। पपिम । पाता । पास्यति । पिबतु । अपिबत् । पिबेत् ॥

एर्लिङि ।६।४।६७।
धुसंज्ञकानां मास्थादीनां च एत्वं स्यादार्धधातुके किति लिङि । पेयात् । गातिस्थेति सिचो लुक् । अपात् । अपाताम् ।

आतः ।३।४।११०।
सिज्लुकि आदन्तादेव झेर्जुस् ॥

उस्यपदान्तात् ।६।१।९६।
अपदान्तादकारादुसि पररूपमेकादेशः । अपुः । अपास्यत् । ग्लै हर्षक्षये ॥ १७॥ ग्लायति ॥

आदेच उपदेशेऽशिति ।६।१।४५।
उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति । जग्लौ । ग्लाता । ग्लास्यति । ग्लायतु । अग्लायत् । ग्लायेत् ॥

वान्यस्य संयोगादेः ।६।४।६८।
घुमास्थादेरन्यस्य संयोगादेर्धातोरात एत्वं वार्धधातुके किति लिङि । ग्लेयात्, ग्लायात् ॥

यमरमनमातां सक् च ।७।२।७३।
एषां सक् स्यादेभ्यः सिच इट् स्यात् परस्मैपदेषु । अग्लासीत् । अग्लास्यत् । ह्वृ कौटिल्ये ॥१८ ॥ ह्वरति ॥

ऋतश्च संयोगादेर्गुणः ।७।४।१०।
ऋदन्तस्य संयोगादेरङ्गस्य गुणो लिटि । उपधाया वृद्धिः । जह्वार । जह्वरतुः । जह्वरुः । जह्वर्थ । जह्वरथुः । जह्वर । जह्वार, जह्वर । जह्वरिव । जह्वरिम । ह्वर्ता ॥

ऋद्धनोः स्ये ।७।२।७०।
ऋतो हन्तेश्च स्यस्येट् । ह्वरिष्यति । ह्वरतु । अह्वरत् । ह्वरेत् ॥

गुणोऽर्तिसंयोगाद्योः ।७।४।२९।
अर्तेः संयोगादेर्ऋदन्तस्य च गुणः स्याद्यकि यादावार्धधातुके लिङि च । ह्वर्यात् । अह्वार्षीत् । अह्वरिष्यत् । श्रु श्रवणे ॥ १९ ॥

श्रुवः श्रृ च ।३।१।७४।
श्रुवः श्रृ इत्यादेशः स्यात् श्नुप्रत्ययश्च । शृणोति ॥

सार्वधातुकमपित् ।१।२।४।
अपित्सार्वधातुकं ङिद्वत् । शृणुतः ॥

हुश्नुवोः सार्वधातुके ।६।४।८७।
हुश्नुवोरनेकाचोऽसंयोगपूर्वस्योवर्णस्य यण् स्यादचि सार्वधातुके । श्रृण्वन्ति । श्रृणोषि । श्रृणुथः । श्रृणुथ । श्रृणोमि॥

लोपश्चास्यान्यतरस्यां म्वोः ।६।४।१०७।
असंयोगपूर्वस्य प्रत्ययोकारस्य लोपो वा म्वोः परयोः । श्रृण्वः । श्रृणुवः । श्रृण्मः, श्रृणुमः । शुश्राव । शुश्रुवतुः । शुश्रुवुः । शुश्रोथ । शुश्रुवथुः । शुश्रुव । शुश्राव, शुश्रुव । शुश्रुम । श्रोता । श्रोष्यति । श्रृणोतु, श्रृणुतात् । श्रृणुताम् । श्रृण्वन्तु ॥

उतश्च प्रत्ययादसंयोगपूर्वात् ।६।४।१०६।
असंयोगपूर्वात्प्रत्ययोतो हेर्लुक् । श्रृणु, श्रृणुतात् । श्रृणुतम् । श्रृणुत । गुणावादेशौ । श्रृणवानि । श्रृणवाव । श्रृणवाम। अश्रृणोत् । अश्रृणुताम् । अश्रृण्वन् । अश्रृणोः । अश्रृणुतम् । अश्रृणुत । अश्रृणवम् । अश्रृण्व, अश्रृणुव । अश्रृण्म, अश्रृणुम । श्रृणुयात् । श्रृणुयाताम् । श्रृणुयुः । श्रृणुयाः । श्रृणुयातम् । श्रृणुयात । श्रृणुयाम् । श्रृणुयाव । श्रृणुयाम । श्रूयात् । अश्रौषीत् । अश्रोष्यत् । गम्लृ गतौ ॥२०॥

इषुगमियमां छः ।७।३।७७।
एसां छः स्यात् शिति । गच्छति । जगाम ॥

गमहनजनखनघसां लोपः क्ङित्यनङि ।६।४।९८।
एषामुपधाया लोपोऽजादौ क्ङिति न त्वङि । जग्मतुः । जग्मुः । जगमिथ, जगन्थ । जग्मथुः । जग्म । जगाम, जगम । जग्मिव । जग्मिम । गन्ता ॥

गमेरिट् परस्मैपदेषु ।७।२।५८।
गमेः परस्य सादेरार्धधातुकस्येट् परस्मैपदेषु । गमिष्यति । गच्छतु । अगच्छत् । गच्छेत् । गम्यात् ॥

पुषादिद्युताद्लृदितः परस्मैपदेषु ।३।१।५५।
श्यन्विकरणषुपादेर्द्युतादेर्लृदितश्च परस्य च्लेरङ् परस्मैपदेषु । अगमत् । अगमिष्यत् ॥

               ॥ इति परस्मैपदिनः ॥

 

एध वृद्धौ ॥१॥
टित आत्मनेपदानां टेरे ।३।४।७९।
टितो लस्यात्मनेपदानां टेरेत्वम् । एधते ॥

आतौ ङितः ।७।२।८१।
अतः परस्य ङितामाकारस्य इय् स्यात् । एधेते । एधन्ते ॥

थासः से ।३।४।८०।
टितो लस्य थासः से स्यात् । एधसे । एधेथे । एधध्वे । अतो गुणे । एधे । एधावहे । एधामहे ॥

इजादेश्च गुरुमतोऽनृच्छः ।३।१।३६।
इजादिर्यो धातुर्गुरुमानृच्छत्यन्यस्तत आम् स्याल्लिटि ॥

आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य ।१।३।६३।
आम्प्रत्ययो यस्मादित्यतद्गुणसंविज्ञानो बहुव्रीहिः । आम्प्रकृत्या तुल्यमनुप्रयुज्यमानात् कृञोऽप्यात्मनेपदम् ॥

लिटस्तझयोरेशिरेच् ।३।४।८१।
लिडादेशयोस्तझयोरेश् इरेजेचौ स्तः । एधाञ्चक्रे । एधाञ्चक्राते । एधाञ्चक्रिरे । एधाञ्चकृषे । एधाञ्चक्राथे ॥

इणः षीध्वंलुङ्लिटां धोऽङ्गात् ।८।३।७८।
इणन्तादङ्गात्परेषां षीध्वंलुङ्लिटां धस्य ढः स्यात् । एधाञ्चकृढ्वे । एधाञ्चक्रे । एधाञ्चकृवहे । एधाञ्चकृमहे । एधाम्बभूव । एधामास । एधिता । एधितारौ । एधितारः । एधितासे । एधितासाथे ॥

धि च ।८।२।२५।
धादौ प्रत्यये परे सस्य लोपः । एधिताध्वे ॥

ह एति ।७।४।५२।
तासस्त्योः सस्य हः स्यादेति परे । एधिताहे । एधितास्वहे । एधितास्महे । एधिष्यते । एधिष्येते । एधिष्यन्ते । एधिष्यसे । एधिष्येथे । एधिष्यध्वे । एधिष्ये । एधिष्यावहे । एधिष्यामहे ॥

आमेतः ।३।४।९०।
लोट एकारस्याम् स्यात् । एधताम् । एधेताम् । एधन्ताम् ॥

सवाभ्यां वामौ ।३।४।९१।
सवाभ्यां परस्य लोडेतः क्रमाद्वामौ स्तः । एधस्व । एधेथाम् । एधध्वम् ॥

एत ऐ ।३।४।९३।
लोडुत्तमस्य एत ऐ स्यात् । एधै । एधावहै । एधामहै । आटश्च । ऐधत ।ऐधेताम् । ऐधन्त । ऐधथाः । ऐधेथाम् । ऐधध्वम् । ऐधे । ऐधावहि । एधामहि ॥

लिङः सीयुट् ।३।४।१०२।
सलोपः । एधेत । एधेयाताम् ॥

झस्य रन् ।३।४।१०५।
लिङोः झस्य रन् स्यात् । एधेरन् । एधेथाः । एधेयाथाम् । एधेध्वम् ॥

इटोऽत् ।३।४।१०६।
लिङादेशस्य इटोऽस्यात् । एधेय । एधेवहि । एधेमहि ॥

सुट् तिथोः ।३।४।१०७।
लिङस्तथोः सुट् । यलोपः । आर्धधातुकत्वात् सलोपो न । एधिषीष्ट । एधिषीयास्ताम् । एधिषीरन् । एधिषीष्ठाः । एधिषीयास्थाम् । एधिषीध्वम् । एधिषीय । एधिषीवहि । एधिषीमहि । ऐधिष्ट । ऐधिषाताम् ॥

आत्मनेपदेष्वनतः ।७।१।५।
अनकारात्परस्यात्मनेपदेषु झस्य अदित्यादेशः स्यात् । ऐधिषत । ऐधिष्ठाः । ऐधिषाथाम् । ऐधिढ्वम् । ऐधिषि । ऐधिष्वहि । ऐधिष्महि । ऐधिष्यत । ऐधिष्येताम् । ऐधिष्यन्त । ऐधिष्यथाः । ऐधिष्येथाम् । ऐधिष्यध्वम् । ऐधिष्ये । ऐधिष्यावहि । ऐधिष्यामहि । कमु कान्तौ ॥ २॥

कमेर्णिङ् ।३।१।३०।
स्वार्थे । ङित्त्वात् तङ् । कामयते ॥

अयामन्ताल्वाय्येत्न्विष्णुषु। ६।४।५५।
आम् अन्त आलु आय्य इत्नु इष्णु एषु णेरयादेशः स्यात् । कामयाञ्चक्रे । आयादय इति णिङ् वा । चकमे । चकमाते। चकमिरे । चकमिषे । चकमाथे । चकमिध्वे । चकमे । चकमिवहे । चकमिमहे । कामयिता । कामयितासे । कमिता। कामयिष्यते, कमिष्यते । कामयताम् । अकामयत । कामयेत । कामयिषीष्ट ॥

विभाषेटः ।८।३।७९।
इणः परो य इट् ततः परेषां षीध्वंलुङ्लिटां धस्य वा ढः । कामयिषीढ्वम्, कामयिषीध्वम् । कमिषीष्ट । कमिषीध्वम् ।

णिश्रिद्रश्रुभ्यः कर्तरि चङ् ।३।१।४८।
ण्यन्तात् श्र्यादिभ्यश्च च्लेश्चङ् स्यात् कर्त्रर्थे लुङि परे । अकामि अ त इति स्थिते –

णेरनिटि ।६।४।५१।
अनिडादावार्धधातुके परे णेर्लोपः स्यात् ॥

णौ चङ्युपधाया ह्रस्वः ।७।४।१।
चङ्परे णौ यदङ्गं तस्योपधाया ह्रस्वः स्यात् ॥

चङि ।६।१।११।
चङि परे अनभ्यासस्य धात्ववयवस्यैकाचः प्रथमस्य द्वे स्तोऽजादेर्द्वितीयस्य ॥

सन्वल्लघुनि चङ्परेऽनग्लोपे ।७।४।९३।
चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपरः तस्य सनीव कार्यं स्याण्णावग्लोपेऽसति ॥

सन्यतः ।७।४।७९।
अभ्यासस्यात इत् स्यात् सनि ॥

दीर्घो लघोः ।७।४।९४।
लघोरभ्यासस्य दीर्घः स्यात् सन्वद्भावविषये । अचीकमत, णिङभावपक्षे - (कमेश्च्लेश्चङ् वाच्यः) । अचकमत । अकामयिष्यत, अकमिष्यत । अय गतौ ॥३॥ अयते ॥

उपसर्गस्यायतौ ।८।२।१९।
अयतिपरस्योपसर्गस्य यो रेफस्तस्य लत्वं स्यात् । प्लायते। पलायते ॥

दयायासश्च ।३।१।३७।
दय् अय् आस् एभ्य आम् स्याल्लिटि । अयाञ्चक्रे । अयिता । अयिष्यते । अयताम् । आयत । अयेत । अयिषीष्ट । विभाषेटः । अयिषीढ्वम्, अयिषीध्वम् । आयिष्ट । आयिढ्वम्, आयिध्वम् । आयिष्यत । द्युत दीप्तौ ॥४॥ द्योतते ॥

द्युतिस्वाप्योः संप्रसारणम् ।७।४।६७।
अनयोरभ्यासस्य संप्रसारणं स्यात् । दिद्युते ॥

द्युद्भ्यो लुङि ।१।३।९१।
द्युतादिभ्योः लुङः परस्मैपदं वा स्यात् । पुषादीत्यङ् । अद्युतत्, अद्योतिष्ट । अद्योतिष्यत । एवं श्विता वर्णे ॥५॥ ञिमिदा स्नेहने ॥६॥ ञिष्विदा स्नेहनमोचनयोः ॥ ७॥ मोहनयोरित्येके । ञिक्ष्विदा चेत्येके । रुच दीप्तावभिप्रीतौ च ॥८॥ घुट परिवर्तने ॥९॥ शुभ दीप्तौ ॥१०॥ क्षुभ संचलने ॥११॥ णभ तुभ हिंसायाम् ॥१२-१३॥ स्रंसु भ्रंसु ध्वंसु अवस्रंसने ॥१४-१५-१६॥ ध्वंसु गतौ च । स्रंम्भु विश्वासे ॥१७॥  वृतु वर्तने ॥१८॥ वर्तते । ववृते । वर्तिता ॥

वृद्भ्यः स्यसनोः ।१।३।९२।
वृतादिभ्यः पञ्चभ्यो वा परस्मैपदं स्यात्स्ये सनि च ॥

न वृद्भ्यश्चतुर्भ्यः ।७।२।५९।
वृतुवृधुश्रृधुस्यन्दूभ्यः सकारादेरार्धधातुकस्येण् न स्यात् तङानयोरभावे । वर्त्स्यति, वर्तिष्यते । वर्तताम् । अवर्तत । वर्तेत । वर्तिषीष्ट । अवर्तिष्ट । अवर्त्स्यत्, अवर्तिष्यत् । दद दाने ॥२०॥ ददते ॥

न शसददवादिगुणानाम् ।६।४।१२६।
शसेर्ददेर्वकारादीनां गुणशब्देन विहितो योऽकारस्तस्य एत्वाभ्यासलोपौ न । दददे । दददाते । दददिरे । ददिता । ददिष्यते । ददताम् । अददत । ददेत । ददिषीष्ट । अददिष्ट । अददिष्यत । त्रपूष् लज्जायाम् ॥२१॥ त्रपते ॥

तॄफलभजत्रपश्च ।६।४।१२२।
एषामत एत्त्वमभ्यासलोपश्च स्यात् किति लिटि सेटि थलि च । त्रेपे । त्रपिता, त्रप्ता । त्रपिष्यते, त्रप्स्यते । त्रपताम्। अत्रपत । त्रपेत । त्रपिषीष्ट।, त्रप्सीष्ट । अत्रपिष्ट, अत्रप्त । अत्रपिष्यत, अत्रप्स्यत ॥

॥ इत्यात्मनेपदिनः ॥

श्रिञ् सेवायाम् ॥१॥ श्रयति, श्रयते । शिश्राय, शिश्रिये । श्रयितासि, श्रयितासे । श्रयिष्यति, श्रयिष्यते । श्रयतु, श्रयताम् । अश्रयत्, अश्रयत । श्रयेत्, श्रयेत । श्रीयात्, श्रयिषीष्ट । चङ् । अशिश्रियत्, अशिश्रियत । अश्रयिष्यत्, अश्रयिष्यत । भृञ् भरणे ॥२॥ भरति, भरते । बभार । बभ्रतुः । बभ्रुः । बभर्थ । बभृव । बभृम । बभ्रे । बभृषे । भर्तासि, भर्तासे । भरिष्यति, भरिष्यते । भरतु, भरताम् । अभरत्, अभरत । भरेत्, भरेत ॥

रिङ् शयग्लिङ्क्षु ।७।४।२८।
शे यकि यादावार्धधातुके लिङि ऋतो रिङ् आदोशः स्यात् । रीङि प्रकृते रिङ्विधानसामर्थ्याद्दीर्घो न । भ्रियात् ॥

उश्च ।१।२।१२।
ऋवर्णात्परौ झलादी लिङ्सिचौ कितौ स्तस्तङि । भृषीष्ट । भृषीयास्ताम् । अभार्षीत् ॥

ह्रस्वादङ्गात् ।८।२।२७।
सिचो लोपो झलि । अभृत । अभृषाताम् । अभरिष्यत्, अभरिष्यत । हृञ् हरणे ॥३॥ हरति, हरते । जहार । जहर्थ। जह्रिव । जह्रिम । जह्रे । जह्रिषे । हर्तासि, हर्तासे । हरिष्यन्ति, हरिष्यते । हरतु, हरताम् । अहरत्, अहरत। हरेत्, हरेत । ह्रियात्, हृषीष्ट । हृषीयास्ताम् । अहार्षीत्, अहृत । अहरिष्यत्, अहरिष्यत । धृञ् धारणे ॥४॥ धरति, धरते । णीञ् प्रापणे ॥५॥ नयति, नयते । डुपचष् पाके ॥६॥ पचति, पचते । पपाच । पेचिथ, पपक्थ। पेचे । पक्तासि, पक्तासे । भज सेवायाम् ॥७॥ भजति, भजते । बभाज, भेजे । भक्तासि, भक्तासे । भक्ष्यति, भक्ष्यते । अभाक्षीत्, अभक्त । अभक्षाताम् । यज देवपूजासंगतिकरणदानेषु ॥८॥ यजति, यजते ॥

लिट्यभ्यासस्योभयेषाम् ।६।१।१७।
वच्यादीनां ग्रह्यादीनां चाभ्यासस्य संप्रसारणं लिटि । इयाज ॥

वचिस्वपियजादीनां किति ।६।१।१५।
वचिस्वप्योर्यजादीनां च संप्रसारणं स्यत् किति । ईजतुः । ईजुः । इयजिथ, इयष्ठ । ईजे । यष्टा ॥

षढोः कः सि ।८।२।४१।
यक्ष्यति, यक्ष्यते । इज्यात्, यक्षीष्ट । अयाक्षीत्, अयष्ट । वह प्रापणे ॥९॥ वहति, वहते । उवाह । ऊहतुः । ऊहुः । उवाहिथ ॥

झषस्तथोर्धोऽधः ।८।२।४०।
झषः परयोस्तथोर्धः स्यान्न तु दधातेः ॥

ढो ढे लोपः ।८।३।१३।
सहिवहोरोदवर्णस्य ।६।३।११२।
अनयोरवर्णस्य ओत्स्याड्ढलोपे । उवोढ । ऊहे । वोढा । वक्ष्यति । अवाक्षीत् । अवोढाम् । अवाक्षुः । अवाक्षीः । अवोढम् । अवोढ । अवाक्षम् । अवाक्ष्व । अवाक्ष्म । अवोढ । अवक्षाताम् । अवक्षत । अवोढाः । अवक्षाथाम् । अवोढ्वम् । अवक्षि । अवक्ष्वहि । अवक्ष्महि ॥

॥ इति भ्वादयः॥

                                अथादादयः


अद भक्षणे ॥१।॥
अदिप्रभृतिभ्यः शपः ।२।४।७२।
लुक् स्यात् । अत्ति । अत्तः । अदन्ति । अत्सि । अत्थः । अत्थ । अद्मि । अद्वः । अद्मः ॥

लिट्यन्यतरस्याम् ।२।४।४०।
अदो घस्लृ वा स्याल्लिटि । जघास । उपधालोपः ॥

शासिवसिघसीनां च ।८।३।६०।
इण्कुभ्यां परस्यैषां सस्य षः स्यात् । घस्य चर्त्वम् । जक्षतुः । जक्षुः । जघसिथ । जक्षथुः । जक्ष । जघास, जघस । जक्षिव । जक्षिम । आद । आदतुः । आदुः ॥

इडत्त्यर्तिव्ययतीनाम् ।७।२।६६।
अद् ऋ व्येञ् एभ्यस्थलो नित्यमिट् स्यात् । आदिथ । अत्ता । अत्स्यति । अत्तु । अत्तात् । अत्ताम् । अदन्तु ॥

हुझलभ्यो हेर्धिः ।६।४।१०१।
होर्झलन्तेभ्यश्च हेर्धिः स्यात् । अद्धि । अत्तात् । अत्तम् । अत्त । अदानि । अदाव । अदाम ॥

अदः सर्वेषाम् ।७।३।१००।
अदः परस्यापृक्तसार्वधातुकस्य अट् स्यात्सर्वमतेन । आदत् । आत्ताम् । आदन् । आदः । आत्तम् । आत्त । आदम् । आद्व । आद्म । अद्यात् । अद्याताम् । अद्युः । अद्यात् । अद्यास्ताम् । अद्यासुः ॥

लुङ्सनोर्घस्लृ ।२।४।३७।
अदो घस्लृ स्याल्लुङि सनि च । लृदित्त्वादङ् । अघसत् । आत्स्यत् । हन हिंसागत्योः ॥२॥ हन्ति ॥

अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति ।६।४।३७।
अनुनासिकान्तानामेषां वनतेश्च लोपः स्याज्झलादौ किति ङिति परे । यमिरमिनमिगमिहनिमन्यतयोऽनुदात्तोपदेशाः । तनु क्षणु क्षिणु ऋणु तृणु घृणु वनु मनु तनोत्यादयः । हतः । ध्नन्ति । हंसि । हथः । हथ । हन्मि । हन्वः । हन्मः । जघान । जघ्नतुः । जघ्नुः ॥

अभ्यासाच्च ।७।३।५५।
अभ्यासात्परस्य हन्तेर्हस्य कुत्वम् स्यात् । जघनिथ, जघन्थ। जघ्नथुः । जघ्न । जघान, जघन । जघ्निव । जघ्निम । हन्ता । हनिष्यति । हन्तु । हतात् । हताम् । घ्नन्तु ॥

हन्तेर्जः ।६।४।३६।
हौ परे ॥

असिद्धवदत्राभात् ।६।४।२२।
इत ऊर्ध्वमापादसमाप्तेराभीयम्, समानाश्रये तस्मिन्कर्तव्ये तदसिद्धम् । इति जस्यासिद्धत्वान्न हेर्लुक् । जहि, हतात्। हतम् । हत । हनानि । हनाव । हनाम । अहन् । अहताम् । अध्नन् । अहन् । अहतम् । अहत । अहनम् । अहन्व । अहन्म । हन्यात् । हन्याताम् । हन्युः ॥

आर्धधातुके ।२।४।३५।
इत्यधिकृत्य ॥

हनो वध लिङि ।२।४।४२।
लुङि च ।२।४।४३
वधादेशोऽदन्तः । आर्धधातुके इति विषयसप्तमी, तेन आर्धधातुकोपदेशे आकारान्तत्वादतो लोपः वध्यात् । वध्यास्ताम् । आदेशस्यानेकाच्त्वादेकाच इतीण्निषेधाभावादिट् । ‘अतो हलादेः’ इति बृद्धौ प्राप्तायाम् –

अचः परस्मिन् पूर्वविधौ ।१।१।५७।
परनिमित्तोऽजादेशः स्थानिवत्, स्थानिभूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये । इत्यल्लोपस्य स्थानिवत्त्वान्न वृद्धिः । अवधीत् । अहनिष्यत् । यु मिश्रणामिश्रणयोः ॥३॥

उतो वृद्धिर्लुकि हलि ।७।३।८९।
लुग्विषये उतो वृद्धिः पिति हलादौ सार्वधातुके न त्वभ्यस्तस्य । यौति । युतः । युवन्ति । यौषि । युथः । युथ । यौमि । युवः । युसः । युयाव । यविता । यविष्यति । यौतु, युतात् । अयौत् । अयुताम् । अयुवन् । युयात । इह उतो वृद्धिर्न, भाष्ये - ‘पिच्च ङिन्न ङिच्च पिन्ने’ इति व्याख्यानात् । युयाताम् । युयुः । यूयात् । यूयास्ताम् । यूयासुः । अयावीत् । अयविष्यत् । या प्रापणे ॥४॥ याति । यातः । यान्ति । ययौ । याता । यास्यति । यातु । अयात् । अयाताम् ॥

लङः शाकटायनस्यैव ।३।४।१११।
आदन्तात्परस्य लङो झेर्जुस् वा स्यात् । अयुः । अयान् । यायात् । यायाताम् । यायुः । यायात् । यायास्ताम् । यायासुः । अयासीत् । अयास्यत् । वा गतिगन्धनयोः ॥५॥  भा दीप्तौ ॥६॥ ष्णा शौचे ॥७॥ श्रा पाके ॥८॥ द्रा कुत्सायां गतौ ॥९॥ प्सा भक्षणे ॥१०॥ रा दाने ॥११॥ ला आदाने ॥१२॥ दाप् लवने ॥१३॥ पा रक्षणे ॥१४॥ ख्या प्रकथने ॥१५॥ अयं सार्वधातुक एव प्रयोक्तव्यः । विद ज्ञाने ॥१६॥

विदो लटो वा ।३।४।८३।
वेत्तेर्लटः परस्मैपदानां णलादयो वा स्युः । वेद । विदतुः । विदुः । वेत्थ । विदथुः । विद । वेद । विद्व । विद्म । पक्षे – वेत्ति । वित्तः । विदन्ति ॥

उषविदजागृभ्योऽन्यतरस्याम् ।३।१।३८।
एभ्यो लिटि आम्वा स्यात् । विदेरदन्तत्वप्रतिज्ञानादामि न गुणः । विदाञ्चकार, विवेद । वेदिता । वेदिष्यति ॥

विदाङ्कुर्वन्त्वित्यन्यतरस्याम् ।३।१।४१।
वेत्तेर्लोटि आम् गुणाभावो लोटो लुक् लोडन्तकरोत्यनुप्रयोगश्च वा निपात्यते पुरुषवचने न विवक्षिते ॥

तनादिकृञ्भ्य उः ।३।१।७९।
तनादेः कञश्च उः प्रत्ययः स्यात् । शपोऽपवादः । गुणौ । विदाङ्करोतु ॥

अत उत्सार्वधातुके ।६।४।११०।
उप्रत्ययान्तस्य कृञोऽत उत्सार्वधातुके क्ङिति । विदाङ्कुरुतात् । विदाङ्कुरुताम् । विदाङ्कुर्वन्तु । विदाङ्कुरु । विदाङ्करवाणि । अवेत् । अवित्ताम् । अविदुः ॥

दश्च ।८।२।७५।
धातोर्दस्य पदान्तस्य सिपि रुर्वा । अवेः, अवेत् । विद्यात् । विद्यास्ताम् । विद्युः । विद्यात् । विद्यास्ताम् । अवेदीत्। अवेदिष्यत् । अस् भुवि ॥१७॥ अस्ति ॥

श्नसोरल्लोपः ।६।४।१११।
स्नस्यास्तेश्चातो लोपः सार्वधातुके क्ङिति । स्तः । सन्ति । असि । स्थः । स्थ । अस्मि । स्वः । स्मः ॥

उपसर्गप्रादुर्भ्यामस्तिर्यच्परः । ८।३।८७।
उपसर्गेणः प्रादुसश्चास्तेः सस्य षो यकारेऽचि च परे । निष्यात् । प्रनिषन्ति । प्रादुःषन्ति । यच्परः किम् ? अभिस्तः॥

अस्तेर्भूः ।२।४।५२।
आर्धधातुके । बभूव । भविता । भविष्यति । अस्तु, स्तात् । स्ताम् । सन्तु ॥

घ्वसोरेद्धावभ्यासलोपश्च ।६।४।११९।
घोरस्तेश्चै एत्वं स्याद्धौ परे अभ्यासलोपश्च । एत्त्वस्यासिद्धत्वाद्धेर्धिः । श्नसोरित्यल्लोपः । तातङ्पक्षे एत्त्वं न, परेण तातङा बाधात् । एधि, स्तात् । स्तम् । स्त । असानि । असाव । असाम । आसीत् । आस्ताम् । आसन् । स्यात् । स्याताम् । स्युः । भूयात् । अभूत् । अभविष्यत् । इण् गतौ ॥१८॥ एति । इतः ॥

इणो यण् ।६।४।८१।
अजादौ प्रत्यये परे । यन्ति ॥

अभ्यासस्यासवर्णे ।६।४।७८।
अवभ्यासस्य इवर्णोवर्णयोरियङुवङौ स्तोऽसवर्णेऽचि । इयाय ॥

दीर्घ इणः किति ।७।४।६९।
इणोऽभ्यासस्य दीर्घः स्यात् किति लिटि । ईयतुः । ईयुः । इययिथ, इयेथ । एता । एष्यति । एतु । एत् । ऐताम् । आयन् । इयात् ॥

एतेर्लिङि ।७।४।२४।
उपसर्गात्परस्य इणोऽणो ह्रस्व आर्धधातुके किति लिङि । निरियात् । उभयत् आश्रयणे नान्तादिवत् । अभियात् । अणः किम् ? समेयात् ॥

इणो गा लुङि ।२।४।४५।
गातिस्थेति सिचो लुक् । अगात् । ऐष्यत् । शीङ् स्वप्ने ॥१९॥

शीङः सार्वधातुके गुणः ।७।४।२१।
क्क्ङिति चेत्यस्यापवादः । शेते । शयाते ॥

शीङो रुट् ।७।१।६।
शीङः परस्य झादेशस्यातो रुडागमः स्यात् । शेरते । शेषे । शयाथे । शेध्वे । शये । शेवहे । शेमहे । शिश्ये । शिश्याते । शिश्यिरे । शयिता । शयिष्यते । शेताम् । शयाताम् । अशेत् । अशयाताम् । अशेरत । शयीत । शयीयाताम् । शयीरेन् । शयिषीष्ट । अशयिष्ट । अशयिष्यत । इङ् अध्ययने ॥२०॥ इङिकावध्युपसर्गतो न व्यभिचरतः । अधीते । अधीयाते । अधीयते ॥

गाङ् लिटि ।२।४।४९।
इङो गाङ् स्याल्लिटि । अधिजगे । अधिजगाते । अधिजगिरे । अध्येता । अध्येष्यते । अधीताम् । अधीयाताम् । अधीयताम् । अधीष्व । अधीयाथाम् । अधीध्वम् । अध्ययै । अध्ययावहै । अध्ययामहै । अध्यैत । अध्यैयाताम् । अध्यैयत । अध्यैथाः । अध्यैयाथाम् । अध्यैध्वम् । अध्यैयि । अध्यैवहि । अध्यैमहि । अधीयीत । अधीयीयाताम् । अधीयीरन् । अध्येषीष्ट ॥

विभाषा लुङ्लृङोः ।२।४।५०।
इङो गाङ् वा स्यात् ॥

गाङ्कुटादिभ्योऽञ्णिन्ङित् ।१।२।१।
गाङादेशात्कुटादिभ्यश्च परेऽञ्णितः प्रत्यया ङितः स्युः ॥

घुमास्थागापाजहातिसां हलि ।६।४।६६।
एषामात ईत्स्याद्धलादौ क्ङित्यार्धधातुके । अध्यगीष्ट, अध्यैष्ट । अध्यगीष्यत, अध्यैष्यत । दुह प्रपूरणे ॥२१॥ दोग्धि । दुग्धः । दुहन्ति । धोक्षि । दुग्धे । दुहाते । दुहते । धुक्षे । दुहाथे । धुग्ध्वे । दुहे । दुह्वहे । दुह्महे । दुदोह, दुदुहे । दोग्धासि, दोग्धासे । धोक्ष्यति, धोक्ष्यते । दोग्धु, दुग्धात् । दुग्धाम् । दुहन्तु । दुग्धि, दुग्धात् । दुग्धम् । दुग्ध। दोहानि । दोहाव । दोहाम । दुग्धाम् । दुहाताम् । दुहताम् । धुक्ष्व । दुहाथाम् । धुग्ध्वम् । दोहै । दोहावहै । दोहामहै । अधोक् । अदुग्धाम् । अदुहन् । अदोहम् । अदुग्ध । अदुहाताम् । अदुहत । अधुग्ध्वम् । दुह्यात्, दुहीत ॥

लिङ्सिचावात्मनेपदेषु ।१।२।११।
इक्समीपाद्धलः परौ झलादी लिङ्सचौ कितौ स्तस्तङि । धुक्षीष्ट ॥

शल इगुपधादनिटः क्सः ।३।१।४५।
इगुपधो यः शलन्तस्तस्मादनिटश्च्लेः क्सादेशः स्यात् । अधुक्षत् ॥

लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये ।७।३।७३।
एषां क्सस्य लुग्वा स्याद्दन्त्ये तङि । अदुग्ध, अधुक्षत ॥

क्सस्याचि ।७।३।७२।
अजादौ तङि क्सस्य लोपः । अधुक्षाताम् । अधुक्षन्त । अदुग्धाः, अधुक्षथाः । अधुक्षाथाम् । अधुग्ध्वम्, अधुक्षध्वम् । अधुक्षि । अदुह्वहि, अधुक्षावहि । अधुक्षामहि । अधोक्ष्यत । एवं दिह उपचये ॥२२॥ लिह आस्वादने ॥२३॥ लेढि। लीढः । लिहन्ति । लेक्षि । लीढे । लिहाते । लिहते । लिक्षे । लिहाथे । लीढ्वे । लिलेह, लिलिहे । लेढासि, लेढासे । लेक्ष्यति, लेक्ष्यते । लेढु । लीढाम् । लिहन्तु । लीढि । लेहानि । लीढाम् । अलेट्, अलेड् । अलिक्षत्, अलीढ, अलिक्षत् । अलेक्ष्यत्, अलेक्ष्यत । ब्रूञ् व्यक्तायां वाचि ॥२४॥

ब्रुवः पञ्चानामादित आहो ब्रुवः ।३।४।८४।
ब्रुवो लटस्तिबादीनां पञ्चानां णलादयः पञ्च वा स्युर्ब्रुवश्चाहादेशः । आह । आहतुः । आहुः ॥

आहस्थः ।८।२।३५।
झलि परे । चर्त्वम् । आत्थ । आहथुः ॥

ब्रुव ईट् ।७।३।९३।
ब्रुवः परस्य हलादेः पित ईट् स्यात् । ब्रवीति । ब्रूतः । ब्रुवन्ति । ब्रूते। ब्रुवाते । ब्रवते ॥

ब्रुवो वचिः ।२।४।५३।
आर्धधातुके । उवाच । ऊचतुः । ऊचुः । उवचिथ, उवक्थ । ऊचे । वक्तासि, वक्तासे । वक्ष्यति, वक्ष्यते । ब्रवीतु, ब्रूतात् । ब्रुवन्तु । ब्रूहि । ब्रवाणि । ब्रूताम् । ब्रवै । अब्रवीत्, अब्रूत । ब्रूयात्, ब्रुवीत । उच्यात्, वक्षीष्ट ॥

अस्यतिवक्तिख्यातिभ्योऽङ् ।३।१।५२।
एभ्यश्च्लेरङ् स्यात् ॥

वच उम् ।७।४।२०।
अङि परे । अवोचत्, अवोचत । अवक्ष्यत्, अवक्ष्यत । (ग.सू.) चर्करीतं च । चर्करीतमिति यङ्लुगन्तस्य संज्ञा, तददादौ बोध्यम् । ऊर्णुञ् आच्छादने ॥२५॥

ऊर्णोतेर्विभाषा ।७।३।९०।
वा वृद्धिः स्याद्धलादौ पिति सार्वधातुके । ऊर्णौति, ऊर्णोति । ऊर्णुतः । ऊर्णुवन्ति । ऊर्णुते । ऊर्णुवाते । ऊर्णुवते ।
(ऊर्णोतेराम्नेति वाच्यम्) ॥

न न्द्राः संयोगादयः ।६।१।३।
अचः पराः संयोगादयो नदरा द्विर्न भवन्ति । नुशब्दस्य द्वित्वम् । ऊर्णुनाव । ऊर्णुनुवतुः । ऊर्णुनुवुः ॥

विभाषोर्णोः ।१।२।३।
इडादिप्रत्ययो वा ङित्स्यात् । ऊर्णुनुविथ, ऊर्णुनविथ । ऊर्णुविता, ऊर्णविता । ऊर्णुविष्यति, ऊर्णविष्यति । ऊर्णौतु, ऊर्णोतु । ऊर्णवानि। ऊर्णवै ॥

गुणोऽपृक्ते ।७।३।९१।
ऊर्णोतेर्गुणोऽपृक्ते हलादौ पिति सार्वधातुके । वृद्ध्यपवादः । और्णोत् । और्णोः । ऊर्णुयात् । ऊर्णुयाः । ऊर्णुवीत । ऊर्णूयात् । ऊर्णुविषीष्ट, ऊर्णविषीष्ट ॥

ऊर्णोतेर्विभाषा ।७।२।६।
इडादौ सिचि वा वृद्धिः परस्मैपदे परे । पक्षे गुणः । और्णावीत्, और्णुवीत्, और्णुवीत् । और्णाविष्टाम्, और्णुविष्टाम् । और्णविष्टाम् । और्णुविष्ट, और्णविष्ट । और्णुविष्यत्, और्णविष्यत । और्णुविष्यत्, और्णविष्यत् ॥

॥ इत्यदादयः ॥

 

                             अथ जुहोत्यादयः


हु दानादनयोः ॥ १ ॥
जुहोत्यादिभ्यः श्लुः ।२।४।७५।
शपः श्लुः स्यात् ॥

श्लौ ।६।१।१०।
धातोर्द्वे स्तः । जुहोति । जुहुतः ॥

अदभ्यस्तात् ।७।१।४।
झस्यात्स्यात् । हुश्नुवोरिति यण् । जुह्वति ॥

भीह्रीभृहुवां श्लुवच्च ।३।१।३९।
एभ्यो लिटि आम् वा स्यादामि श्लाविव कार्यं च । जुहवाञ्चकार, जुहाव । होता । होष्यति । जुहोतु, जुहुतात् । जुहुताम् । जुह्वतु । जुहुधि । जुहवानि । अजुहोत् । अजुहुताम् ॥

जुसि च ।७।३।८३।
इगन्ताङ्गस्य गुणोऽजादौ जुसि । अजुहवुः । जुहुयात् । हूयात् । अहौषीत् । अहोष्यत् । ञिभी भये ॥२॥ बिभेति ॥

भियोऽन्यतरस्याम् ।६।४।११५।
इकारो वा स्याद्धलादौ क्ङिति सार्वधातुके । बिभितः, बिभीतः । बिभ्यति ।  बिभयाञ्चकार, बिभाय । भेता । भेष्यति । बिभेतु, बिभितात् । अबिभेत् । बिभीयात् । भीयात् । अभैषीत् । अभेष्यत् । ह्री लज्जायाम् ॥३॥ जिह्रेति । जिह्रीतः । जिह्रियति । जिह्रयाञ्चकार, जिह्राय । ह्रेता । ह्रेष्यति । जिह्रेतु । अजिह्रेत् । जिह्रीयात् । ह्रीयात् । अह्रैषीत् । अह्रेष्यत् । पॄ पालनपूरणयोः ॥ ४॥

अर्तिपिपर्त्योश्च ।७।४।७७।
अभ्यासस्य इकारोऽन्तादेशः स्यात् श्लौ । पिपर्ति ॥

उदोष्ठ्यपूर्वस्य ।७।१।१०२।
अङ्गावयवौष्ठ्यपूर्वो य ऋत् तदन्तस्याङ्गस्य उत् स्यात् ॥

हलि च ।८।२।७७।
रेफवान्तस्य धातोरुपधाया इको दीर्घो हलि । पिपूर्तः । पिपुरति । पपार ॥

शॄदॄप्रां ह्रस्वो वा ।७।४।१२।
एषां लिटि ह्रस्वो वा स्यात् । पप्रतुः ॥

ऋच्छत्यॄताम् ।७।४।११।
तौदादिकऋच्छेर्ऋधातोर्ऋतां च गुणो लिटि । पपरतुः । पपरुः ॥

वॄतो वा ।७।२।३८।
वृङ्वृञ्भ्यामॄदन्ताच्चेटो दीर्घो वा स्यान्न तु लिटि । परीता, परिता । परीष्यति, परिष्यति । पिपर्तु । अपिपः । अपिपूर्ताम् । अपिपरुः । पिपूर्यात् । पूर्यात् । अपारीत् ॥

सिचि च परस्मैपदेषु ।७।२।४०।
अत्र इटो न दीर्घः । अपारिष्टाम् । अपरीष्यत् । अपरिष्यत् ॥ ओहाक् त्यागे ॥५॥ जहाति ॥

जहातेश्च ।६।४।११६।
इद्वा स्याद्धलादौ क्ङिति सार्वधातुके । जहितः ॥

ई हल्यघोः ।६।४।११३।
श्नाभ्यस्तयोरात ईत् सार्वधातुके क्ङिति हलादौ न तु घोः । जहीतः ॥

श्नाभ्यस्तयोरातः ।६।४।११२।
अनयोरातो लोपः क्ङिति सार्वधातुके । जहति । जहौ । हाता । हास्यति । जहातु, जहितात्, जहीतात् ॥

आ च हौ ।६।४।११७।
जहातेर्हौ परे आ स्याच्चादिदीतौ । जहादि, जहिहि, जहीहि । अजहात् । अजहुः ॥

लोपो यि ।६।४।११८।
जहातेरालोपो यादौ सार्वधातुके । जह्यात् । एर्लिङि । हेयात् । अहासीत् । अहास्यत् । माङ् माने शब्दे च ॥ ६॥

भृञामित् ।७।४।७६।
भृञ् माङ् ओहाङ् एषां त्रयाणामभ्यासस्य इत्स्यात् श्लौ । मिमीते । मिमाते । मिमते । ममे । माता । मास्यते । मिमीताम् । अमिमीत । मिमीत । मासीष्ट । अमास्त । अमास्यत । ओहाङ् गतौ ॥ ७ ॥ जिहीते । जिहाते । जिहते। जहे । हाता । हास्यते । जिहीताम् । अजिहीत । जिहीत । हासीष्ट । अहास्त । अहास्यत । डुभृञ् धारणपोषणयोः। ॥ ८ ॥ बिभर्ति । बिभृतः । बिभ्रति । बिभृते । बिभ्राते । बिभ्रते । बिभराञ्चकार, बभार । बभर्थ । बभृव । बिभराञ्चक्रे, बभ्रे । भर्तासि, भर्तासे । भरिष्यति, भरिष्यते । बिभर्तु । बिभराणि । बिभृताम् । अबिभः । अबिभृताम् । अबिभरुः । अबिभृत । बिभृयात्, बिभ्रीत । भ्रियात्, भृषीष्ट । अभार्षीत् । अभृत । अभरिष्यत्, अभरिष्यत । डुदाञ् दाने ॥ ९ ॥ ददाति । दत्तः । ददति । दत्ते । ददाते । ददते । ददौ, ददे । दातासि,  दातासे । दास्यति, दास्यते । ददातु ॥

दाधा घ्वदाप् ।१।१।२०।
दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप्दैपौ विना । ध्वसोरित्येत्त्वम् । देहि । दत्तम् । अददात्, अदत्त । दद्यात्, ददीत । देयात्, दासीष्ट । अदात् । अदाताम् । अदुः ॥

स्थाघ्वोरिच्च ।१।२।१७।
अनयोरिदन्तादेशः सिच्च कित्स्यादात्मनेपदे । अदित । अदास्यत्, अदास्यत । डुधाञ् धारणपोषणयोः ॥ १० ॥ दधाति ॥

दधस्तथोश्च ।८।२।३८।
द्विरुक्तस्य झषन्तस्य धाञो बशो भष् स्यात्तथोः स्घ्वोश्च परतः । धत्तः । दधति । दधासि । धत्थः । धत्थ । धत्ते । दधाते । दधते । धत्से । धद्ध्वे ।ध्वसोरेद्धावभ्यासलोपश्च । धेहि । अदधात्, अधत्त । दध्यात्, दधीत । धेयात् । धासीष्ट । अधात्, अधित । अधास्यत्, अधास्यत । णिजिर् शौचपोषणयोः ॥ ११ ॥ (इर इत्संज्ञा वाच्या) ॥

णिजां त्रयाणां गुणः श्लौ ।७।४।७५।
णिज्विज्विषामभ्यासस्य गुणः श्लौ । नेनेक्ति । नेनिक्तः । नेनिजति । नेनिक्ते । निनेज, निनिजे । नेक्ता । नेक्ष्यति, नेक्ष्यते । नेनेक्तु । नेनिग्धि ॥

नाभ्यस्तस्याचि पिति सार्वधातुके ।७।३।८७।
लघूपधगुणो न स्यात् । नेनिजानि । नेनिक्ताम् । अनेनेक् । अनेनिक्ताम् । अनेनिजुः । अनेनिजम् । अनेनिक्त । नेनिज्यात् । नेनिजीत । निज्यात्, निक्षीष्ट ॥

इरितो वा ।३।१।५७।
इरितो धातोश्च्लेरङ् वा परस्मैपदेषु । अनिजत्, अनैक्षीत्, अनिक्त । अनेक्ष्यत्, अनेक्ष्यत ॥

 
॥ इति जुहोत्यादयः ॥

                     

 अथ दिवादयः


दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु ॥१॥
दिवादिभ्यः श्यन् ।३।१।६९।
शपोऽपवादः । हलि चिति दीर्घः । दीव्यति । दिदेव । देविता । देविष्यति ।दीव्यतु । अदीव्यत् । दीव्येत् । दीव्यात्। अदेवीत् । अदेविष्यत् । एवं षिवु तन्तुसंताने ॥ २ ॥ नृती गात्रविक्षेपे ॥ ३ ॥ नृत्यति । ननर्त । नर्तिता ॥

सेऽसिचि कृतचृतच्छृदतृदनृतः ।७।२।५७।
एभ्यः परस्य सिज्भिन्नस्य सादेरार्धधातुकस्येड्वा । नर्तिष्यति, नर्त्स्यति । नृत्यतु । अनृत्यत् । नृत्येत् । नृत्यात् । अनर्तीत् । अनर्तिष्यत्, अनर्त्स्यत् । त्रसी उद्वेगे ॥ ४ ॥ वा भ्राशेति श्यन्वा । त्रस्यति, त्रसति । तत्रास ॥

वा जॄभ्रमुत्रसाम् ।६।४।१२४।
एषां किति लिटि सेटि थलि च एत्वाभ्यासलोपौ वा । त्रेसतुः । तत्रसतुः । त्रेसिथ, तत्रसिथ । त्रसिता । शो तनूकरणे ॥ ५ ॥

ओतः श्यनि ।७।३।७१।
लोपः स्यात् । श्यति । श्यतः । श्यन्ति । शशौ । शशतुः । शाता । शास्यति ॥

विभाषा घ्राधेट्शाच्छासः ।२।४।७८।
एभ्यः सिचो लुग्वा स्यात्परस्मैपदे परे । अशात् । अशाताम् । अशुः । इट्सकौ । आशासीत् । अशासिष्टाम् । छो छेदने ॥ ६ ॥ छ्यति । षोऽन्तकर्मणि ॥ ७ ॥ स्यति । ससौ । दोऽवखण्डने ॥ ८ ॥ द्यति । ददौ । देयात् । अदात् । व्यध ताडने ॥। ९ ॥

ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च ।६।१।१६।

एषां संप्रसारणं स्यात्किति ङिति च । विध्यति । विव्याध । विविधतुः । विविधुः । विव्यधिथ, विव्यद्ध । व्यद्धा । व्यत्स्यति । विध्येत् । विध्यात् । अव्यात्सीत् । पुष पुष्टौ ॥ १० ॥ पुष्यति । पुपोष । पुपोषिथ । पोष्टा । पोक्ष्यति । पुषादीत्यङ् । अपुषत् । शुष शोषणे ॥ ११ ॥ शुष्यति । शुशोष । अशुषत् । णश अदर्शने ॥ १२ ॥ नश्यति । ननाश। नेशतुः ॥

रधादिभ्यश्च ।७।२।४५।
रध् नश् तृप्, दृप्, द्रुह् मुह् ष्णुह् ष्णिह् एभ्यो वलाद्यार्धधातुकस्य वेट् स्यात् । नेशिथ ॥

मस्जिनशोर्झलि ।७।१।६०।
नुम् स्यात् । ननंष्ठ । नेशिव, नेश्व । नेशिम, नेश्म । नशिता, नंष्टा । नशिष्यति, नङ्क्ष्यति । नश्यतु । अनश्यत् । नश्येत् । नश्यात् । अनशत् । षूङ् प्राणिप्रसवे ॥ १३ ॥ सूयते । सुषुवे । क्रादिनियमादिट् । सुषुविषे । सुषुविवहे । सुषुविमहे । सविता, सोता । दूङ् परितापे ॥ १४ ॥ दूयते । दीङ् क्षये ॥ १५ ॥ दीयते ॥

दोङो युडचि क्ङिति ।६।४।६३।
दीङः परस्याजादेः क्ङित आर्धधातुकस्य युट् । (वुग्युटावुवङ्यणोः सिद्धौ वक्तव्यौ) । दिदीये ॥

मीनातिमिनोतिदीङां ल्यपि च ।६।१।५०।
एषामात्त्वं स्याल्ल्यपि चादशित्येज्निमित्ते । दाता । दास्यति । (स्थाध्वोरित्त्वे दीङ् प्रतिषेधः) । अदास्त । डीङ् विहायसा गतौ ॥ १६ ॥ डीयते । डिड्ये । डयिता । पीङ् पाने ॥ १७ ॥ पीयते । पेता । अपेष्ट । माङ् माने ॥ १८ ॥
मायते । ममे । जनी प्रादुर्भावे ॥ १९ ॥

ज्ञाजनोर्जा ।७।३।७९।
अनयोर्जादेशः स्याच्छिति । जायते । जज्ञे । जनिता । जनिष्यते ॥

दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् ।३।१।६१।
एभ्यश्च्लेश्चिण् वा स्यादेकवचने तशब्दे परे ॥

चिणो लुक् ।६।४।१०४।
चिणः परस्य लुक् स्यात् ।

जनिवध्योश्च ।७।३।३५।
अनयोरुधय वृद्धिर्न स्याच्चिणि ञ्णिति कृति च । अजनि, अजनिष्ट । दीपी दीप्तौ ॥ २० ॥ दीप्यते । दिदीपे । अदीपि, अदीपिष्ट । पद गतौ ॥ २१ ॥ पद्यते । पेदे । पत्ता । पत्सीष्ट ॥

चिण् ते पदः ।३।१।६०।
पदश्च्लेश्चिण् स्यात्तशब्दे परे । अपादि । अपत्साताम् । अपत्सत । विद सत्तायाम् ॥ २२ ॥ विद्यते । वेत्ता । अवित्त। बुध अवगमने ॥ २३ ॥ बुध्यते । बोद्धा । भोत्स्यते । भुत्सीष्ट । अबोधि, अबुद्ध । अभुत्साताम् । युध संप्रहारे ॥२४॥ युध्यते । युयुधे । योद्धा । अयुद्ध । सृज विसर्गे ॥ २५ ॥ सृज्यते । ससृजे । ससृजिषे ॥

सृजिदृशोर्झल्यमकिति ।६।१।५८।
अनयोरमागमः स्याज्झलादावकिति । स्रष्टा । स्रक्ष्यति । सृक्षीष्ट । असृष्ट । असृक्षाताम् । मृष तितिक्षायाम् ॥२६॥ मृष्यति, मृष्यते । ममर्ष । ममर्षिथ । ममृषिषे । मर्षितासि । मर्षितासे । मर्षिष्यति, मर्षिष्यते । णह बन्धने ॥२७॥ नह्यति, नह्यते । ननाह । नेहिथ, ननद्ध । नेहे । नद्धा । नत्स्यति । अनात्सीत्, अनद्ध ॥

॥ इति दिवादयः ॥

                        

अथ स्वादयः


षुञ् अभिषवे ॥ १ ॥
स्वादिभ्यः श्नुः ।३।१।७३।
शपोऽपवादः । सुनोति । सुनुतः । हुश्नुवोरिति यण् । सुन्वन्ति । सुन्वः, सुनुवः । सुनुते । सुन्वाते । सुन्वते । सुन्वहे,सुनुवहे । सुषाव, सुषुवे । सोता । सुनु । सुनवानि । सुनवै । सुनुयात् । सूयात् ॥

स्तुसुधूञ्भ्यः परस्मैपदेषु ।७।२।७२।
एभ्यस्सिच इट् स्यात्परस्मैपदेषु । असावीत्, असोष्ट । चिञ् चयने ॥ २ ॥ चिनोति, चिनुते ॥

विभाषा चेः ।७।३।५८।
अभ्यासात्परस्य कुत्वं वा स्यात्सनि लिटि च । चिकाय, चिचाय, चिक्ये, चिच्ये । अचैषीत्, अचेष्ट । स्तृञ् आच्छादने ॥ ३ ॥ स्तृणोति, स्तृणुते ॥

शर्पूर्वाः खयः ।७।४।६१।
अभ्यासस्य शपूर्वाः खयः शिष्यन्तेऽन्ये हलो लुप्यन्ते । तस्तार । तस्तरतुः । तस्तरे । गुणोऽर्तीति गुणः । स्तर्यात् ॥

ऋतश्च संयोगादेः ।७।२।४३।
ऋदन्तात्संयोगादेः परयोर्लिङ्सिचोरिड्वा स्यात्तङि । स्तरिषीष्ट, स्तृषीष्ट । अस्तरिष्ट, अस्तृत । धूञ् कम्पने ॥४॥ धूनोति, धूनुते । दुधाव । स्वरतीति वेट् । दुधविथ, दुधोथ ॥

श्र्युकः किति ।७।२।११।
श्रिञ एकाच उगन्ताच्च गित्कितोरिण् न । परमपि स्वरत्यादिविकल्पं बाधित्वा पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यादनेन निषेधे प्राप्ते क्रादिनियमान्नित्यमिट् । दुधुविव । दुधुवे । अधावीत्, अधविष्ट, अधोष्ट । अधविष्यत्, अधोष्यत् । अधविष्यताम्, अधोष्यताम् । अधविष्यत, अधोष्यत ॥

॥ इति स्वादयः ॥

                   

अथ तुदादयः


तुद व्यथने ॥ १ ॥
तुदादिभ्यः शः ।३।१।७७।
शपोऽपवादः । तुदति, तुदते । तुतोद । तुतोदिथ । तुतुदे । तोत्ता । अतौत्सीत् । अतुत्त । णुद प्रेरणे ॥ २ ॥ नुदति, नुदते । नुनोद । नोत्ता । भ्रस्ज पाके ॥ ३ ॥ ग्रहिज्येति संप्रसारणम् । सस्य श्चुत्वेन शः । शस्य जश्त्वेन जः । भृज्जति, भृज्जते ॥

भ्रस्जो रोपधयो रमन्यतरस्याम् ।६।४।४७।
भ्रस्जो रेफस्योपधायाश्च स्थाने रमागमो वा स्यादार्धधातुके । मित्त्वादन्त्यादचः परः । स्थानषष्ठीनिर्देशाद्रोपधयोर्निवृत्तिः । बभर्ज । बभर्जतुः । बभर्जिथ, बभर्ष्ठ । बभ्रज्ज । बभ्रज्जतुः । बभ्रज्जिथ । स्कोरिति सलोपः । व्रश्चेति षः । बभ्रष्ठ । बभर्जे, बभ्रज्जे । भर्ष्टा, भ्रष्टा।  भर्क्ष्यति, भ्रक्ष्यति । क्ङिति रमागमं बाधित्वा संप्रसारणं पूर्वविप्रतिषेधेन । भृज्ज्यात् । भृज्ज्यास्ताम् । भृज्ज्यासुः । भर्क्षीष्ट, भ्रक्षीष्ट । अभार्क्षीत्, अभ्राक्षीत् । अभर्ष्ट । अभ्रष्ट । कृष विलेखने ॥ ४ ॥ कृषति, कृषते । चकर्ष, चकृषे ॥

अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् ।६।१।५९।
उपदेशेऽनुदात्तो य ऋदुपधस्तस्याम्वा स्याज्झलादावकिति । क्रष्टा, कर्ष्टा । कृक्षीष्ट । (स्पृशमृशकृषतृपट्टपां च्लेः सिज्वा वाच्यः) । अक्राक्षीत्, अकार्क्षीत्, अकृक्षत् । अकृष्ट । अकृक्षाताम् । अकृक्षत । क्सपक्षे- अकृक्षत । अकृक्षाताम् । अकृक्षन्त ॥ मिल संगमे ॥ ५ ॥ मिलति, मिलते । मिमेल । मेलिता । अमेलीत् । मुच्लृ मोचने ॥ ६ ॥

शे मुचादीनाम् ।७।१।५९।
मुच्लिप्विद्लुप्सिच्कृत्खिद्पिशां नुम् स्यात् शे परे । मुञ्चति, मुञ्चते । मोक्ता ।मुच्यात् । मुक्षीष्ट । अमुचत्, अमुक्त। अमुक्षाताम् । लुप्लृ छेदने ॥ ७ ॥  लुम्पति, लुम्पते । लोप्ता । अलुपत्, अलुप्त । विद्लृ लाभे ॥ ८ ॥ विन्दति, विन्दते । विवेद, विविदे । व्याघ्रभूतिमते सेट् ।  वेदिता । भाष्यमतेऽनिट् । परिवेत्ता । षिच क्षरणे ॥ ९ ॥ सिञ्चति, सिञ्चते ॥

लिपिसिचिह्वश्च ।३।१।५३।
एभ्यश्च्लेरङ् स्यात् । असिचत् ॥

आत्मनेपदेष्वन्यतरस्याम् ।३।१।५४।
लिपिसिचिह्वः परस्य च्लेरङ् वा । असिचत, असिक्त । लिप उपदेहे ॥ १० ॥ उपदेहो वृद्धिः । लिम्पति, लिम्पते । लेप्ता । अलिपत्, अलिपत, अलिप्त ॥

॥ इत्युभयपदिनः ॥

कृती छेदने ॥ ११ ॥ कृन्तति । चकर्त । कर्तिता । कर्तिष्यति, कर्त्स्यति । अकर्तीत् । खिद परिघाते ॥ १२ ॥ खिन्दति । चिखेद । खेत्ता । पिश अवयवे ॥ १३ ॥ पिंशति । पेशिता । ओव्रश्चू छेदने ॥ १४ ॥ वृश्चति । वव्रश्च । वव्रश्चिथ, वव्रष्ठ । व्रश्चिता, व्रष्टा । व्रश्चिष्यति, व्रक्ष्यति । वृश्च्यात् । अव्रश्चीत्, अव्राक्षीत् । व्यच व्याजीकरणे ॥१५॥ विचति । विव्याच । विविचतुः । व्यचिता । व्यचिष्यति । विच्यात् । अव्याचीत्, अव्यचीत् । व्यचेः कुटादित्वमनसीति तु नेह प्रवर्तते, अनसीति पर्युदासेन कृन्मात्रविषयत्वात् । उच्छि उञ्छे ॥ १६ ॥ उञ्छति । ‘उञ्छः कणश आदानं कणिशाद्यर्जनं शिलम् ।’

इति यादवः । ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु ॥ १७ ॥ ऋच्छति । ऋच्छत्यॄतामिति गुणः । द्विहल्ग्रहणस्यानेकहलुपलक्षणत्वान्नुट् । आनर्च्छ । आनर्च्छतुः । ऋच्छिता । उज्झ उत्सर्गे ॥ १८ ॥ उज्झति । लुभ विमोहने ॥ १९ ॥ लुभति ॥

तीषसहलुभरुषरिषः ।७।२।४८।
इच्छत्यादेः परस्य तादेरार्धधातुकस्येड्वा स्यात् । लोभिता, लोब्धा । लोभिष्यति । तृप तृम्फ तृप्तौ ॥ २०-२१ ॥ तृपति । ततर्प । तर्पिता । अतर्पीत् । तृम्फति । (शे तृम्फादीनां नुम् वाच्यः) । आदिशब्दः प्रकारे, तेन येऽत्र नकारानुषक्तास्ते तृम्फादयः । ततृम्फ । तृफ्यात् । मृड पृड सुखने ॥ २२-२३ ॥ मृडति । पृडति । शुन गतौ ॥२४॥ शुनति । इषु इच्छायाम् ॥ २५ ॥ इच्छति । एषिता, एष्टा । एषिष्यति । इष्यात् । ऐषीत् । कुट कौटिल्ये ॥ २६ ॥ गाङ्कुटादीति ङित्त्वम् । चुकुटिथ । चुकोट, चुकुट । कुटिता । पुट संश्लेषणे ॥ २७ ॥ पुटति । पुटिता । स्फुट विकसने ॥ २८ ॥ स्फुटति । स्फुटिता । स्फुर स्फुल संचलने ॥ २९-३०॥ स्फुरति । स्फुलति ॥

स्फुरतिस्फुलत्योर्निर्निविभ्यः ।८।३।७६।
षत्वं वा स्यात् । निःष्फुरति, निःस्फुरति । णू स्तवने ॥ ३१ ॥ परिणूतगुणोदयः । नुवति । नुनाव । नुविता । टुमस्जो शुद्धौ ॥ ३२ ॥ मज्जति । ममज्ज । ममज्जिथ । मस्जिनशोरिति नुम् । (मस्जेरन्त्यात्पूर्वो नुम्वाच्यः) । संयोगादिलोपः । ममङ्क्थ । मङ्क्ता । मङ्क्ष्यति । अमाङ्क्षित् । अमाङ्क्ताम् । अमाङ्क्षुः । रुजो भङ्गे ॥ ३३ ॥ रुजति । रोक्ता । रोक्ष्यति । अरौक्षीत् । भुजो कौटिल्ये ॥ ३४ ॥ रुजिवत् । विश प्रवेशने ॥ ३५ ॥ विशति । मृश आमर्शने ॥ ३६ ॥ आमर्शनं स्पर्शः । अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् । अम्राक्षीत्, अमार्क्षीत्, अमृक्षत् । षद्लृ विशरणगत्यवसादनेषु ॥ ३७ ॥ सीदतीत्यादि । शद्लृ शातने ॥ ३८ ॥

शदेः शितः ।१।३।६०।
शिद्भाविनोऽस्मात्तङानौ स्तः । शीयते । शीयताम् । अशीयत । शियेत । शशाद । शत्ता । शत्स्यति । अशदत् । अशत्स्यत् । कॄ विक्षेपे ॥ ३९ ॥

ॠत इद्धातोः ।७।१।१००।
ऋदन्तस्य धातोरङ्गस्य इत्स्यात् । किरति । चकार । चकरतुः । चकरुः । करिता । करीता, कीर्यात् ॥

किरतौ लवने ।६।१।१४०।
उपात्किरतेः सुट् छेदने । उपस्किरति । (अडभ्यासव्यवायेऽपि सुट् कात् पूर्व इति वक्तव्यम्) ।  उपास्किरत्। उपचस्कार ॥

हिंसायां प्रतेश्च ।६।१।१४१।
उपात्प्रतेश्च किरतेः सुट् स्यात् हिंसायाम् । उपस्किरति । प्रतिस्किरति । गॄ निगरणे ॥ ४० ॥

अचि विभाषा ।८।२।२१।
गिरते रेफस्य लोवाऽजादौ प्रत्यये । गिरति, गिलति । जगार, जगाल । जगरिथ, जगलिथ । गरीता, गरिता, गलीता, गलिता । प्रच्छ ज्ञीप्सायाम् ॥ ४१ ॥ ग्रहिज्येति संप्रसारणम् । पृच्छति । पप्रच्छ । पप्रच्छतुः । पप्रच्छुः । प्रष्टा । प्रक्ष्यति । अप्राक्षीत् । मृङ् प्राणत्यागे ॥ ४२ ॥

म्रियतेर्लुङ्लिङोश्च ।१।३।६१।
लुङ्लिङोः शितश्च प्रकृतिभूतान्मृङस्तङ् नान्यत्र । रिङ् । इयङ् । म्रियते । ममार । मर्ता । मरिष्यति । मृषीष्ट । अमृत । पृङ् व्यायामे ॥ ४३ ॥ प्रायेणायं व्याङ्पूर्वः । व्याप्रियते । व्यापप्रे । व्यापप्राते । व्यापरिष्यते । व्यापृत । व्यापृषाताम् । जुषी प्रीतिसेवनयोः ॥ ४४ ॥  जुषते । जुजुषे । ओविजी भयचलनयोः ॥ ४५ ॥ प्रायेणोत्पूर्वः । उद्विजते ॥

विज इट् ।१।२।२।
विजेः पर इडादिप्रत्ययो ङिद्वत् । उद्विजिता ॥

॥ इति तुदादयः ॥

                 

   अथ रुधादयः


रुधिर् आवरणे ॥ १ ॥
रुधादिभ्यः श्नम् ।३।१।७८।
शपोऽपवादः । रुणद्धि । श्नसोरल्लोपः । रुन्धः । रुन्धन्ति । रुणत्सि । रुन्धः । रुन्ध । रुणध्मि । रुन्ध्वः । रुन्ध्मः । रुन्धे । रुन्धाते । रुन्धते । रुन्त्से । रुन्धाथे । रुन्ध्वे । रुन्धे । रुन्ध्वहे । रुन्ध्महे । रुरोध, रुरुधे । रोद्धासि, रोद्धासे । रोत्स्यति, रोत्स्यते । रुणद्धु, रुन्धात् । रुन्धाम् । रुन्धन्तु । रुन्धि । रुणधानि । रुणधाव । रुणधाम । रुन्धाम् । रुन्धाताम् । रुन्धताम् । रुन्त्स्व । रुणधै । रुणधावहै । रुणधामहै । अरुणत्, अरुणद् । अरुन्धाम् । अरुन्धन् । अरुणः, अरुणत्, अरुणद् । अरुन्ध । अरुन्धाताम् । अरुन्धत । अरुन्धाः । रुन्ध्यात् । रुन्धीत । रुध्यात्, रुत्सीष्ट । अरुधत्, अरौत्सीत् । अरुद्ध । अरुत्साताम् । अरुत्सत । अरोत्स्यत्, अरोत्स्यत । भिदिर् विदारणे ॥ २ ॥ छिदिर् द्वैधीकरणे ॥ ३ ॥ युजिर् योगे ॥ ४ ॥ रिचिर् विरेचने ॥ ५ ॥ रिणक्त, रिङ्क्ते । रिरेच । रेक्ता । रेक्ष्यति । अरिणक्। अरिचत्, अरैक्षित्, अरिक्त । विचिर् पृथग्भावे ॥ ६ ॥ विनक्ति, विङ्क्ते । क्षुदिर् संपेषणे ॥ ७ ॥ क्षुणत्ति, क्षुन्ते । क्षोत्ता । अक्षुदत्, अक्षौत्सीत्, अक्षुत्त । उच्छृदिर् दीप्तिदेवनयोः ॥ ८ ॥ छृणत्ति, छृन्ते । चच्छर्द । सेऽसिचीति वेट् । चच्छृदिषे, चच्छृत्से । छर्दिता । छर्दिष्यति, छर्त्स्यति । अच्छृदत्, अच्छर्दीत्, अच्छर्दिष्ट । उतृदिर् हिंसानादरयोः । ॥९॥ तृणत्ति, तृन्ते । कृती वेष्टने ॥ १० ॥ कृणत्ति । तृह हिसि हिंसायाम् ॥ ११-१२ ॥

तृणह इम ।७।३।९२।
तृहः श्नमि कृते इमागमो हलादौ पिति सार्वधातुके । तृणेढि । तृण्ढः । ततर्ह । तर्हिता । अतृणेट् ॥

श्नान्नलोपः ।६।४।२३।
श्नमः परस्य नस्य लोपः स्यात् । हिनस्ति । जिहिंस । हिंसिता ॥

तिप्यनस्तेः ।८।२।७३।
पदान्तस्य सस्य दः स्यात्तिपि न त्वस्तेः । ससजुषोरुरित्यस्यापवादः । अहिनत्, अहिनद् । अहिंस्ताम् । अहिंसन् ॥

सिपि धातो रुर्वा ।८।२।७४।
पदान्तस्य धातोः सस्य रुः स्याद्वा, पक्षे दः । अहिनः, अहिनत्, अहिनद् । उन्दी क्लेदने ॥ १३ ॥ उनत्ति । उन्तः । उन्दन्ति । उन्दाञ्चकार । औनत् । औन्ताम् । औन्दन् । औनः, औनत्, औनद् । औनदम् । अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु ॥ १४ ॥ अनक्ति । अङ्क्तः । अञ्जन्ति । आनञ्ज । आनञ्जिथ, आनङ्क्थ । अञ्जिता, अङ्क्ता। अङ्ग्धि । अनजानि । आनक् ॥

अञ्जेः सिचि ।७।२।७१।
अञ्जेः सिचो नित्यमिट् स्यात् । आञ्जीत् । तञ्चू संकोचने ॥ १५ ॥ तनक्ति । तञ्चिता, तङ्क्ता । ओविजी भयचलनयोः ॥ १६ ॥ विनक्ति । विङ्क्तः । विज इडिति ङित्त्वम् । विविजिथ । विजिता । अविनक् । अविजीत् । शिष्लृ विशेषणे ॥ १७ ॥ शिनष्टि । शिंष्टः । शिंषन्ति । शिनक्षि । शिशेष । शिशेषिथ । शेष्टा । शेक्ष्यति । हेर्धिः । शिण्ड्ढि । शिनषाणि । अशिनट् । शिंष्यात् । शिष्यात् । अशिषत् । एवं पिष्लृ संचूर्णने ॥ १८ ॥ भञ्जो आमर्दने ॥१९ ॥ श्नान्नलोपः । भनक्ति । बभञ्जिथ, बभङ्क्थ । भङ्क्ता । भङ्ग्धि । अभाङ्क्षीत् ।  भृज पालनाभ्यवहारयोः ॥ २० ॥ भुनक्ति । भोक्ता । भोक्ष्यति । अभुनक् ॥

भुजोऽनवने ।१।३।६६।
तङानौ स्तः । ओदनं भुङ्क्ते । अनवने किम् ? महीं भुनक्ति । ञिइन्धी दीप्तौ ॥ २१ ॥ इन्द्धे । इन्धाते । इन्धते । इन्त्से । इन्धाञ्चक्रे । इन्धिता । इन्धाम् । इन्धाताम् । इनधै । ऐन्ध । ऐन्धाताम् । ऐन्धाः । विद विचारणे ॥ २२ ॥ विन्ते । वेत्ता ॥

॥ इति रुधादयः ॥

                  

    अथ तनादयः


तनु विस्तारे ॥ १ ॥
तनादिकृञ्भ्य उः ।३।१।७९।
शपोऽपवादः । तनोति, तनुते । ततान, तेने । तनितासि, तनितासे । तनिष्यति, तनिष्यते । तनोतु । तनुताम् । अतनोत्, अतनुत । तनुयात्, तन्वीत । तन्यात्, तनिषीष्ट । अतानीत्, अतनीत् ॥

तनादिभ्यस्तथासोः ।२।४।७९।
तनोदेः सिचो वा लुक् स्यात्तथासोः । अतत, अतनिष्ट । अतथाः, अतनिष्ठाः । अतनिष्यत्, अतनिष्यत ॥ षणु दाने ॥ २ ॥ सनोति, सनुते ॥

ये विभाषा ।६।४।४३।
जनसनखनामात्वं वा यादौ क्ङिति । सायात् । सन्यात् ॥

जनसनखनां सञ्झलोः ।६।४।४२।
एषामाकारोऽन्तादेशः स्यात् सनि झलादौ क्ङिति । असात, असनिष्ट । असाथाः, असनिष्ठाः । क्षणु हिंसायाम् ॥३॥ क्षणोति, क्षणुते । ह्यन्तेति न वृद्धिः । अक्षणीत्,  अक्षत, अक्षणिष्ट । अक्षथाः, अक्षणिष्ठाः । क्षिणु च ॥ ४ ॥ उप्रत्यये लधूपधस्य गुणो वा । क्षेणोति, क्षिणोति । क्षेणिता । अक्षेणीत् । अक्षित, अक्षेणिष्ट । तृणु अदने ॥ ५ ॥ तृणोति, तर्णोति, तृणुते, तर्णुते । डुकृञ् करणे ॥ ६ ॥ करोति ॥

अत उत्सार्वधातुके ।६।४।११०।
उप्रत्ययान्तस्य कृञोऽकारस्य उः स्यात् सार्वधातुके क्ङिति । कुरुतः ॥

न भकुर्छुराम् ।८।२।७९।
भस्य कुर्छुरोरुपधाया न दीर्घः । कुर्वन्ति ॥

नित्यं करोतेः ।६।४।१०८।
करोतेः प्रत्ययोकारस्य नित्यं लोपो म्वोः परयोः । कुर्वः । कुर्मः । कुरुते । चकार, चक्रे । कर्तासि, कर्तासे । करिष्यति, करिष्यते । करोतु । कुरुताम् । अकरोत् । अकुरुत ॥

ये च ।६।४। १०९।
कृञ उलोपो यादौ प्रत्यते परे । कुर्यात्, कुर्वीत । क्रियात्, कृषीष्ट । अकार्षीत्, अकृत । अकरिष्यत्, अकरिष्यत ॥

सम्परिभ्यां करोतौ भूषणे ।६।१।१३७।
समवाये च ।६।१।१३८।
सम्परिपूर्वस्य करोतेः सुट् स्याद् संघाते चार्थे । । संस्करोति । अलङ्करोतीत्यर्थः । संस्कुर्वन्ति । सङ्धीभवन्तीत्यर्थः । संपूर्वस्य क्वचिदभूषणेऽपि सुट् । संस्कृतं भक्षा इति ज्ञापकात् ॥

उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु च ।६।१।१३९।
उपात्कृञः सुट् स्यादेष्वर्थेषु चात्प्रागुक्तयोरर्थयोः । प्रतियत्नो गुणाधानम् । विकृतमेव वैकृतं विकारः । वाक्याध्याहार आकाङ्क्षितैकदेशपूरणम् । उपस्कृता कन्या । उपस्कृता ब्राह्मणाः । एधो दकस्योपस्कुरुते । उपस्कृतं भुङ्क्ते । उपस्कृतं ब्रूते । वनु याचने ॥ ७ ॥ वनुते । ववने । मनु अवबोधने ॥ ८ ॥ मनुते । मेने । मनिता । मनिष्यते । मनुताम् । अमनुत । मन्वीत । मनिषीष्ट । अमत, अमनिष्ट । अमनिष्यत ॥


॥ इति तनादयः ॥

                    

    अथ क्र्यादयः


डुक्रीञ् द्रव्यविनिमये ॥ १ ॥
क्र्यादिभ्यः श्ना ।३।१।८१।
शपोऽपवादः । क्रीणाति । ई हल्यघोः । क्रीणीतः । श्नाभ्यस्तयोरातः । क्रीणन्ति । क्रीणासि । क्रीणीथः । क्रीणीथ । क्रीणामि । क्रीणीवः । क्रीणीमः । क्रीणीते । क्रीणाते । क्रीणते । क्रीणीषे । क्रीणाथे । क्रीणीध्वे । क्रीणे । क्रीणीवहे । क्रीणीमहे । चिक्राय । चिक्रियतुः । चिक्रियुः । चिक्रयिथ, चिक्रेथ । चिक्रिय । चिक्रिये । क्रेता । क्रेष्यति, क्रेष्यते । क्रीणातु, क्रीणीतात् । क्रीणीताम् । अक्रीणात्, अक्रीणीत । क्रीणीयात्, क्रीणीत । क्रीयात्, क्रेषीष्ट । अक्रैषीत्, अक्रेष्ट। अक्रेष्यत्, अक्रेष्यत । प्रीञ् तर्पणे कान्तौ च ॥ २ ॥ प्रीणाति, प्रीणीते । श्रीञ् पाके ॥ ३ ॥ श्रीणाति, श्रीणीते। मीञ् हिंसायाम् ॥ ४ ॥

हिनुमीना ।८।४।१५।
उपसर्गस्थान्निमित्तात्परस्यैतयोर्नस्य णः स्यात् । प्रमीणाति, प्रमीणीते । मीनातीत्यात्वम् । ममौ । मिम्यतुः ।  ममिथ, ममाथ । मिम्ये । माता । मास्यति । मीयात्, मासीष्ट । अमासीत् । अमासिष्टाम् । अमास्त । षिञ् बन्धने । ॥ ५ ॥ सिनाति, सिनीते । सिषाय, सिष्ये । सेता । स्कुञ् आप्लवने ॥ ६ ॥

स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च ।३।१।८२।
चात् श्ना । स्कुनोति, स्कुनाति । स्कुनुते, स्कुनीते । चुस्काव, चुस्कुवे । स्कोता । अस्कौषीत्, अस्कोष्ट । स्तन्भ्वादयश्चत्वारः सौत्राः । सर्वे रोधनार्थाः परस्मैपदिनः ॥

हलः श्नः शानज्झौ ।३।१।८३।
हलः परस्य श्नः शानजादेशः स्याद्धौ परे । स्तभान ॥

जॄस्तन्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च ।३।१।५८।
च्लेरङ् वा स्यात् ॥

स्तन्भेः ।८।३।६७।
स्तन्भेः सौत्रस्य सस्य षः स्यात् । व्यष्टभत् । अस्तम्भीत् । युञ् बन्धने ॥ ७ ॥ युनाति, युनीते । योता । क्नूञ् शब्दे॥८॥ क्नूनाति, क्नूनीते । क्नविता । द्रूञ् हिंसायाम् ॥ ९ ॥ द्रूणाति, द्रूणीते । दॄ विदारणे ॥ १० ॥ दृणाति, दृणीते। पूञ् पवने ॥ ११ ॥

प्वादीनां ह्रस्वः ।७।३।८०।
पूञ्लूञ्स्तॄञ्कॄञ्वॄञ्धूञ्शॄपॄवॄभॄमॄदॄजॄझॄधॄनॄकॄॠगॄज्यारीलीव्लीप्लीनां चतुर्विंशतेः शिति ह्रस्वः । पुनात, पुनीते । पविता । लूञ् छेदने ॥ १२ ॥ लुनाति, लुनीते । स्तॄञ् आच्छादने ॥ १३ ॥ स्तृणाति । शर्पूर्वाः खयः । तस्तार । तस्तरतुः । तस्तरे । स्तरीता, स्तरिता । स्तृणीयात्, स्तृणीत । स्तीर्यात् ॥

लिङ्सिचोरात्मनेपदेषु ।७।२।४२।
वृङ्वृञ्भ्यामॄदन्ताच्च परयोर्लिङ्सिचोरिड् वा स्यात् तङि ॥

न लिङि ।७।२।३९।
वॄत इटो लिङि न दीर्घः । स्तरिषीष्ट । उश्चेति कित्त्वम् । स्तीर्षीष्ट । सिचि च परस्मैपदेषु । अस्तारीत् । अस्तारिष्टाम् । अस्तारिषुः । अस्तरीष्ट, अस्तरिष्ट, अस्तीर्ष्ट । कृञ् हिंसायाम् ॥ १४ ॥ कृणाति, कृणीते । चकार, चकरे । वॄञ् वरणे ॥ १५ ॥ वृणाति, वृणीते । ववार, ववरे । वरिता, वरीता । उदोष्ठ्येत्युत्वम् । वूर्यात् । वरिषीष्ट, वूर्षीष्ट । अवारीत् । अवारिष्टाम् । अवरिष्ट, अवरीष्ट, अवूर्ष्ट । धूञ् कम्पने ॥ १६ ॥ धुनाति, धुनीते । धविता, धोता । अधावीत् । अधविष्ट, अधोष्ट । ग्रह उपादाने ॥।१७ ॥ गृह्णाति, गृह्णीते । जग्राह, जगृहे ॥

ग्रहोऽलिटि दीर्घः ।७।२।३७।
एकाचो ग्रहेर्विहितस्येटो दीर्घो न तु लिटि । ग्रहीता ।  गृह्णातु । हलः श्नः शानज्झाविति श्नः शानजादेशः । गृहाण । गृह्यात् । ग्रहीषीष्ट । ह्यन्तेति न वृद्धिः । अग्रहीत् । अग्रहीष्टाम् । अग्रहीष्ट । अग्रहीषाताम् । कुष निष्कर्षे ॥ १८ ॥ कुष्णाति । कोषिता । अश भोजने ॥ १९ ॥ अश्नाति । आश । अशिता । अशिष्यति । अश्नातु । अशान । मुष स्तेये ॥ २० ॥ मोषिता । मुषाण । ज्ञा अवबोधने ॥ २१ ॥ जज्ञौ । वृङ् संभक्तौ ॥ २२ ॥ वृणीते । ववृषे । ववृढ्वे । वरिता, वरीता । अवरीष्ट, अवरिष्ट, अवृत ॥

॥ इति क्र्यादयः ॥

            

 अथ चुरादयः


चुर स्तेये ॥ १ ॥
सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् ।३।१।२५।
एभ्यो णिच् स्यात् । चूर्णान्तेभ्यः ‘प्रातिपदिकाद्धात्वर्थे’ इत्येव सिद्धे तेषामिह ग्रहणं प्रपञ्चार्थम् । चुरादिभ्यस्तु स्वार्थे । पुगन्तेति गुणः । सनाद्यन्ता इति धातुत्वम् । तिप्शबादि । गुणायादेशौ । चोरयति ॥

णिचश्च ।१।३।७४।
णिजन्तादात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले । चोरयते । चोरयामास । चोरयिता । चोर्यात्, चोरयिषीष्ट । णिश्रीति चङ् । णौ चङीति ह्रस्वः । चङीति द्वित्वम् । हलादिः शेषः । दीर्घो लघोरित्यभ्यासस्य दीर्घः । अचूचुरत्, अचूचुरत । कथ वाक्यप्रबन्धे ॥ २ ॥ अल्लोपः ॥

अचः परस्मिन्पूर्वविधौ ।१।१।५७।
अल्विध्यर्थमिदम् । परनिमित्तोऽजादेशः स्थानिवत् स्यात्स्थानिभूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये । इति स्थानिवत्त्वान्नोपधावृद्धिः । कथयति । अग्लोपित्वाद्दीर्घसन्वद्भावौ न । अचकथत् । गण संख्याने ॥ ३ ॥ गणयति॥

ई च गणः ।७।४।९७।
गणयतेरभ्यासस्य ई स्याच्चाङ्परे णौ चादत् । अजीगणत् । अजगणत् ॥

॥ इति चुरादयः ॥

                           

 अथ ण्यन्तप्रक्रिया


स्वतन्त्रः कर्ता ।१।४।५४।
क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात् ॥

तत्प्रयोजको हेतुश्च ।१।४।५५।
कर्तुः प्रयोजको हेतुसंज्ञः कर्तृसंज्ञश्च स्यात् ॥

हेतुमति च ।३।१।२६।
प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच् स्यात् । भवन्तं प्रेरयति भावयति ॥

ओः पुयण्ज्यपरे ।७।४।८०।
सनि परे यदङ्गं तदवयवाभ्यासोकारस्य इत्स्यात् पवर्गयण्जकारेष्ववर्णपरेषु परतः । अबीभवत् । ष्ठा गतिनिवृत्तौ॥

अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ् णौ ।७।३।३६।
स्थापयति ॥

तिष्ठतेरित् ।७।४।५।
उपधाया इदादेशः स्याच्चङ्पर णौ । अतिष्ठिपत् । घट चेष्टायाम् ॥

मितां ह्रस्वः ।६।४।९२।
घटादीनां ज्ञपादीनां चोपधाया ह्रस्वः स्याण्णौ । घटयति । ज्ञप ज्ञाने ज्ञापने च । ज्ञपयति । अजिज्ञपत् ॥

॥ इति ण्यन्तप्रक्रिया ॥

अथ सन्नन्तप्रक्रिया


धातोः कर्मणः समानकर्तृकादिच्छायां वा ।३।१।७।
इषिकर्मणो इषिणैककर्तृकाद्धातोः सन्प्रत्ययो वा स्यादिच्छायाम् । पठ व्यक्तायां वाचि  ॥

सन्यङोः ।६।१।९।
सन्नन्तस्य यङन्तस्य च धातोरनभ्यासस्य प्रथमस्यैकाचो द्वे स्तोऽजादेस्तु द्वितीयस्य । सन्यतः । पठितुमिच्छति पिपठिषति । कर्मणः किम् ? गमनेनेच्छति । समानकर्तृकात् किम् ? शिष्याः पठन्त्वितीच्छति गुरुः । वा ग्रहणाद्वाक्यमपि । लुङ्सनोर्घस्लृ ॥

सः स्यार्धधातुके ।७।४।४९।
सस्य तः स्यात्सादावार्धधातुके । अत्तुमिच्छति जिघत्सति । एकाच इति नेट् ॥

अज्झनगमां सनि ।६।४।१६।
अजन्तानां हन्तेरजादेशगमेश्च दीर्घो झलादौ सनि ॥

इको झल् ।१।२।९।
इगन्ताज्झलादिः सन् कित् स्यात् । ऋत इद्धातोः । कर्तुमिच्छति चिकीर्षति ॥

सनि ग्रहगुहोश्च ।७।२।१२।
ग्रहेर्गुहेरुगन्ताच्च सन इण् न स्यात् । बुभूषति ॥

॥ इति सन्नन्तप्रक्रिया ॥

   अथ यङन्तप्रक्रिया


धातोरेकाचो हलादेः क्रियासमभिहारे यङ् ।३।१।२२।
पौनःपुन्ये भृशार्थे च द्योत्ये धातोरेकाचो हलादेर्यङ् स्याय् ॥

गुणो यङ्लुकोः ।७।४।८२।
अभ्यासस्य गुणो यङि यङ्लुकि च परतः । ङिदन्तत्वादात्मनेपदम् । पुनः पुनरतिशयेन वा भवति बोभूयते । बोभूयाञ्चक्रे । अबोभूयिष्ट ॥

नित्यं कौटिल्ये गतौ ।३।१।२३।
गत्यर्थात्कौटिल्य एव यङ् स्यान्न तु क्रियासमभिहारे ॥

दीर्घोऽकितः ।७।४।८३।
अकितोऽभ्यासस्य दीर्घो यङ्यङ्लुकोः । कुटिलं व्रजति । वाव्रज्यते ॥

यस्य हलः ।६।४।४९।
यस्येति संघातग्रहणम् । हलः परस्य यशब्दस्य लोप आर्धधातुके । आदेः परस्य । अतो लोपः । वाव्रजाञ्चक्रे । वाव्रजिता ॥

रीगृदुपधस्य च ।७।४।९०।
ऋदुपधस्य धातोरभ्यासस्य रीगागमो यङ्यङ्लुकोः । वरीवृत्यते । वरीवृताञ्चक्रे । वरीवर्तिता ॥

क्षुभ्नादिषु च ।८।४।३९।
णत्वं न । नारीनृत्यते । जरीगृह्यते ॥

॥ इति यङन्तप्रक्रिया ॥

                

    अथ यङ्लुक्प्रक्रिया


यङोऽचि च  ।२।४।७४।
यङोऽचि प्रत्यये लुक् स्यात्, चकारात्तं विनापि क्वचित् । अनैमित्तिकोऽयमन्तरङ्गत्वादादौ भवति । ततः प्रत्ययलक्षणेन यङन्तत्वाद्द्वित्वम् । अभ्यासकार्यम् । धातुत्वाल्लडादयः । शेषात्कर्तरीति परस्मैपदम् । चर्करीतं चेत्यदादौ पाठाच्छपो लुक् ॥

यङो वा ।७।३।९४।
यङ्लुगन्तात्परस्य हलादेः पितः सार्वधातुकस्येड् वा  स्यात् । भूसुवोरिति गुणनिषेधो यङ्लुकि भाषायां न, बोभोतु तेतिक्ते इति छन्दसि निपातनात् । बोभवीति, बोभोति । बोभूतः । अदभ्यस्तात् । बोभुवति । बोभवाञ्चकार, बोभवामास । बोभविता । बोभविष्यति । बोभवीतु, बोभोतु, बोभूतात् । बोभूताम् । बोभुवतु । बोभूहि । बोभवानि । अबोभवीत्, अबोभोत् । अबोभूताम् । अबोभवुः । बोभूयात् । बोभूयाताम् । बोभूयुः । बोभूयात् । बोभूयास्ताम् । बोभूयासुः । गातिस्थेति सिचो लुक् । यङो वेतीट्पक्षे गुणं बाधित्वा नित्यत्वाद्वुक् । अबोभूवीत्, अबोभोत् । अबोभूताम् । अबोभूवुः । अबोभविप्यत् ॥

॥ इति यङ्लुक्प्रक्रिया ॥

अथ नामधातवः


सुप आत्मनः क्यच् ।३।१।८।
इषिकर्मण एषितुः संबन्धिनः सुबन्तादिच्छायामर्थे क्यच् प्रत्ययो वा स्यात् ॥

सुपो धातुप्रातिपदिकयोः ।२।४।७१।
एतयोरवयवस्य सुपो लुक् ॥

क्यचि च ।७।४।३३।
अवर्णस्य ईः । आत्मनः पुत्रमिच्छति पुत्रीयति ॥

नः क्ये ।१।४।१५।
क्यचि क्यङि च नान्तमेव पदं नान्यत् । नलोपः । राजीयति । नान्तमेवेति किम् ? वाच्यति । हलि च । गीर्यति । पूर्यति । धातोरित्येव । नेह - दिवमिच्छति दिव्यति ॥

क्यस्य विभाषा ।६।४।५०।
हलः परयोः क्यच्क्यङोर्लोपो वार्धधातुके । आदेः परस्य । अतो लोपः । तस्य स्थानिवत्त्वाल्लघूपधगुणो न । समिधिता, समिध्यिता ॥

काम्यच्च ।३।१।९।
उक्तविषये काम्यच् स्यात् । पुत्रमात्मन इच्छति पुत्रकाम्यति । पुत्रकाम्यिता ॥

उपमानादाचारे ।३।१।१०।
उपमानात्कर्मणः सुबन्तादाचारेऽर्थे क्यच् । पुत्रमिवाचरति पुत्रीयति छात्रम् । विष्णूयति द्विजम् । (सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः) । अतो गुणे । कृष्ण इवाचरति कृष्णति । स्व इवाचरति स्वति । सस्वौ ॥

अनुनासिकस्य क्विझलोः क्ङिति ।६।४।१५।
अनुनासिकान्तस्योपधाया दीर्घः स्यात्क्वौ झलादौ च क्ङिति । इदमिवाचरति इदामति । राजेव राजानति । पन्था इव पथीनति ॥

कष्टाय क्रमणे ।३।१।१४।
चतुर्थ्यन्तात्कष्टशब्दादुत्साहेऽर्थे क्यङ् स्यात् । कष्टाय क्रमते कष्टायते । पापं कर्तुमुत्सहत इत्यर्थः ॥

शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे  ।३।१।१७।
एभ्यः कर्मभ्यः करोत्यर्थे क्यङ् स्यात् । शब्दं करोति शब्दायते ॥ (ग.सू.) तत्करोति तदाचष्टे, इति णिच् । (ग.सू.)प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च । प्रातिपदिकाद्धात्वर्थे णिच् स्यात्, इष्ठे यथा प्रातिपदिकस्य पुंवद्भावरभावटिलोपविन्मतुब्लोपयणादिलोपप्रस्थस्फाद्यादेशभसंज्ञास्तद्वण्णावपि स्युः । इत्यग्लोपः । घटं करोत्याचष्टे वा घटयति ॥

॥ इति नामधातवः ॥

                

  अथ कण्ड्वादयः


कण्ड्वादिभ्यो यक् ।३।१।२७।
एभ्यो धातुभ्यो नित्यं यक् स्यात् स्वार्थे । कण्डूञ् गात्रविधर्षणे ॥ १ ॥ कण्डूयति । कण्डूयते । इत्यादि ॥

॥ इति कण्ड्वादयः ॥

 

 ॥ अथात्मनेपदप्रक्रिया ॥


कर्तरि कर्मव्यतिहारे ।१।३।१४।
क्रियाविनिमये द्योत्ये कर्तर्यात्मनेपदम् । व्यतिलुनीते । अन्यस्य योग्यं लवनं करोतीत्यर्थः ॥

न गतिहिंसार्थेभ्यः ।१।३।१५।
व्यतिगच्छन्ति । व्यतिघ्नन्ति ॥

नेर्विशः ।१।३।१७।
निविशते ॥

परिव्यवेभ्यः क्रियः ।१।३।१८।
परिक्रीणीते । विक्रीणीते । अवक्रीणीते ॥

विपराभ्यां जेः ।१।३।१९।
विजयते । पराजयते ॥

समवप्रविभ्यः स्थः ।१।३।२२।
संतिष्ठते । अवतिष्ठते । प्रतिष्ठते । वितिष्ठते ॥

अपह्नवे ज्ञः ।१।३।४४।
शतमपजानीते । अपलपतीत्यर्थः ॥

अकर्मकाच्च ।१।३।४५।
सर्पिषो जानीते । सर्पिषोपायेन प्रवर्तत इत्यर्थः ।

उदश्चरः सकर्मकात् १।३।५३।
धर्ममुच्चरते । उल्लङ्घ्य गच्छतीत्यर्थः ॥

समस्तृतीयायुक्तात् ।१।३।५४।
रथेन सञ्चरते ॥

दाणश्च सा चेच्चतुर्थ्यर्थे ।१।३।५५।
सम्पूर्वाद्दाणस्तृतीयान्तेन युक्तादुक्तं स्यात् तृतीया चेच्चतुर्थ्यर्थे । दास्या संयच्छते कामी ॥

पूर्ववत्सनः ।१।३।६२।
सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात् । एदिधिषते ॥

हलन्ताच्च ।१।२।१०।
इक्समीपाद्धलः परो झलादिः सन् कित् । निविविक्षते ॥

गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः ।१।३।३२।
गन्धनं सूचनम् । उत्कुरुते । सूचयतीत्यर्थः । अवक्षेपणं भर्त्सनम् । श्येनो वर्तिकामुत्कुरुते । भर्त्सयतीत्यर्थः । हरिमुपकुरुते । सेवत इत्यर्थः । परदारान्प्रकुरुते । तेषु सहसा प्रवर्तते । एधो दकस्योपस्कुरुते । गुणमाधत्ते । कथाः प्रकुरुते । प्रकथयतीत्यर्थः । शतं प्रकुरुते । धर्मार्थं विनियुङ्क्ते । एषु किम् ? कटं करोति ॥

भुजोऽनवने ।१।३।६६।
ओदनं भुङ्क्ते । अनवने किम् ? महीं भुनक्ति ॥

॥ इत्यात्मनेपदप्रक्रिया ॥

   अथ परस्मैपदप्रक्रिया


अनुपराभ्यां कृञः ।१।३।७९।
कर्तृगे च फले गन्धनादौ च परस्मैपदं स्यात् । अनुकरोति । पराकरोति ॥

अभिप्रत्यतिभ्यः क्षिपः ।१।३।८०।
क्षिप प्रेरणे । स्वरितेत् । अभिक्षिपति ॥

प्राद्वहः ।१।३।८१।
प्रवहति ॥

परेर्मृषः । १।३।८२।
परिमृष्यति ॥

व्याङ्परिभ्यो रमः ।१।३।८३।
रमु क्रीडायाम् । विरमति ॥

उपाच्च । १।३।८४।
यज्ञदत्तमुपरमति । उपरमयतीत्यर्थः । अन्तर्भावितण्यर्थोऽयम् ॥

॥ इति परस्मैपदप्रक्रिया ॥

॥ इति पदव्यवस्था ॥

                   

 अथ भावकर्मप्रक्रिया


भावकर्मणोः ।१।३।१३।
लस्यात्मनेपदम् ॥

सार्वधातुके यक्  ।३।१।६७।
धातोर्यक् भावकर्मवाचिनि सार्वधातुके । भावः क्रिया सा च भावार्थकलकारेणानूद्यते । युष्मदस्मद्भ्यां सामानाधिकरण्याभावात्प्रथमः पुरुषः । तिङ्वाच्यक्रियाया अद्रव्यरूपत्वेन द्वित्वाद्यप्रतीतेर्न द्विवचनादि किं त्वेकवचनमेवोत्सर्गतः । त्वया मया अन्यैश्च भूयते । बभूवे ॥

स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च ।६।४।६२।
उपदेशे योऽच् तदन्तानां हनादीनां च चिणीवाङ्गकार्यं वा स्यात्स्यादिषु भावकर्मणोर्गम्यमानयोः स्यादीनामिडागमश्च । चिण्वद्भावपक्षेऽयमिट् । चिण्वद्भावाद् वृद्धिः । भाविता, भविता । भाविष्यते, भविष्यते । भूयताम् । अभूयत । भाविषीष्ट । भविषीष्ट ॥

चिण् भावकर्मणोः ।३।१।६६।
च्लेश्चिण् स्याद्भावकर्मवाचिनि तशब्दे परे । अभावि । अभाविष्यत, अभविष्यत । अकर्मकोऽप्युपसर्गवशात्- सकर्मकः । अनुभूयते । आनन्दश्चैत्रैण त्वया मया च । अनुभूयेते । अनुभूयन्ते । त्वमनुभूयसे । अहमनुभूये । अन्वभावि । अन्वभाविषाताम्, अन्वभविषाताम् । णिलोपः । भाव्यते । भावयाञ्चक्रे, भावयाम्बभूवे, भावयामासे। चिण्वदिट् । आभीयत्वेनासिद्धत्वाण्णिलोपः । भाविता, भावयिता । भाविष्यते, भावयिष्यते । अभाव्यत् । भाव्येत । भाविषीष्ट, भावयिषीष्ट । अभावि । अभाविषाताम्, अभावयिषाताम् । बुभूष्यते । बुभूषाञ्चक्रे । बुभूषिता । बुभूषिष्यते । बोभूय्यते । बोभूयते । अकृत्सार्वधातुकयोर्दीर्घः । स्तूयते विष्णुः । स्ताविता, स्तोता । स्ताविष्यते, स्तोष्यते । अस्तावि । अस्ताविषाताम्, अस्तोषाताम् । ऋ गतौ । गुणोऽर्तीति गुणः । अर्यते । स्मृ स्मरणे । स्मर्यते । सस्मरे । उपदेशग्रहणाच्चिण्वदिट् । आरिता, अर्ता । स्मारिता, स्मर्ता । अनिदितामिति नलोपः । स्रस्यते । इटितस्तु नन्द्यते । संप्रसारणम् । इज्यते ॥

तनोतेर्यकि ।६।४।४४।
आकारोऽन्तादेशो वा स्यात् । तायते, तन्यते ॥

तपोऽनुतापे च ।३।१।६५।
तपश्च्लेश्चिण् न स्यात् कर्मकर्तर्यनुतापे च । अन्वतप्त पापेन । धुमास्थेतीत्त्वम् । दीयते । धीयते । ददे ॥

आतो युक् चिण्कृतोः ।७।३।३३।
आदन्तानां युगागमः स्याच्चिणि ञ्णिति कृति च । दायिता, दाता । दायिषीष्ट, दासीष्ट । अदायि । अदायिषाताम् । भज्यते ॥

भञ्ञेश्च चिणि ।६४।३३॥
नलोपो वा स्यात् । अभाजि, अभञ्जि । लभ्यते ॥

विभाषा चिण्णमुलोः ।७।१।६९।
लभेर्नुमागमो वा स्यात् । अलम्भि, अलाभि ॥

॥ इति भावकर्मप्रक्रिया ॥

अथ कर्मकर्तृप्रक्रिया


यदा कर्मैव कर्तृत्वेन विवक्षितं तदा सकर्मकाणामप्यकर्मकत्वात्कर्तरि भावे च लकारः ॥

कर्मवत्कर्मणा तुल्यक्रियः ।३।१।८७।
कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवत्स्यात् । कार्यातिदेशोऽयम् । तेन यगात्मनेपदचिण्चिण्वदिटः स्युः । पच्यते फलम् । भिद्यते काष्ठम् । अपाचि । अभेदि । भावे, भिद्यते काष्ठेन ॥

॥ इति कर्मकर्तृप्रक्रिया ॥

 

 अथ लकारार्थप्रक्रिया


अभिज्ञावचने लृट् ।३।२।११२।
स्मृतिबोधिन्युपपदे भूतानद्यतने धातोर्लृट् । लङोऽपवादः । वस निवासे । स्मरसि कृष्ण गोकुले वत्स्यामः । एवं बुध्यसे चेतयसे इत्यादिप्रयोगेऽपि ॥

न यदि ।३।२।११३।
यद्योगे उक्तं न । अभिजानासि कृष्ण यद्वने अभुञ्ज्महि ॥

लट् स्मे ।३।२।११८।
लिटोऽपवादः । यजति स्म युधिष्ठिरः ॥

वर्तमानसामीप्ये वर्तमानवद्वा ।३।३।१३१।
वर्तमाने ये प्रत्यया उक्तास्ते वर्तमानसामीप्ये भूते भविष्यति च वा स्युः । कदागतोऽसि । अयमागच्छामि, अयमागमं वा । कदा गमिष्यसि । एष गच्छामि, गमिष्यामि वा ॥

हेतुहेमतोर्लिङ् ।३।३।१५६।
वा स्यात् । कृष्णं नमेच्चेत्सुखं यायात् । कृष्णं नंस्यति चेत्सुखं यास्यति । (भविष्यत्येवेष्यते) । नेह । हन्तीति पलायते ॥ विधिनिमन्त्रणेति लिङ् । विधिः प्रेरणं भृत्यादेर्निकृष्टस्य प्रवर्तनम् । यजेत । निमन्त्रणं नियोगकरणम्, आवश्यके श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनम् । इह भुञ्जीत । आमन्त्रणं कामचारानुज्ञा । इहासीत । अधीष्टं सत्कारपूर्वको व्यापारः । पुत्रमध्यापयेद्भवान् । संप्रश्नः संप्रधारणम् । किं भो वेदमधीयीय उत तर्कम् । प्रार्थनं याच्ञा । भो भोजनं लभेय । एवं लोट् ॥

॥इति लकारार्थप्रक्रिया ॥

॥ इति तिङन्तं समाप्तम् ॥

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top