कारकः समासाश्च

Sri App

॥ अथ विभक्त्यर्थाः ॥


प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा ।२।३।४६।
नियतोपस्थितिकः प्रातिपदिकार्थः । मात्रशब्दस्य प्रत्येकं योगः । प्रातिपदिकार्थमात्रे लिङ्गमात्रद्याधिक्ये संख्यामात्रे च प्रथमा स्यात् । प्रातिपदिकार्थमात्रे-उच्चैः । नीचैः । कृष्णः । श्रीः । ज्ञानम् । लिङ्गमात्रे-तटः, तटी, तटम् । परिमाणमात्रे । द्रोणो व्रीहिः । वचनं संख्या । एकः, द्वौ, बहवः ॥

सम्बोधने च ।२।३।४७।
प्रथमा स्यात् । हे राम ॥

कर्तुरीप्सिततमं कर्म ।१।४।४९।
कर्तुः क्रिययाप्तुमिष्टतमं कारकं कर्मसंज्ञं स्यात् ॥

कर्मणि द्वितीया ।२।३।२।
अनुक्ते कर्मणि द्वितीया स्यात् । हरिं भजति । अभिहिते तु कर्मादौ प्रथमा- हरिः सेव्यते । लक्ष्म्या सेवितः ॥

अकथितं च ।१।४।५१।
अपादानादिविशेषैरविवक्षितं कारकं कर्मसंज्ञं स्यात् ।
दुह्याच्पच्दण्ड्रुधिप्रच्छिचिब्रूशासुजिमथ्मुषाम् ।
कर्मयुक् स्यादकथितं तथा स्यान्नीहृकृष्वहाम् ॥
गां दोग्धि पयः । बलिं याचते वसुधाम् । तण्डुलानोदनं पचति । गर्गान् शतं दण्डयति । व्रजमवरुणद्धि गाम् । माणवकं पन्थानं पृच्छति । वृक्षमवचिनोति फलानि । माणवकं धर्मं ब्रूते शास्ति वा । शतं जयति देवदत्तम् । सुधां क्षीरनिधिं मथ्नाति । देवदत्तं शतं मुष्णाति । ग्राममजां नयति हरति कर्षति वहति वा । अर्थनिबन्धनेयं संज्ञा । बलिं भिक्षते वसुधाम् । माणवकं धर्मं भाषते । अभिधत्ते वक्तीत्यादि ॥

॥ इति द्वितीया ॥

स्वतन्त्रः कर्ता ।१।४।५४।
क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्त स्यात् ॥

साधकतमं करणम् ।१।४।४२।
क्रियासिद्धौ प्रकृष्टोपकारकं करणसंज्ञं स्यात् ॥

कर्तृकरणयोस्तृतीया ।२।३।१८।
अनभिहिते कर्तरि करणे च तृतीया स्यात् । रामेण बाणेन हतो बाली ॥

॥ इति तृतीया ॥

कर्मणा यमभिप्रैति स संप्रदानम् ।१।४।३२।
दानस्य कर्मणा यमभिप्रैति स संप्रदानसंज्ञः स्यात् ॥

चतुर्थी संप्रदाने ।२।३।१३।
विप्राय गां ददाति ॥

नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च ।२।३।१६।
एभिर्योगे चतुर्थी । हरये नमः । प्रजाभ्यः स्वस्ति । अग्नये स्वाहा । पितृभ्यः स्वधा । अलमिति पर्याप्त्यर्थग्रहणम् । तेन दैत्येभ्यो हरिरलं प्रभुः समर्थः शक्त इत्यादि ॥

॥ इति चतुर्थी ॥

ध्रुवमपायेऽपादानम् । १।४।२४।
अपायो विश्लेषस्तस्मिन्साध्ये यद्ध्रुवमवधिभूतं कारकं तदपादानसंज्ञं स्यात् ॥

अपादाने पञ्चमी ।२।३।२८।
ग्रामादायाति । धावतोऽश्वात्पततीत्यादि ॥

॥ इति पञ्चमी ॥

षष्ठी शेषे ।२।३।५०।
कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिः शेषस्तत्र षष्ठी । राज्ञः पुरुषः । कर्मादीनामपि संबन्धमात्रविवक्षायां षष्ठ्येव । सतां गतम् । सर्पिषो जानीते । मातुः स्मरति । एधो दकस्योपस्कुरुते । भजे शम्भोश्चरणयोः ॥

॥ इति षष्ठी ॥

आधारोऽधिकरणम् ।१।४।४५।
कर्तृकर्मद्वारा तन्निष्ठक्रियाया आधारः कारकमधिकरणं स्यात् ॥

सप्तम्यधिकरणे च ।२।३।३६।
अधिकरणे सप्तमी स्यात्, चकाराद्दूरान्तिकार्थेभ्यः । औपश्लेषिको वैषयिकोऽभिव्यापकश्चेत्याधारस्त्रिधा । कटे आस्ते । स्थाल्यां पचति । मोक्षे इच्छास्ति । सर्वस्मिन्नात्मास्ति । वनस्य दूरे अन्तिके वा ॥

॥ इति सप्तमी ॥

॥ इति विभक्त्यर्थाः ॥


अथ समासाः

तत्रादौ केवलसमासः । समासः पञ्चधा । तत्र समसनं समासः । स च विशेषसंज्ञाविनिर्मुक्तः केवलसमासः प्रथमः॥१॥ प्रायेण पूर्वपदार्थप्रधानोऽव्ययीभावो द्वितीयः ॥२॥ प्रायेणोत्तरपदार्थप्रधानस्तत्पुरुषस्तृतीयः । तत्पुरुषभेदः कर्मधारयः । कर्मधारयभेदो द्विगुः ॥३॥ प्रायेणान्यपदार्थप्रधानो बहुव्रीहिश्चतुर्थः ॥४॥ प्रायेणोभयपदार्थप्रधानो द्वन्द्वः पञ्चमः ॥५॥

समर्थः पदविधिः ।२।१।१।
पदसंबन्धी यो विधिः स समर्थाश्रितो बोध्यः ॥

प्राक्कडारात्समासः ।२।१।३।
कडाराः कर्मधारय इत्यतः प्राक् समास इत्यधिक्रियते ॥

सह सुपा ।२।१।४।
सुप् सुपा सह वा समस्यते । समासत्वात्प्रातिपदिकत्वेन सुपो लुक् । परार्थाभिधानं वृत्तिः । कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः । वृत्त्यर्थावबोधकं वाक्यं विग्रहः । स च लौकिकोऽलौकिकश्चेति द्विधा । तत्र पूर्वं भूत इति लौकिकः । ‘पूर्व अम् भूत सु’ इत्यलौकिकः । भूतपूर्वः । भूतपूर्वे चरडिति निर्देशात्पूर्वनिपातः । (इवेन समासो विभक्त्यलोपश्च) । वागर्थौ इव वागर्थाविव ॥

॥ इति केवलसमासः ॥

 

अथाव्ययीभावः

अव्ययीभावः ।२।१।५।
अधिकरोऽयं प्राक् तत्पुरुषात् ॥

अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासंप्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसंपत्तिसाकल्यान्तवचनेषु ।२।१।६।
विभक्त्यर्थादिषु वर्तमानमव्ययं सुबन्तेन सह नित्यं समस्यते सोऽव्ययीभावं । प्रायेणाविग्रहो नित्यसमासः, प्रायेणास्वपदविग्रहो वा । विभक्तौ, हरि ङि अधि इति स्थिते ॥

प्रथमानिर्दिष्टं समास उपसर्जनम् ।१।२।४३।
समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनं स्यात् ॥

उपसर्जनं पूर्वम् ।२।२।३०।
समासे उपसर्जनं प्राक्प्रयोज्यम् । इत्यधेः प्राक् प्रयोगः । सुपो लुक् । एकदेशविकृतस्यानन्यत्वात्प्रातिपदिकसंज्ञायां स्वाद्युत्पत्तिः । अव्ययीभावश्चेत्यव्ययत्वात्सुपो लुक् । अधिहरि ॥

अव्ययीभावश्च ।२।४।१८।
अयं नपुंसकं स्यात् ॥

नाव्ययीभावादतोऽम्त्वपञ्चम्याः ।२।४।८३।
अदन्तादव्ययीभावात्सुपो न लुक्, तस्य पञ्चमीं विना अमादेशश्च स्यात् । गाः पातीति गोपास्तस्मिन्नित्यधिगोपम्॥

तृतीयासप्तम्योर्बहुलम् ।२।४।८४।
अदन्तादव्ययीभावात्तृतीयासप्तम्योर्बहुलमम्भावः स्यात् । अधिगोपम्, अधिगोपेन, अधिगोपे वा । कृष्णस्य समीपम् उपकृष्णम् । मद्राणां समृद्धिः सुमद्रम् । यवनानां व्यृद्धिर्दुर्यवनम् । मक्षिकाणामभावो निर्मक्षिकम् । हिमस्यात्ययोऽतिहिमम् । निद्रा संप्रति न युज्यत इत्यतिनिद्रम् । हरिशब्दस्य प्रकाश इतिहरि । विष्णोः पश्चादनुविष्णु । योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः । रूपस्य योग्यमनुरूपम् । अर्थमर्थं प्रति प्रत्यर्थम् । शक्तिमनतिक्रम्य यथाशक्ति ॥

अव्ययीभावे चाकाले ।६।३।८१।
सहस्य सः स्यादव्ययीभावे न तु काले । हरेः सादृश्यं सहरि । ज्येष्ठस्यानुपूर्व्येणेत्यनुज्येष्ठम् । चक्रेण युगपत् सचक्रम्। सदृशः सख्या ससखि । क्षत्राणां संपतिः सक्षत्रम् । तृणमप्यपरित्यज्य सतृणमत्ति । अग्निग्रन्थपर्यन्तमधीते साग्नि ॥

नदीभिश्च ।२।१।२०।
नदीभिः सह संख्या समस्यते । (समाहारे चायमिष्यते) । पञ्चगङ्गम् । द्वियमुनम् ॥

तद्धिताः ।४।१।७६।
आपञ्चमसमाप्तेरधिकारोऽयम् ॥

अव्ययीभावे शरत्प्रभृतिभ्यः ।५।४।१०७।
शरदादिभ्यष्टच् स्यात्समासान्तोऽव्ययीभावे । शरदः समीपमुपशरदम् । प्रतिविपाशम् । (जराया जरश्च) । उपजरसमिइत्यादि ॥

अनश्च ।५।४।१०८।
अन्नन्तादव्ययीभावाट्टच् स्यात् ॥

नस्तद्धिते ।६।४।१४४।
नान्तस्य भस्य टेर्लोपस्तद्धिते । उपराजम् । अध्यात्मम् ॥

नपुंसकादन्यतरस्याम् ।५।४।१०९।
अन्नन्तं यत् क्लीबं तदन्तादव्ययीभावाट्टज्वा स्यात् । उपचर्मम् । उपचर्म ॥

झयः ।५।४।१११।
झयन्तादव्ययीभावाट्टज्वा स्यात् । उपसमिधम् । उपसमित् ॥

॥ इत्यव्ययीभावः ॥

अथ तत्पुरुषः


तत्पुरुषः ।२।१।२२।
अधिकारोऽयं प्राग्बहुव्रीहेः ॥

द्विगुश्च ।२।१।२३।
द्विगुरपि तत्पुरुषसंज्ञकः स्यात् ॥

द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः ।२।१।२४।
द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तै सह वा समस्यते स च तत्पुरुषः । कृष्णं श्रितः कृष्णाश्रित इत्यादि ॥

तृतीया तत्कृतार्थेन गुणवचनेन ।२।१।३०।
तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थेन च सह वा प्राग्वत् । शङ्कुलया खण्डः शङ्कुलाखण्डः । धान्येनार्थोः धान्यार्थः । तत्कृतेति किम् ? अक्ष्णा काणः ॥

कर्तृकरणे कृता बहुलम् ।२।१।३२।
कर्तरि करणे च तृतीया कृदन्तेन बहुलं प्राग्वत् । हरिणा त्रातो हरित्रातः । नखैर्भिन्नो नखभिन्नः । (प.) कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् । नखनिर्भिन्नः ॥

चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः ।२।१।३६।
चतुर्थ्यन्तार्थाय यत् तद्वाचिना अर्थादिभिश्च चतुर्थ्यन्तं वा प्राग्वत् । यूपाय दारु यूपदारु । (तदर्थेन प्रकृतिविकृतिभाव एवेष्टः) । तेनेह न-रन्धनाय स्थली । (अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्) । द्विजार्थः सूपः । द्विजार्था यवागूः । द्विजार्थं पयः । भूतबलिः । गोहितम् । गोसुखम् । गोरक्षितम् ॥

पञ्चमी भयेन ।२।१।३७।
चोराद्भयम् चोरभयम् ॥

स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन ।२।१।३९।
पञ्चम्याः स्तोकादिभ्यः। ६।३।२।
अलुगुत्तरपदे । स्तोकान्मुक्तः । अन्तिकादागतः । अभ्यासादागतः । दूरादागतः । कृच्छ्रादागतः ॥

षष्ठी ।२।२।८।
सुबन्तेन प्राग्वत् । राजपुरुषः ॥

पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे ।२।२।१।
अवयविना सह पूर्वादयः समस्यन्ते एकत्वसंख्याविशिष्टश्चेदवयवी । षष्ठीसमासापवादः । पूर्वं कायस्य पूर्वकायः । अपरकायः । एकाधिकरणे किम् ? पूर्वश्छात्राणाम् ॥

अर्धं नपुंसकम् ।२।२।२।
समांशवाच्यर्धशब्दो नित्यं क्लीबे, स प्राग्वत् । अर्धं पिप्पल्या अर्धपिप्पली ॥

सप्तमी शौण्डैः ।२।१।४०।
सप्तम्यन्तं शौण्डादिभिः प्राग्वत् । अक्षेषु शौण्डः अक्षशौण्डः इत्यादि । द्वितीयातृतीयेत्यादियोगविभागादन्यत्रापि तृतीयादिविभक्तीनां प्रयोगवशात्समासो ज्ञेयः ॥

दिक्संख्ये संज्ञायाम् ।२।१।५०।
संज्ञायामेवेति नियमार्थं सूत्रम् । पूर्वेषुकामशमी । सप्तर्षयः । तेनेह न-उत्तरा वृक्षाः । पञ्च ब्राह्मणाः ॥

तद्धितार्थोत्तरपदसमाहारे च ।२।१।५१।
तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये दिक्संख्ये प्राग्वत् । पूर्वस्यां शालायां भवः-पूर्वाशाला इति समासे जाते । (सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः) ॥

दिक्पूर्वपदादसंज्ञायां ञः ।४।२।१०७।
अस्माद्भवाद्यर्थे ञः स्यादसंज्ञायाम् ॥

तद्धितेष्वचामादेः ।७।२।११७।
ञिति णिति च तद्धितेष्वचामादेरचो वृद्धिः स्यात् । यस्येति च । पौर्वशालः । पञ्च गावो धनं यस्येति त्रिपदे बहुव्रीहौ । (द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम्) ॥

गोरतद्धितलुकि। ५।४।९२।
गोऽन्तात्तत्पुरुषाट्टच् स्यात् समासान्तो न तु तद्धितलुकि । पञ्चगवधनः ॥

तत्पुरुषः समानाधिकरणः कर्मधारयः ।१।२।४२।
संख्यापूर्वो द्विगुः। २।१।५२।
तद्धितार्थेत्यत्रोक्तस्त्रिविधः संख्यापूर्वो द्विगुसंज्ञः स्यात् ॥

द्विगुरेकवचनम् ।२।४।१।
द्विग्वर्थः समाहार एकवत् स्यात् ॥

स नपुंसकम् ।२।४।१७।
समाहारे द्विगुर्द्वन्द्वश्च नपुंसकं स्यात् । पञ्चानां गवां समाहारः पञ्चगवम् ॥

विशेषणं विशेष्येण बहुलम् ।२।१।५७।
भेदकं भेद्येन समानाधिकरणेन बहुलं प्राग्वत् । नीलमुत्पलं नीलोत्पलम् । बहुलग्रहणात्क्वचिन्नित्यम्-कृष्णसर्पः । क्वचिन्न रामो जामदग्न्यः ॥

उपमानानि सामान्यवचनैः ।२।१।५५।
घन इव श्यामो घनश्यामः । (शाकपार्थिवादीनां सिद्धये उत्तरपदलोपोस्योपसंख्यानम्) । शाकप्रियः पार्थिवः शाकपार्थिवः । देवपूजको ब्राह्मणो देवब्राह्मणः ॥

नञ् ।२।२।६।
नञ् सुपा सह समस्यते ॥

नलोपो नञः ।६।३।७३।
नञो नस्य लोप उत्तरपदे । न ब्राह्मणः अब्राह्मणः ॥

तस्मान्नुडचि ।६।३।७४।
लुप्तनकारान्नञ उत्तरपदस्याजादेर्नुडागमः स्यात् । अनश्वः । नैकधेत्यादौ तु नशब्देन सह सुप्सुपेति समासः ॥

कुगतिप्रादयः ।२।२।१८।
एते समर्थेन नित्यं समस्यन्ते । कुत्सितः पुरुषः कुपुरुषः ॥

ऊर्यादिच्विडाचश्च ।१।४।६१।
ऊर्यादयश्चव्यन्ता डाजन्ताश्च क्रियायोगे गतिसंज्ञाः स्युः । ऊरीकृत्य । शुक्लीकृत्य । सुपुरुषः । (पादयो गताद्यर्थे प्रथमया) । प्रगत आचार्यः प्राचार्यः । (अत्यादयः क्रान्ताद्यर्थे द्वितीयया) । अतिक्रान्तो मालामिति विग्रहे-

एकविभक्ति चापूर्वनिपाते ।१।२।४४।
विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यान्न तु तस्य पूर्वनिपातः ॥

गोस्त्रियोरुपसर्जनस्य ।१।२।४८।
उपसर्जनं यो गोशब्दः स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात् । अतिमालः । (अवादयः क्रुष्टाद्यर्थे तृतीयया) । अवक्रुष्टः कोकिलया-अवकोकिलः । (पर्यादयो ग्लानाद्यर्थे चतुर्थ्या) । परिग्लानोऽध्ययनाय पर्यध्ययनः।
(निरादयः क्रान्ताद्यर्थे पञ्चम्या) । निष्क्रान्तः कौशाम्ब्याः - निष्कौशाम्बिः ॥

तत्रोपपदं सप्तमीस्थम् ।३।१।९२।
सप्तम्यन्ते पदे कर्मणीत्यादौ वाच्यत्वेन स्थितं यत्कुम्भादि तद्वाचकं पदमुपपदसंज्ञं स्यात् ॥

उपपदमतिङ् ।२।२।१९।
उपपदं सुबन्तं समर्थेन नित्यं समस्यते । अतिङन्तश्चायं समासः । कुम्भं करोतीति कुम्भकारः । अतिङ् किम् ? मा भवान् भूत् । माङि लुङीति सप्तमीनिर्देशान्माङुपपदम् । (प.) गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः । व्याघ्री । अश्वक्रीती । कच्छीत्यादि ॥

तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः ।५।४।८६।
संख्याव्ययादेरङ्गुल्यन्तस्य तत्पुरुषस्य समासान्तोऽच् स्यात् । द्वे अङ्गुली प्रमाणमस्य द्व्यङ्गुलम् । निर्गतमङ्गुलिभ्यो निरङ्गुलम् ॥

अहःसर्वैकदेशसंख्यातपुण्याच्च रात्रेः ।५।४।८७।
एभ्यो रात्रेरच् स्याच्चात्संख्याव्ययादेः । अहर्ग्रहणं द्वन्द्वार्थम् ॥

रात्राह्नाहाः पुंसि ।२।४।२९।
एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव । अहश्च रात्रिश्चाहोरात्रः । सर्वरात्रः । संख्यातरात्रः । (संख्यापूर्वं रात्रं क्लीबम्) । द्विरात्रम् । त्रिरात्रम् ॥

राजाहःसखिभ्यष्टच् ।५।४।९१।
एतदन्तात्तत्पुरुषाट्टच् स्यात् । परमराजः ॥

आन्महतः समानाधिकरणजातीययोः ।६।३।४६।
महत आकारोऽन्तादेशः स्यात्समानाधिकरणे उत्तरपदे जातीये च परे । महाराजः । प्रकारवचने जातीयर् । महाप्रकारो महाजातीयः ॥

द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः ।६।३।४७।
आत्स्यात् । द्वौ च दश च द्वादश । अष्टाविंशतिः ॥

त्रेस्त्रयः ।६।३।४८।
त्रयोदश । त्रयोविंशतिः । त्रयस्त्रिंशत् ॥

परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ।२।४।२६।
एतयोः परपदस्येव लिङ्गं स्यात् । कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । अर्धपिप्पली । (द्विगुप्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधो वाच्यः) । पञ्चसु कपालेशु संस्कृतः पञ्चकापालः पुरोडाशः ॥

प्राप्तापन्ने च द्वितीयया ।२।२।४।
समस्येते । अकारश्चानयोरन्तादेशः । प्राप्तो जीविकां प्राप्तजीविकः । आपन्नजीविकः । अलं कुमार्यै- अलंकुमारिः । अत एव ज्ञापकात्समासः । निष्कौशाम्बिः ॥

अर्धर्चाः पुंसि च ।२।४।३१।
अर्धर्चादयः शब्दाः पुंसि क्लीबे च स्युः । अर्धर्चः । अर्धर्चम् । एवं ध्वजतीर्थशरीरमण्डपयूपदेहाङ्कुशपात्रसूत्रादयः।
सामान्ये नपुंसकम् । मृदु पचति । प्रातः कमनीयम् ॥

॥ इति तत्पुरुषः ॥

 

अथ बहुव्रीहिः


शेषो बहुव्रीहिः ।२।२।२३।
अधिकारोऽयम् प्राग्द्वन्द्वात् ॥

अनेकमन्यपदार्थे ।२।२।२४।
अनेकं प्रथमान्तमन्यस्य पदस्यार्थे वर्तमानं वा समस्यते स बहुव्रीहिः ॥

सप्तमीविशेषणे बहुव्रीहौ ।२।२।३५।
सप्तम्यन्तं विशेषणं च बहुव्रीहौ पूर्वं स्यात् । अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः ॥

हलदन्तात्सप्तम्याः संज्ञायाम् ।६।३।९।
हलन्ताददन्ताच्च सप्तम्या अलुक् । कण्ठेकालः । प्राप्तमुदकं यं स प्राप्तोदको ग्रामः । ऊढरथोऽनड्वान् । उपहृतपशू रुद्रः । उद्धृतौदना स्थाली । पीताम्बरो हरिः । वीरपुरुषको ग्रामः । (प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः) । प्रपतितपर्णः, प्रपर्णः । (नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः) । अविद्यमानपुत्रः, अपुत्रः ॥
स्त्रियाः पुंवद्भाषितपुंस्कादनूङ्समानाधिकरणे

स्त्रियामपूरणीप्रियादिषु ।६।३।३४।
उक्तपुंस्कादनूङ् ऊङोऽभावोऽस्यामिति बहुब्रीहिः । निपातनात्पञ्चम्या अलुक् षष्ठ्याश्च लुक् । तुल्ये प्रवृत्तिनिमित्ते यदुक्तपुंस्कं तस्मात्पर ऊङोऽभावो यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्येव रूपं समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे न तु पूरण्यां प्रियादौ च परतः । गोस्त्रियोरिति ह्रस्वः । चित्रगुः । रूपवद्भार्यः । अनूङ् किम् ? वामोरूभार्यः । पूरण्यां तु –

अप्पूरणीप्रमाण्योः ।५।४।११६।
पूरणार्थप्रत्ययान्तं यत्स्त्रीलिङ्गं तदन्तात्प्रमाण्यन्ताच्च बहुब्रीहेरप्स्यात् । कल्याणी पञ्चमी यासां रात्रीणां ताः कल्याणीपञ्चमा रात्रयः । स्त्री प्रमाणी यस्य स स्त्रीप्रमाणः । अप्रियादिषु किम् ? कल्याणीप्रिय इत्यादि ॥

बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच् ।५।४।११३।
स्वाङ्गवाचिसक्थ्यक्ष्यन्ताद्बहुव्रीहेः षच् स्यात् । दीर्घसक्थः । जलजाक्षी । स्वाङ्गात्किम् ? दीर्घसक्थि शकटम् । स्थूलाक्षा वेणुयष्टिः । अक्ष्णोऽदर्शनादिति वक्ष्यमाणोऽच् ॥

द्वित्रिभ्यां ष मूर्ध्नः ।५।४।११५।
आभ्यां मूर्ध्नः षः स्याद्बहुव्रीहौ । द्विमूर्धः । त्रिमूर्धः ॥

अन्तर्बहिर्भ्यां च लोम्नः ।५।४।११७।
आभ्यां लोम्नोऽप्स्याद्बहुव्रीहौ । अन्तर्लोमः । बहिर्लोमः ॥

पादस्य लोपोऽहस्त्यादिभ्यः ।५।४।१३८।
हस्त्यादिवर्जितादुपमानात्परस्य पादशब्दस्य लोपः स्याद्बहुव्रीहौ । व्याघ्रस्येव पादावस्य व्याघ्रपात् । अहस्त्यादिभ्यः किम् ? हस्तिपादः । कुशूलपादः ॥

संख्यासुपूर्वस्य ।५।४।१४०।
पादस्य लोपः स्यात्समासान्तो बहुव्रीहौ । द्विपात् । सुपात् ॥

उद्विभ्यां काकुदस्य ।५।४।१४८।
लोपः स्यात् । उत्काकुत् । विकाकुत् ॥

पूर्णाद्विभाषा ।५।४।१४९।
पूर्णकाकुत् । पूर्णकाकुदः ॥

सुहृद्दुर्हृदौ मित्रामित्रयोः ।५।४।१५०।
सुदुर्भ्यां हृदयस्य हृद्भावो निपात्यते । सुहृन्मित्रम् । दुर्हृदमित्रः ॥

उरःप्रभृतिभ्यः कप् ।५।४।१५१।
सोऽपदादौ ।८।३।३८।
पाशकल्पककाम्येषु विसर्गस्य सः ॥

कस्कादिषु च ।८।३।४८।
एष्विण उत्तरस्य विसर्गस्य षोऽन्यस्य तु सः । इति सः । व्यूढोरस्कः ॥

इणः षः ।८।३।३९।
इण उत्तरस्य विसर्गस्य षः पाशकल्पककाम्येषु परेषु । प्रियसर्पिष्कः ॥

निष्ठा ।२।२।३६।
निष्ठान्तं बहुत्रीहौ पूर्वं स्यात् । युक्तयोगः ॥

शेषाद्विभाषा ।५।४।१५४।
अनुक्तसमासान्ताद्बहुव्रीहेः कब्वा । महायशस्कः, महायशाः ॥

॥ इति बहुव्रीहिः ॥

अथ द्वन्द्वः


चार्थे द्वन्द्वः ।२।२।२९।
अनेकं सुबन्तं चार्थे वर्तमानं वा समस्यते स द्वन्द्वः । समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थाः । तत्र ‘ईश्वरं गुरुं च भजस्व’ इति परस्परनिरपेक्षस्यानेकस्यैकस्मिन्नन्वयः समुच्चयः । ‘भिक्षामट गां चानय’ इत्यन्यतरस्यानुषङ्गिकत्वेनान्वयोऽवाचयः । अनयोरसामर्थ्यात्समासो न । ‘धवखदिरौ छिन्धि’ इति मिलितानामन्वय इतरेतरयोगः । ‘संज्ञापरिभाषाम्’ इति समूहः समाहारः ॥

राजदन्तादिषु परम् ।२।२।३१।
एषु पूर्वप्रयोगार्हं परं स्यात् । दन्तानां राजानो राजदन्ताः । (धर्मादिष्वनियमः) । अर्थधर्मौ । धर्मार्थावित्यादि ॥

द्वन्द्वे घि ।२।२।३२।
द्वन्द्वे घिसंज्ञं पूर्वं स्यात् । हरिश्च हरश्च हरिहरौ ॥

अजाद्यदन्तम् ।२।२।३३।
द्वन्द्वे पूर्वं स्यात् । ईशकृष्णौ ॥

अल्पाच्तरम् ।२।२।३४।
शिवकेशवौ ॥

पिता मात्रा ।१।२।७०।
मात्रा सहोक्तौ पिता वा शिष्यते । माता च पित च पितरौ, मातापितरौ वा ॥

द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् ।२।४।२।
एषां द्वन्द्व एकवत् । पाणिपादम् । मार्दङ्गिकपाणविकम् । रथिकाश्वारोहम् ॥

द्वन्द्वाच्चुदषहान्तात्समाहारे ।५।४।१०६।
चवर्गान्ताद्दषहान्ताच्च द्वन्द्वाट्टच् स्यात्समाहारे । वाक् च् त्वक् च वाक्त्वचम् । त्वक्स्रजम् । शमीदृषदम् । वाक्त्विषम् । छत्रोपानहम् । समाहारे किम् ? प्रावृट्शरदौ ॥

॥ इति द्वन्द्वः॥

अथ समासान्ताः


ऋक्पूरव्धूःपथामानक्षे ।५।४।७४।
अ अनक्षे इतिच्छेदः । ऋगाद्यन्तस्य समासस्य अप्रत्ययोऽन्तावयवोऽक्षे या धूस्तदन्तस्य तु न । अर्धर्चः । विष्णुपुरम्। विमलापं सरः । राजधुरा । अक्षे तु अक्षधूः । दृढधूरक्षः । सखिपथः । रम्यपथो देशः ॥

अक्ष्णोऽदर्शनात् ।५।४।७६।
अचक्षुःपर्यायादक्ष्णोऽच् स्यात्समासान्तः । गवामक्षीव गवाक्षः ॥

उपसर्गादध्वनः ।५।४।८५।
प्रगतोऽध्वानं प्राध्वो रथः ॥

न पूजनात् । ५।४।६९।
पूजनार्थात्परेभ्यः समासान्ता न स्युः । सुराजा । अतिराजा ॥

॥ इति समासान्ताः ॥

 

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top