अथादादयः
२.१ अद भक्षणे ।
२.२ हन हिंसागत्योः । इत्यनुदात्तावुदात्तेतौ ॥
२.३ द्विष अप्रीतौ ।
२.४ दुह प्रपूरणे ।
२.५ दिह उपचये ।
२.६ लिह आस्वादने । इति द्विषादयोऽनुदात्ताः स्वरितेतः ॥
२.७ चक्षिङ् व्यक्तायां वाचि । अयं दर्शनेऽपि । अनुदात्तोऽनुदात्तेत् ॥
२.८ ईर गतौ कम्पने च ।
२.९ ईड स्तुतौ ।
२.१० ईश ऐश्वर्ये ।
२.११ आस उपवेशने ।
२.१२ आङः शासु इच्छायाम् ।
२.१३ वस आच्छादने ।
२.१४ कसि गतिशासनयोः ।
२.१५ कस इत्येके ।
२.१६ कश इत्यन्ये इत्यपि ।
२.१७ णिसि चुम्बने ।
२.१८ णिजि शुद्धौ ।
२.१९ शिजि अव्यक्ते शब्दे ।
२.२० पिजि वर्णे । सम्पर्चन इत्येके । उभयन्नेत्यन्ये ।
अवयव इत्यपरे । अव्यक्ते शब्द इतीतरे ।
२.२१ पृजि इत्येके ।
२.२२ वृजी वर्जने ।
२.२३ वृजि इत्येके ।
२.२४ पृची सम्पर्चने सम्पर्के । इतीरादय उदात्ता अनुदात्तेतः ॥
२.२५ षूङ् प्राणिगर्भविमोचने ।
२.२६ शीङ् स्वप्ने । इत्युदात्तावात्मनेभाषौ ॥
२.२७ यु मिश्रेणेऽभिश्रणे च ।
२.२८ रु शब्दे ।
२.२९ तु तु गतिवृद्धिहिंसासु वृद्ध्यर्थः । इति सौत्रो धातुः ।
२.३० णु स्तुतौ ।
२.३१ टुक्षु शब्दे ।
२.३२ क्ष्णु तेजने ।
२.३३ ष्णु प्रस्रवणे । इति युप्रभृतय उदात्ताः परस्मैभाषाः ॥
२.३४ ऊर्णुञ् आच्छादने । उदात्त उभयतोभाषः ॥
२.३५ द्यु अभिगमने ।
२.३६ षु प्रसवैश्वर्ययोः ।
२.३७ कु शब्दे ।
२.३८ ष्टुञ् स्तुतौ । इति द्युप्रभृतयोऽनुदात्ताः परस्मैभाषाः । स्तौतिस्तूभयतोभाषः ॥
२.३९ ब्रूञ् ब्रूञ् व्यक्तायां वाचि । उदात्त उभयतोभाषः ॥
२.४० इण् गतौ ।
२.४१ इङ् अध्ययने । नित्यमधिपूर्वः ।
२.४२ इक् स्मरणे । अयमप्यधिपूर्वः ।
२.४३ वी गतिप्रजनकान्त्यसनखादनेषु ।
२.४४ या प्रापणे ।
२.४५ वा गतिगन्धनयोः ।
२.४६ भा दीप्तौ ।
२.४७ ष्णा शौचे ।
२.४८ श्रा पाके ।
२.४९ द्रा कुत्सायां गतौ ।
२.५० प्सा भक्षणे ।
२.५१ पा रक्षणे ।
२.५२ रा दाने ।
२.५३ ला आदाने दाने । द्वावपि दान इति चन्द्रः ।
२.५४ दाप् लवने ।
२.५५ ख्या प्रकथने ।
२.५६ प्रा पूरणे ।
२.५७ मा माने ।
२.५८ वच परिभाषणे । इण्प्रभृतयोऽनुदात्ताः परस्मभाषाः । इङ् त्वात्मनेभाषः ॥
२.५९ विद ज्ञाने ।
२.६० अस भुवि ।
२.६१ मृजू मृजूष् शुद्धौ ।
अथ रुदादयः ।
२.६२ रुदिर् अश्रुविमोचने । इति विदादय उदात्ता उदात्तेतः ॥
२.६३ ञिष्वप शये । इत्युदात्तेदनुदात्तः ॥
२.६४ श्वस प्राणने ।
२.६५ अन च ।
अथ जक्षित्यादयः ।
२.६६ जक्ष भक्ष्यहसनयोः । वृत् । इति रुदादयः ।
२.६७ जागृ निद्राक्षये ।
२.६८ दरिद्रा दुर्गतौ ।
२.६९ चकासृ दीप्तौ ।
२.७० शासु अनुशिष्टौ । इति श्वसादय उदात्ता उदात्तेतः ॥
अथ छान्दसा धातवः ।
२.७१ दीधीङ् दीप्तिदेवनयोः ।
२.७२ वेवीङ् वेतिना तुल्ये । इत्युदात्तावात्मनेभाषौ । वृत् । इति जक्षित्यादयः ।
२.७३ षसऽ
२.७४ षस्ति सस्ति स्वप्ने ।
२.७५ वश कान्तौ । इति षसादय उदात्ता उदात्तेतः । चर्करीतं च ।
२.७६ ह्नुङ् अपनयने । अनुदात्त आत्मनेभाषः ॥ वृत् ॥
इति लुग्विकरणा अदादयः ॥ २॥