अथ जुहोत्यादयः

Sri App
अथ जुहोत्यादयः 

३.१ हु दानादनयोः । आदाने चेत्येके । प्रीणनेऽपीति भाष्यम् ॥

३.२ ञिभी भये ।
३.३ ह्री लज्जायाम् । इति जुहोत्यादयोऽनुदात्ता परस्मैभाषाः ॥

३.४ पृई पालनपूरणयोः ।
३.५ पृ इत्येके ह्रस्वान्तोऽयमित्येके । उदात्तः परस्मैभाषः ॥

३.६ डुभृञ् धारणपोषणयोः । अनुदात्त उभयतोभाषः ॥

३.७ माङ् माने शब्दे च ।
३.८ ओहाङ् गतौ । इत्यनुदात्तावात्मनेभाषौ ॥

३.९ ओहाक् त्यागे । अनुदात्तः परस्मैभाषः ॥

३.१० डुदाञ् दाने ।
३.११ डुधाञ् धारणपोषणयोः । दान इत्यप्येके । इत्यनुदात्तावुभयतोभाषौ ॥

३.१२ णिजिर् शौचपोषणयोः ।
३.१३ विजिर् पृथग्भावे ।
३.१४ विषॢ व्याप्तौ । इति णिजिरादयोऽनुदात्ताः स्वरितेतः ॥

अथागणान्ता एकादश छान्दसाः ।
३.१५ घृ क्षरणदीप्त्योः ।
३.१६ हृ प्रसह्यकरणे ।
३.१७ ऋऽ
३.१८ सृ गतौ । घृप्रभृतयोऽनुदात्ताः परस्मैभाषाः ॥

३.१९ भस भर्त्सनदीप्त्योः । उदात्त उदात्तेत् ॥

३.२० कि ज्ञाने । अनुदात्तः परस्मैभाषः ॥

३.२१ कित च
३.२२ तुर त्वरणे ।
३.२३ धिष शब्दे ।
३.२४ धन धान्ये ।
३.२५ जन जनने । इति तुरादय उदात्ता उदात्तेतः ॥

३.२६ गा स्तुतौ । अनुदात्तः परस्मैभाषः । छन्दसि । वृत् । 
घृप्रभृतय एकादश छन्दसि । इयति भाषायामपि ॥ वृत् ॥ 
इति श्लुविकरणा जुहोत्यादयः ॥ ३॥

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top