अथ चुरादयः
१०.१ चुर स्तेये ।
१०.२ चिति स्मृत्याम् ।
१०.३ यत्रि सङ्कोचने ।
१०.४ स्फुडि परिहासे ।
१०.५ स्फुटि इत्येके इत्यपि ।
१०.६ लक्ष दर्शनाङ्कनयोः ।
१०.७ कुद्रि अनृतभाषणे ।
१०.८ कुदृ इत्येके ।
१०.९ कुडि इत्यपरे ।
१०.१० लड उपसेवायाम् ।
१०.११ मिदि स्नेहने ।
१०.१२ मिद इत्येके अयमनिदिदिति क्षीरस्वामिकौशिकौ ।
१०.१३ ओलडि उत्क्षेपने ।
१०.१४ ओलडि इत्येके ओकारो धात्ववयव इत्येके । नेत्यपरे । उलडि इत्यन्ये ।
१०.१५ जल अपवारणे ।
१०.१६ लज इत्येके ।
१०.१७ पीड अवगाहने ।
१०.१८ नट अवस्यन्दने ।
१०.१९ श्रथ प्रयत्ने । प्रस्थान इत्येके ।
१०.२० बध संयमने ।
१०.२१ बन्ध इति चान्द्राः ।
१०.२२ पृई पूरणे ।
१०.२३ ऊर्ज बलप्राणनयोः ।
१०.२४ पक्ष परिग्रहे ।
१०.२५ वर्णऽ
१०.२६ चूर्ण प्रेरणे । वर्ण वर्णन इत्येके ।
१०.२७ प्रथ प्रख्याने ।
१०.२८ पृथ प्रक्षेपे ।
१०.२९ पथ इत्येके ।
१०.३० षम्ब सम्बन्धने ।
१०.३१ शम्ब च ।
१०.३२ साम्ब इत्येके ।
१०.३३ भक्ष अदने ।
१०.३४ कुट्ट छेदनभर्त्सनयोः ।
१०.३५ पुट्टऽ
१०.३६ चुट्ट अल्पीभावे ।
१०.३७ अट्टऽ
१०.३८ षुट्ट अनादरे ।
१०.३९ लुण्ट स्तेये ।
१०.४० लुण्ठ इति केचित् ।
१०.४१ शठऽ
१०.४२ श्वठ असंस्कारगत्योः ।
१०.४३ श्वठि इत्येके ।
१०.४४ तुजऽ
१०.४५ तुजिऽ
१०.४६ पिजऽ
१०.४७ पिजिऽ
१०.४८ लजिऽ
१०.४९ लुजि हिंसाबलादाननिकेतनेषु ।
१०.५० पिस गतौ ।
१०.५१ षान्त्व सामप्रयोगे ।
१०.५२ शान्त्व इत्येके ।
१०.५३ श्वल्कऽ
१०.५४ वल्क परिभाषणे ।
१०.५५ ष्णिह स्नेहने ।
१०.५६ स्फिट इत्येके ।
१०.५७ स्मिट अनादरे ।
१०.५८ ष्मिङ् इत्येके ।
१०.५९ श्लिष श्लेषणे ।
१०.६० पथि गतौ ।
१०.६१ पिछ कुट्टने ।
१०.६२ छदि संवरणे ।
१०.६३ श्रण दाने ।
१०.६४ तड आघाते ।
१०.६५ खडऽ
१०.६६ खडिऽ
१०.६७ कडि खण्डने भेदने ।
१०.६८ कुडि रक्षणे ।
१०.६९ गुडि वेष्टने च । रक्षण इत्येके ।
१०.७० कुठि इत्यन्ये ।
१०.७१ गुठि इत्यपरे ।
१०.७२ खुडि खण्डने ।
१०.७३ वटि विभाजने ।
१०.७४ वडि इत्येके इति केचित् ।
१०.७५ चडि कोपे । चण्ड इत्यन्ये ।
१०.७६ मडि भूषायां हर्षे च ।
१०.७७ भडि कल्याणे ।
१०.७८ छर्द वमने ।
१०.७९ पुस्तऽ
१०.८० बुस्त आदरानादरयोः ।
१०.८१ चुद सञ्चोदने ।
१०.८२ नक्कऽ
१०.८३ धक्क नाशने ।
१०.८४ चक्कऽ
१०.८५ चुक्क व्यथने ।
१०.८६ क्षल शौचकर्मणि ।
१०.८७ तल प्रतिष्ठायाम् ।
१०.८८ तुल उन्माने ।
१०.८९ दुल उत्क्षेपे ।
१०.९० पुल महत्त्वे ।
१०.९१ चुल समुच्छ्राये ।
१०.९२ मूल रोहने ।
१०.९३ कलऽ
१०.९४ विल क्षेपे ।
१०.९५ बिल भेदने ।
१०.९६ तिल स्नेहने ।
१०.९७ चल भृतौ ।
१०.९८ पाल रक्षणे ।
१०.९९ पल इत्येके ।
१०.१०० लूष हिंसायाम् ।
१०.१०१ शुल्ब माने ।
१०.१०२ शूर्प च ।
१०.१०३ चुट छेदने ।
१०.१०४ मुट सञ्चूर्णने ।
१०.१०५ पिशऽ
१०.१०६ पडिऽ
१०.१०७ पसि नाशने ।
१०.१०८ पशि इत्येके ।
१०.१०९ व्रज मार्गसंस्कारगत्योः ।
१०.११० शुल्क अतिसर्जने अतिस्पर्शने ।
१०.१११ चपि गत्याम् ।
१०.११२ क्षपि क्षान्त्याम् ।
१०.११३ क्षजि कृच्छ्रजीवने ।
१०.११४ छजि इत्येके ।
१०.११५ श्वर्त गत्याम् ।
१०.११६ स्वर्त इत्येके ।
१०.११७ श्वभ्र च ।
अथ ज्ञपादयो मितः ।
१०.११८ ज्ञपम् ज्ञप ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु । मिच्चेत्येके ।
१०.११९ यमम् यम च परिवेषणे । चान्मित् ।
१०.१२० चहम् परिकल्पने ।
१०.१२१ चपम् इत्येके ।
१०.१२२ रहम् त्यागे ।
१०.१२३ बलम् प्राणने ।
१०.१२४ चिञ्म् चयने । वृत् । नान्ये मितोऽहेतौ ।
१०.१२५ घट्ट चलने ।
१०.१२६ मुस्त सङ्घाते ।
१०.१२७ खट्ट संवरणे ।
१०.१२८ षट्टऽ
१०.१२९ स्फिट्टऽ
१०.१३० चुबि हिंसायाम् ।
१०.१३१ पूल सङ्घाते ।
१०.१३२ पूर्ण इत्येके ।
१०.१३३ पुण इत्यन्ये ।
१०.१३४ पुंस अभिवर्धणे ।
१०.१३५ टकि बन्धने ।
१०.१३६ व्यप क्षेपे ।
१०.१३७ व्ययऽ
१०.१३८ विपऽ चेत्येके ।
१०.१३९ धूस कान्तिकरणे ।
१०.१४० धूष इत्येके मूर्धन्यान्त इत्येके ।
१०.१४१ धूश इत्यपरे तालव्यान्त इत्यन्ये ।
१०.१४२ कीट वर्णे वरणे ।
१०.१४३ चूर्ण सङ्कोचने ।
१०.१४४ पूज पूजायाम् ।
१०.१४५ अर्क स्तवने ।
१०.१४६ शुठ आलस्ये ।
१०.१४७ शुठि शोषणे ।
१०.१४८ जुड प्रेरणे ।
१०.१४९ गजऽ
१०.१५० मार्ज शब्दार्थौ ।
१०.१५१ मर्च च ।
१०.१५२ घृ प्रस्रवणे । स्रावण इत्येके ।
१०.१५३ पचि विस्तारवचने ।
१०.१५४ तिज निशाने निशातने ।
१०.१५५ कृईत संशब्दने ।
१०.१५६ वर्ध छेदनपूरनयोः ।
१०.१५७ कुबि आच्छादने छादने ।
१०.१५८ कुभि इत्येके ।
१०.१५९ लुबिऽ
१०.१६० तुबि अदर्शने । अर्दन इत्येके ।
१०.१६१ ह्लप व्यक्तायां वाचि ।
१०.१६२ क्लप इत्येके ।
१०.१६३ ह्रप इत्यन्ये ।
१०.१६४ चुटि छेदने ।
१०.१६५ मृडिऽ
१०.१६६ तुडिऽ
१०.१६७ इल प्रेरणे ।
१०.१६८ म्रक्ष म्लेच्छने ।
१०.१६९ म्रछ इत्येके ।
१०.१७० म्लेछऽ
१०.१७१ म्रक्ष छेदने । म्लेछ अव्यक्तायां वाचि ।
१०.१७२ ब्रूसऽ
१०.१७३ बर्ह हिंसायाम् । केचिदिह गर्जऽ गर्द शब्दे गर्ध अभिकाङ्क्षायामिति पठन्ति ।
१०.१७४ व्रूसऽ
१०.१७५ वर्ह इत्येके ।
१०.१७६ व्रूष इत्यन्ये ।
१०.१७७ गर्जऽ
१०.१७८ गर्द शब्दे ।
१०.१७९ गर्ध अभिकाङ्क्षायाम् ।
१०.१८० गुर्द पूर्वनिकेतने । गुर्दऽ
१०.१८१ पूर्व निकेतन इत्यन्ये ।
१०.१८२ जसि रक्षणे । मोक्षण इत्येके इति केचित् ।
१०.१८३ ईड स्तुतौ ।
१०.१८४ जसु हिंसायाम् ।
१०.१८५ पिडि सङ्घाते ।
१०.१८६ पिठि इत्येके ।
१०.१८७ रुष रोषे ।
१०.१८८ रुट इत्येके ।
१०.१८९ डिप क्षेपे ।
१०.१९० ष्टुप समुच्छ्राये ।
१०.१९१ ष्टूप इत्येके । इति चुरादय उदात्ता उदात्तेतः ॥
आ कुस्मादात्मनेपदिनः ।
१०.१९२ चित सञ्चेतने ।
१०.१९३ दशि दंशने दर्शनदंशनयोः ।
१०.१९४ दसि दर्शनदंशनयोः ।
१०.१९५ दस इत्यप्येके ।
१०.१९६ डपऽ
१०.१९७ डिप सङ्घाते ।
१०.१९८ तत्रि कुटुम्बधारणे ।
१०.१९९ मत्रि गुप्तपरिभाषणे ।
१०.२०० स्पश ग्रहणसंश्लेषणयोः ।
१०.२०१ तर्जऽ
१०.२०२ भर्त्स सन्तर्जने तर्जने ।
१०.२०३ बस्तऽ
१०.२०४ गन्ध अर्दने ।
१०.२०५ वस्त इत्येके ।
१०.२०६ हस्त इत्यन्ये ।
१०.२०७ विष्क हिंसायाम् ।
१०.२०८ हिष्क इत्येके ।
१०.२०९ निष्क परिमाणे ।
१०.२१० लल ईप्सायाम् ।
१०.२११ कूण सङ्कोचने ।
१०.२१२ तूण पूरणे ।
१०.२१३ भ्रूण आशाविशङ्कयोः आशायाम् ।
१०.२१४ शठ श्लाघायाम् ।
१०.२१५ यक्ष पूजायाम् ।
१०.२१६ स्यम वितर्के ।
१०.२१७ गूर उद्यमने ।
१०.२१८ शमऽ
१०.२१९ लक्ष आलोचने ।
१०.२२० कुत्स अवक्षेपने ।
१०.२२१ त्रुट छेदने ।
१०.२२२ कुट इत्येके ।
१०.२२३ गल स्रवणे ।
१०.२२४ भल आभण्डने ।
१०.२२५ कूट अप्रदाने । अवसादन इत्येके ।
१०.२२६ कुट्ट प्रतापने ।
१०.२२७ वञ्चु प्रलम्भने ।
१०.२२८ वृष शक्तिबन्धने ।
१०.२२९ मद तृप्तियोगे ।
१०.२३० दिवु परिकूजने ।
१०.२३१ गृई विज्ञाने ।
१०.२३२ विद चेतनाख्याननिवासेषु ।
१०.२३३ मन स्तम्भे ।
१०.२३४ मान इत्येके ।
१०.२३५ यु जुगुप्सायाम् ।
१०.२३६ कुस्म नाम्नो वा । कुत्सिस्मयने । इत्याकुत्सीया उदात्ता अनुदात्तेतः ॥
१०.२३७ चर्च अध्ययने ।
१०.२३८ बुक्क भाषणे ।
१०.२३९ शब्द शब्दक्रियायाम् । उपसर्गादाविष्कारे च ।
१०.२४० कण निमीलने ।
१०.२४१ जभि नाशने ।
१०.२४२ षूद क्षरणे ।
१०.२४३ जसु ताडने ।
१०.२४४ पश बन्धने ।
१०.२४५ अम रोगे ।
१०.२४६ चटऽ
१०.२४७ स्फुट भेदने ।
१०.२४८ घट सङ्घाते । हन्त्यर्थाश्च ।
१०.२४९ दिवु मर्दने ।
१०.२५० अर्ज प्रतियत्ने सम्पादने च ।
१०.२५१ घुषिर् विशब्दने ।
१०.२५२ आङः क्रन्द सातत्ये ।
१०.२५३ लस शिल्पयोगे ।
१०.२५४ तसिऽ
१०.२५५ भूष अलङ्कारे ।
१०.२५६ मोक्ष आसने असने ।
१०.२५७ अर्ह पूजायाम् ।
१०.२५८ ज्ञा नियोगे ।
१०.२५९ भज विश्राणने ।
१०.२६० शृधु प्रसहने ।
१०.२६१ यत निकारोपस्कारयोः ।
१०.२६२ रकऽ
१०.२६३ लग आस्वादने ।
१०.२६४ रघ इत्येके ।
१०.२६५ रग इत्यन्ये ।
१०.२६६ अञ्चु विशेषणे ।
१०.२६७ लिगि चित्रीकरणे ।
१०.२६८ मुद संसर्गे ।
१०.२६९ त्रस धारणे । ग्रहण इत्येके । वारण इत्यन्ये धारणग्रहणवारणेषु ।
१०.२७० उध्रस उञ्छे ।
१०.२७१ उघ्रस इत्येके उकारो धात्ववयव इत्येके । नेत्यन्ये ।
१०.२७२ मुच प्रमोचने मोदने च प्रमोचनमोदनयोः ।
१०.२७३ वस स्नेहच्छेदापहरणेषु ।
१०.२७४ चर संशये ।
१०.२७५ च्यु हसने । सहने चेत्येके ।
१०.२७६ व्युस इत्येके ।
१०.२७७ भुवोऽवकल्कने । मिश्रीकरण इत्येके । चिन्तन इत्यन्ये ।
१०.२७८ कृपेश्च ॥
आ स्वदः सकर्मकात् ।
१०.२७९ ग्रस ग्रहणे ।
१०.२८० पुष धारणे ।
१०.२८१ दल विदारणे ।
१०.२८२ पटऽ
१०.२८३ पुटऽ
१०.२८४ लुटऽ
१०.२८५ तुजिऽ
१०.२८६ मिजिऽ
१०.२८७ पिजिऽ
१०.२८८ लिजिऽ
१०.२८९ लुजिऽ
१०.२९० भजिऽ
१०.२९१ लघिऽ
१०.२९२ त्रसिऽ
१०.२९३ पिसिऽ
१०.२९४ कुसिऽ
१०.२९५ दशिऽ
१०.२९६ कुशिऽ
१०.२९७ घटऽ
१०.२९८ घटिऽ
१०.२९९ बृहिऽ वृहिऽ
१०.३०० बर्हऽ वर्हऽ
१०.३०१ बल्हऽ वल्हऽ
१०.३०२ गुपऽ
१०.३०३ धूपऽ धुपऽ
१०.३०४ विछऽ
१०.३०५ चीवऽ चीबऽ
१०.३०६ पुथऽ
१०.३०७ लोकृऽ
१०.३०८ लोचृऽ
१०.३०९ णडऽ
१०.३१० कुपऽ
१०.३११ तर्कऽ
१०.३१२ वृतुऽ
१०.३१३ वृधु भाषार्थाः ।
१०.३१४ रुटऽ
१०.३१५ लजिऽ
१०.३१६ अजिऽ
१०.३१७ दसिऽ
१०.३१८ भृशिऽ
१०.३१९ रुशिऽ
१०.३२० शीकऽ
१०.३२१ रुसिऽ
१०.३२२ नटऽ
१०.३२३ पुटिऽ
१०.३२४ जिऽ
१०.३२५ चिऽ जुचि जिवि
१०.३२६ रघिऽ
१०.३२७ लघिऽ
१०.३२८ अहिऽ
१०.३२९ रहिऽ
१०.३३० महि च ।
१०.३३१ लडिऽ
१०.३३२ तडऽ
१०.३३३ नल च ।
१०.३३४ पूरी आप्यायने ।
१०.३३५ रुज हिंसायाम् ।
१०.३३६ ष्वद आस्वादने ।
१०.३३७ स्वाद इत्येके ॥
आ धृषाद्वा ।
१०.३३८ युजऽ
१०.३३९ पृच संयमने ।
१०.३४० अर्च पूजायाम् ।
१०.३४१ षह मर्षणे ।
१०.३४२ ईर क्षेपे ।
१०.३४३ ली द्रवीकरणे ।
१०.३४४ वृजी वर्जने ।
१०.३४५ वृञ् आवरणे ।
१०.३४६ जृई वयोहानौ ।
१०.३४७ ज्रि च ।
१०.३४८ रिच वियोजनसम्पर्चनयोः ।
१०.३४९ शिष असर्वोपयोगे ।
१०.३५० तप दाहे ।
१०.३५१ तृप तृप्तौ । सन्दीपन इत्येके ।
१०.३५२ छृदी सन्दीपने ।
१०.३५३ चृपऽ
१०.३५४ छृपऽ
१०.३५५ तृपऽ
१०.३५६ दृप सन्दीपने इत्येके ।
१०.३५७ दृभी भये ग्रन्थे ।
१०.३५८ दृभ सन्दर्भे ।
१०.३५९ छद संवरणे ।
१०.३६० श्रथ मोक्षणे । हिंसायामित्येके ।
१०.३६१ मी गतौ ।
१०.३६२ ग्रन्थ बन्धने ।
१०.३६३ शीक आमर्षणे ।
१०.३६४ चीक च ।
१०.३६५ अर्द अर्द हिंसायाम् । स्वरितेदित्येके ।
१०.३६६ हिसि हिंसायाम् ।
१०.३६७ अर्ह पूजायाम् ।
१०.३६८ आङः षद पद्यर्थे ।
१०.३६९ शुन्ध शौचकर्मणि ।
१०.३७० छद अपवारणे ।
१०.३७१ जुष परितर्कने । परितर्पण इत्यन्ये ।
१०.३७२ धूञ् कम्पने ।
१०.३७३ प्रीञ् तर्पने ।
१०.३७४ श्रन्थऽ
१०.३७५ ग्रन्थ सन्दर्भे ।
१०.३७६ आपॢ आपॢ लम्भने । स्वरितेदयमित्येके ।
१०.३७७ तनु श्रद्धोपकरणयोः । उपसर्गाच्च दैर्घ्ये ।
१०.३७८ चन श्रद्धोपहननयोरित्येके ।
१०.३७९ वद वद सन्देशवचने । स्वरितेत् । अनुदात्तेदित्येके ।
१०.३८० वच परिभाषणे ।
१०.३८१ मान पूजायाम् ।
१०.३८२ भू प्राप्तावात्मनेपदी वा । णिच्सन्नियोगेनैवात्मनेपदमित्येके ।
१०.३८३ गर्ह विनिन्दने ।
१०.३८४ मार्ग अन्वेषणे ।
१०.३८५ कठि शोके । प्रायेणोत्पूर्व उत्कण्ठावचनः ।
१०.३८६ मृजू शौचालङ्कारयोः ।
१०.३८७ मृष मृष तितिक्षायाम् । स्वरितेत् । अनुदात्तेदित्येके ।
१०.३८८ धृष प्रसहने । इत्याधृषीयाः ॥
अथादन्ताः ।
१०.३८९ कथ वाक्यप्रबन्धे वाक्यप्रबन्धने ।
१०.३९० वर ईप्सायाम् ।
१०.३९१ गण सङ्ख्याने ।
१०.३९२ शठऽ
१०.३९३ श्वठ सम्यगवभाषणे ।
१०.३९४ पटऽ
१०.३९५ वट ग्रन्थे ।
१०.३९६ रह त्यागे ।
१०.३९७ रङ्ग गतौ ।
१०.३९८ स्तनऽ
१०.३९९ गदी देवशब्दे ।
१०.४०० पत गतौ वा । वादन्त इत्येके ।
१०.४०१ पष अनुपसर्गात् गतौ ।
१०.४०२ स्वर आक्षेपे ।
१०.४०३ रच प्रतियत्ने ।
१०.४०४ कल गतौ सङ्ख्याने च ।
१०.४०५ चह परिकल्कने ।
१०.४०६ मह पूजायाम् ।
१०.४०७ सारऽ सरऽ
१०.४०८ कृपऽ
१०.४०९ श्रथ दौर्बल्ये ।
१०.४१० स्पृह ईप्सायाम् ।
१०.४११ भाम क्रोधे ।
१०.४१२ सूच पैशुन्ये ।
१०.४१३ खेट भक्षणे ।
१०.४१४ खेड इत्येके ।
१०.४१५ खोट इत्यन्ये ।
१०.४१६ क्षोट क्षेपे ।
१०.४१७ गोम उपलेपने ।
१०.४१८ कुमार क्रीडायाम् ।
१०.४१९ शील उपधारणे ।
१०.४२० साम सान्त्वप्रयोगे ।
१०.४२१ वेल कालोपदेशे ।
१०.४२२ काल च इति पृथग्धातुरित्येके ।
१०.४२३ पल्यूल लवनपवनयोः ।
१०.४२४ वात सुखसेवनयोः ।
१०.४२५ गवेष मार्गणे ।
१०.४२६ वास उपसेवायाम् ।
१०.४२७ निवास आच्छादने ।
१०.४२८ भाज पृथक्कर्मणि ।
१०.४२९ सभाज प्रीतिदर्शनयोः । प्रीतिसेवनयोरित्येके ।
१०.४३० ऊन परिहाणे ।
१०.४३१ ध्वन शब्दे ।
१०.४३२ कूट परितापे । परिदाह इत्यन्ये ।
१०.४३३ सङ्केतऽ
१०.४३४ ग्रामऽ
१०.४३५ कुणऽ
१०.४३६ गुण चामन्त्रणे ।
१०.४३७ केत श्रावणे निमन्त्रणे च ।
१०.४३८ कूण सङ्कोचनेऽपि ।
१०.४३९ स्तेन चौर्ये ॥
आ गर्वादात्मनेपदिनः ।
१०.४४० पद गतौ ।
१०.४४१ गृह ग्रहणे ।
१०.४४२ मृग अन्वेषणे ।
१०.४४३ कुह विस्मापने ।
१०.४४४ शूरऽ
१०.४४५ वीर विक्रान्तौ ।
१०.४४६ स्थूल परिबृंहणे ।
१०.४४७ अर्थ उपयाच्ञायाम् ।
१०.४४८ सत्र सत्त्र सन्तानक्रियायाम् ।
१०.४४९ गर्व माने । इत्यागर्वीयाः ॥
१०.४५० सूत्र वेष्टने । विमोचन इत्यन्ये ।
१०.४५१ मूत्र प्रस्रवणे ।
१०.४५२ रूक्ष पारुष्ये ।
१०.४५३ पारऽ
१०.४५४ तीर कर्मसमाप्तौ ।
१०.४५५ पुट संसर्गे ।
१०.४५६ कत्र कत्त्र शैथिल्ये ।
१०.४५७ कर्त इत्यप्येके । प्रातिपदिकाद्धात्वर्थे बहुलमिष्टवच्च ।
तत्करोति तदाचष्टे । तेनातिक्रामति । धातुरूपं च ।
कर्तृकरणाद्धात्वर्थे ।
१०.४५८ बष्क दर्शने ।
१०.४५९ चित्र चित्रीकरणे । कदाचिद्दर्शने ।
१०.४६० अंस समाघाते ।
१०.४६१ वट विभाजने ।
१०.४६२ रट परिभाषणे ।
१०.४६३ लज प्रकाशने ।
१०.४६४ वटिऽ
१०.४६५ लजि इत्येके ।
१०.४६६ मिश्र सम्पर्के ।
१०.४६७ सङ्ग्राम युद्धे । अयमनुदात्तेत् ।
१०.४६८ स्तोम श्लाघायाम् ।
१०.४६९ छिद्र कर्णभेदने । करणभेदन इत्येके ।
१०.४७० कर्ण भेदने इति धात्वन्तरमित्यपरे ।
१०.४७१ अन्ध दृष्ट्युपघाते । उपसंहार इत्यन्ये ।
१०.४७२ दण्ड दण्डनिपाते ।
१०.४७३ अङ्क पदे लक्षणे च ।
१०.४७४ अङ्ग च ।
१०.४७५ सुखऽ
१०.४७६ दुःख तत्क्रियायाम् ।
१०.४७७ रस आस्वादनस्नेहनयोः ।
१०.४७८ व्यय वित्तसमुत्सर्गे ।
१०.४७९ रूप रूपक्रियायाम् ।
१०.४८० छेद द्वैधीकरणे ।
१०.४८१ छद अपवारणे ।
१०.४८२ लाभ प्रेरणे ।
१०.४८३ व्रण गात्रविचूर्णने ।
१०.४८४ वर्ण वर्णक्रियाविस्तारगुणवचनेषु ।
बहुलमेतन्निदर्शनम् इत्येके ।
१०.४८५ पर्ण हरितभावे ।
१०.४८६ विष्क दर्शने ।
१०.४८७ क्षप प्रेरणे ।
१०.४८८ वस निवासे ।
१०.४८९ तुत्थ आवरणे । णिङङ्गान्निरसने ।
श्वेताश्वाश्वतरगालोडिताह्वरकाणामश्वतेरेतकलोपश्च ।
पुच्छादिषु धात्वर्थ इत्येव सिद्धम् ॥ वृत् ॥ इति चुरादयः ॥ १०॥