अथ क्र्यादयः

Sri App
अथ क्र्यादयः
९.१ डुक्रीञ् द्रव्यविनिमये ।
९.२ प्रीञ् तर्पने कान्तौ च ।
९.३ श्रीञ् पाके ।
९.४ मीञ् हिंसायाम् बन्धने माने ।
९.५ षिञ् बन्धने ।
९.६ स्कुञ् आप्रवने ।
९.७ स्तम्भुऽ
९.८ स्तुम्भुऽ
९.९ स्कम्भुऽ
९.१० स्कुम्भु रोधन इत्येके । प्रथमतृतीयौ स्तम्भ इति माधवः ।
द्वितीयो निष्कोषणे चतुर्थो धारण इत्यन्ये ।
चत्वार इमे परस्मैपदिनः सौत्राश्च ।
९.११ युञ् बन्धने । इति क्र्यादयोऽनुदात्ता उभयतोभाषाः ॥

९.१२ क्नूञ् शब्दे ।
९.१३ द्रूञ् हिंसायाम् ।
अथ प्वादयः ।
९.१४ पूञ् पवने ।
९.१५ मूञ् बन्धने ।
अथ ल्वादयः ।
९.१६ लूञ् छेदने ।
९.१७ स्तृईञ् आच्छादने ।
९.१८ कृईञ् हिंसायाम् ।
९.१९ वृईञ् वरणे ।
९.२० धूञ् कम्पने । इति क्नूञ्प्रभृतय उदात्ता उभयतोभाषाः ॥

९.२१ श‍ृई हिंसायाम् ।
९.२२ पृई पालनपूरणयोः।
९.२३ वृई वरणे । भरण इत्येके ।
९.२४ भृई भर्त्सने । भरनेऽप्येके ।
९.२५ मृई हिंसायाम् ।
९.२६ दृई विदारणे ।
९.२७ जृई वयोहानौ ।
९.२८ झृई इत्येके ।
९.२९ धृई इत्यन्ये ।
९.३० नृई नये ।
९.३१ कृई हिंसायाम् ।
९.३२ ऋई गतौ ।
९.३३ गृई शब्दे । इति श‍ृणातिप्रभृतय उदात्ता उदात्तेतः ॥

९.३४ ज्या वयोहानौ ।
९.३५ री गतिरेषणयोः ।
९.३६ ली श्लेषणे ।
९.३७ व्ली वरणे ।
९.३८ ब्ली इत्येके ।
९.३९ प्ली गतौ । वृत् । इति ल्वादयः प्वादयश्च ।
९.४० व्री वरणे ।
९.४१ भ्री भये । भरण इत्येके ।
९.४२ क्षीष् हिंसायाम् ।
९.४३ ज्ञा अवबोधने ।
९.४४ बन्ध बन्धने । इति ज्यादयोऽनुदात्ताः परस्मैभाषाः ॥

९.४५ वृङ् सम्भक्तौ । उदात्त आत्मनेभाषः ॥

९.४६ श्रन्थ विमोचनप्रतिहर्षयोः ।
९.४७ मन्थ विलोडने ।
९.४८ श्रन्थऽ
९.४९ ग्रन्थ सन्दर्भे ।
९.५० कुन्थ संश्लेषणे ।
९.५१ मृद क्षोदे ।
९.५२ मृड सुखे च मृड च । अयं सुखेऽपि ।
९.५३ गुध रोषे ।
९.५४ कुष निष्कर्षे ।
९.५५ क्षुभ सञ्चलने ।
९.५६ णभऽ
९.५७ तुभ हिंसायाम् ।
९.५८ क्लिशू विबाधने ।
९.५९ अश भोजने ।
९.६० उध्रस उञ्छे ।
९.६१ इष आभीक्ष्ण्ये ।
९.६२ विष विप्रयोगे ।
९.६३ प्रुषऽ
९.६४ प्लुष स्नेहनसेवनपूरणेषु ।
९.६५ पुष पुष्टौ ।
९.६६ मुष स्तेये ।
९.६७ खच भूतप्रादुर्भावे ।
९.६८ खव इत्येके ।
९.६९ हेठ च ।
९.७० हेढ इत्येके । इति श्रन्थादय उदात्ता उदात्तेतः । क्लिशिस्तु वेट् । विषिस्त्वनुदात्तः ॥
९.७१ ग्रह उपादाने । उदात्तः स्वरितेत् ॥ वृत् ॥ इति श्नाविकरणा क्र्यादयः ॥ ९॥

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top