अथ तनादयः
८.१ तनु विस्तारे ।
८.२ षणु दाने ।
८.३ क्षणु हिंसायाम् ।
८.४ क्षिणु च ।
८.५ ऋणु गतौ ।
८.६ तृणु अदने ।
८.७ घृणु दीप्तौ । इति तनादय उदात्ता स्वरितेतः ॥
८.८ वनु वनु याचने । अयं चन्द्रमते परस्मैपदी ॥
८.९ मनु अवबोधने । इत्यनुदात्तावुदात्तेतौ ॥
८.१० डुकृञ् करणे । अनुदात्त उभयतोभाषः ॥
वृत् ॥ इत्युविकरणास्तनादयः ॥ ८॥