| अथ रुधादयः ७.१ रुधिर् आवरणे । ७.२ भिदिर् विदारणे । ७.३ छिदिर् द्वैधीकरणे । ७.४ रिचिर् विरेचने । ७.५ विचिर् पृथग्भावे । ७.६ क्षुदिर् सम्प्रेषणे । ७.७ युजिर् योगे । इति रुधादयोऽनुदात्ताः स्वरितेतः ॥ ७.८ उछृदिर् दीप्तिदेवनयोः । ७.९ उतृदिर् हिंसानादरयोः । इत्युदात्तौ स्वरितेतौ ॥ ७.१० कृती वेष्टने । उदात्त उदात्तेत् ॥ ७.११ ञिऽइन्धी दीप्तौ । उदात्तोऽनुदात्तेत् ॥ ७.१२ खिद दैन्ये । ७.१३ विद विचारणे । इत्यनुदात्तावनुदात्तेतौ ॥ ७.१४ शिषॢ विशेषणे । ७.१५ पिषॢ सञ्चूर्णने । ७.१६ भञ्जो आमर्दने । ७.१७ भुज पालनाभ्यवहारयोः । इति शिषादयोऽनुदात्ता उदात्तेतः ॥ ७.१८ तृह हिंसायाम् । ७.१९ हिसि हिंसायाम् । ७.२० उन्दी क्लेदने । ७.२१ अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु व्यक्तिमर्षणकान्तिगतिषु । ७.२२ तञ्चू सङ्कोचने । ७.२३ ओविजी भयचलनयोः । ७.२४ वृजी वर्जने । ७.२५ पृची सम्पर्के । इति तृहादय उदात्ता उदात्तेतः ॥ वृत् ॥ इति श्नम्विकरणा रुधादयः |
अथ रुधादयः
Share to other apps