अथ तुदादयः
६.१ तुद व्यथने ।
६.२ णुद प्रेरणे ।
६.३ दिश अतिसर्जने ।
६.४ भ्रस्ज पाके ।
६.५ क्षिप प्रेरणे ।
६.६ कृष विलेखने । इति तुदादयोऽनुदात्ताः स्वरितेतः ॥
६.७ ऋषी गतौ । उदात्त उदात्तेत् ॥
६.८ जुषी प्रीतिसेवनयोः ।
६.९ ओविजी भयचलनयोः ।
६.१० ओलजीऽ
६.११ ओलस्जी व्रीडायाम् व्रीडे । इति जुषादय उदात्ता अनुदात्तेतः ॥
६.१२ ओव्रश्चू छेदने ।
६.१३ व्यच व्याजीकरणे ।
६.१४ उछि उञ्छे ।
६.१५ उछी विवासे ।
६.१६ ऋछ गतीन्द्रियप्रलयमूर्तिभावेषु ।
६.१७ मिछ उत्क्लेशे ।
६.१८ जर्जऽ
६.१९ चर्चऽ
६.२० झर्झ परिभाषणभर्त्सनयोः ।
६.२१ त्वच संवरणे ।
६.२२ ऋच स्तुतौ ।
६.२३ उब्ज आर्जवे ।
६.२४ उज्झऽ उद्झ उत्सर्गे ।
६.२५ लुभ विमोहने ।
६.२६ रिफ कत्थनयुद्धनिन्दाहिंसादानेषु ।
६.२७ रिह इत्येके ।
६.२८ तृपऽ
६.२९ तृम्पऽ तृप्तौ ।
६.३० तृफऽ
६.३१ तृम्फ इत्येके ।
६.३२ तुपऽ
६.३३ तुम्पऽ
६.३४ तुफऽ
६.३५ तुम्फ हिंसायाम् ।
६.३६ दृपऽ
६.३७ दृम्प उत्क्लेशे ।
६.३८ दृफऽ
६.३९ दृम्फ इत्येके ।
६.४० ऋफऽ
६.४१ ऋम्फ हिंसायाम् ।
६.४२ गुफऽ
६.४३ गुम्फ ग्रन्थे ।
६.४४ उभऽ
६.४५ उम्भ पूरणे ।
६.४६ शुभऽ
६.४७ शुम्भ शोभार्थे ।
६.४८ दृभी ग्रन्थे ।
६.४९ चृती हिंसाग्रन्थनयोः ।
६.५० विध विधाने ।
६.५१ जुड गतौ ।
६.५२ जुन इत्येके ।
६.५३ मृड सुखने ।
६.५४ पृड च ।
६.५५ पृण प्रीणने ।
६.५६ वृण च ।
६.५७ मृण हिंसायाम् ।
६.५८ तुण कौटिल्ये ।
६.५९ पुण कर्मणि शुभे ।
६.६० मुण प्रतिज्ञाने ।
६.६१ कुण शब्दोपकरणयोः शब्दोपतापयोः ।
६.६२ शुन गतौ ।
६.६३ द्रुण हिंसागतिकौटिल्येषु ।
६.६४ घुणऽ
६.६५ घूर्ण भ्रमणे ।
६.६६ षुर ऐश्वर्यदीप्त्योः ।
६.६७ कुर शब्दे ।
६.६८ खुर छेदने ।
६.६९ मुर संवेष्टने सञ्चेष्टने ।
६.७० क्षुर विलेखने ।
६.७१ घुर भीमार्थशब्दयोः ।
६.७२ पुर अग्रगमने ।
६.७३ वृहू उद्यमने ।
६.७४ बृहू इत्येके ।
६.७५ तृहूऽ
६.७६ स्तृहूऽ
६.७७ तृंहू हिंसार्थाः ।
६.७८ इष इषु इच्छायाम् ।
६.७९ मिष स्पर्धायाम् ।
६.८० किल श्वैत्यक्रीडनयोः श्वैत्ये ।
६.८१ तिल स्नेहने स्नेहे ।
६.८२ चिल वसने ।
६.८३ चल विलसने ।
६.८४ इल स्वप्नक्षेपनयोः ।
६.८५ विल संवरणे ।
६.८६ बिल भेदने ।
६.८७ णिल गहने ।
६.८८ हिल भावकरणे ।
६.८९ शिलऽ
६.९० षिल उञ्छे ।
६.९१ मिल श्लेषणे ।
६.९२ लिख अक्षरविन्यासे ।
अथ कुटादयः ।
६.९३ कुट कौटिल्ये ।
६.९४ पुट संश्लेषणे ।
६.९५ कुच सङ्कोचने ।
६.९६ गुज शब्दे ।
६.९७ गुड रक्षायाम् ।
६.९८ डिप क्षेपे ।
६.९९ छुर छेदने ।
६.१०० स्फुट विकसने ।
६.१०१ मुट आक्षेपप्रमर्दनयोः ।
६.१०२ त्रुट छेदने ।
६.१०३ तुट कलहकर्मणि ।
६.१०४ चुटऽ
६.१०५ छुट छेदने ।
६.१०६ जुड बन्धने ।
६.१०७ जुट इत्येके ।
६.१०८ कड मदे ।
६.१०९ लुट संश्लेषणे ।
६.११० लुठ इत्येके ।
६.१११ लुड इत्यन्ये ।
६.११२ कृड घनत्वे ।
६.११३ कुड बाल्ये ।
६.११४ पुड उत्सर्गे ।
६.११५ घुट प्रतिघाते ।
६.११६ तुड तोडने ।
६.११७ थुडऽ
६.११८ स्थुड संवरणे ।
६.११९ खुडऽ
६.१२० छुड इत्येके ।
६.१२१ स्फुरऽ
६.१२२ स्फुल सञ्चलने । स्फुर स्फुरणे । स्फुल सञ्चलन इत्येके ।
६.१२३ स्फरऽ
६.१२४ स्फल इत्यन्ये ।
६.१२५ स्फुडऽ
६.१२६ चुडऽ
६.१२७ व्रुड संवरणे ।
६.१२८ क्रुडऽ
६.१२९ भृड निमज्जने इत्येके ।
६.१३० हुड सङ्घाते । इति व्रश्चादय उदात्ता उदात्तेतः ॥
६.१३१ गुरी उद्यमने । उदात्त अनुदात्तेत् ॥
६.१३२ णू णु स्तुतौ ।
६.१३३ धू धु विधूनने । इत्युदात्तौ परस्मैभाषौ ॥
६.१३४ गु पुरीषोत्सर्गे ।
६.१३५ ध्रु गतिस्थैर्ययोः । ध्रुव इत्येके । इत्यनुदात्तौ परस्मैभाषौ ॥
६.१३६ कुङ् शब्दे ।
६.१३७ कूङ् इत्येके दीर्घान्त इति कैयटादयः । ह्रस्वान्त इति न्यासः ।
उदात्त आत्मनेभाषः । वृत् । कुटादयो गताः ॥
६.१३८ पृङ् व्यायामे ।
६.१३९ मृङ् प्राणत्यागे । इत्यनुदात्तावात्मनेभाषौ ॥
६.१४० रिऽ
६.१४१ पि गतौ ।
६.१४२ धि धारणे ।
६.१४३ क्षि निवासगत्योः । इति रियत्यादयोऽनुदात्ताः परस्मैभाषाः ॥
६.१४४ षू प्रेरणे ।
अथ किरादयः ।
६.१४५ कृई विक्षेपे निक्षेपे ।
६.१४६ गृई निगरणे । इत्युदात्ताः परस्मैभाषाः ॥
६.१४७ दृङ् आदरे ।
६.१४८ धृङ् अवस्थाने । इत्यनुदात्तावात्मनेभाषौ ॥
६.१४९ प्रछ ज्ञीप्सायाम् । वृत् । किरादयो वृत्ताः ॥
६.१५० सृज विसर्गे ।
६.१५१ टुमस्जो शुद्धौ ।
६.१५२ रुजो भङ्गे ।
६.१५३ भुजो कौटिल्ये ।
६.१५४ छुप स्पर्शे ।
६.१५५ रुशऽ
६.१५६ रिश हिंसायाम् ।
६.१५७ लिश गतौ ।
६.१५८ स्पृश संस्पर्शने ।
६.१५९ विछ गतौ ।
६.१६० विश प्रवेशने ।
६.१६१ मृश आमर्शणे ।
६.१६२ णुद प्रेरणे ।
६.१६३ षदॢ विशरणगत्यवसादनेषु ।
६.१६४ शदॢ शातने । इति पृच्छत्यादयोऽनुदात्ता उदात्तेतः । विछिस्तूदात्तः ॥
६.१६५ मिल सङ्गमे सङ्गमने । उदात्तः स्वरितेत् ॥
अथ मुचादयः ।
६.१६६ मुचॢ मोक्षणे मोचने ।
६.१६७ लुपॢ छेदने ।
६.१६८ विदॢ लाभे ।
६.१६९ लिप उपदेहे ।
६.१७० षिच क्षरणे । इति मुचादयोऽनुदात्ताः स्वरितेतः । विन्दतिस्तूदात्तः ॥
६.१७१ कृती छेदने ।
६.१७२ खिद परिघाते परिघातने ।
६.१७३ पिश अवयवे । अयं दीपनायामपि ।
इत्युदात्ता उदात्तेतः । खिदिस्त्वनुदात्तः । वृत् । मुचादयो वृत्ताः ॥
वृत् ॥ इति शविकरणास्तुदादयः ॥ ६॥