अथ स्वादयः

Sri App
अथ स्वादयः 

५.१ षुञ् अभिषवे ।
५.२ षिञ् बन्धने ।
५.३ शिञ् निशाने ।
५.४ डुमिञ् प्रक्षेपने ।
५.५ चिञ् चयने ।
५.६ स्तृञ् आच्छादने ।
५.७ कृञ् हिंसायाम् ।
५.८ वृञ् वरणे ।
५.९ धुञ् कम्पने ।
५.१० धूञ् इत्येके दीर्घन्तोऽपीत्येके । इति स्वादयो वृञ्वर्जमनुदात्ता उभयतोभाषाः ॥

५.११ टुदु उपतापे ।
५.१२ हि गतौ वृद्धौ च ।
५.१३ पृ प्रीतौ ।
५.१४ स्पृ प्रीतिपालनयोः । प्रीतिचलनयोरित्यन्ये ।
५.१५ स्मृ इत्येके । पृणोत्यादस्त्रयोऽपि छान्दसा इत्याहुः ।
५.१६ आपॢ व्याप्तौ ।
५.१७ शकॢ शक्तौ ।
५.१८ राधऽ
५.१९ साध संसिद्धौ । इति दुनोतिप्रभृतयोऽनुदात्ताः परस्मैभाषाः ॥

५.२० अशू व्याप्तौ सङ्घाते च ।
५.२१ ष्टिघ आस्कन्दने । इत्युदात्तावनुदात्तेतौ ॥

अथ तिकादयः ।
५.२२ तिकऽ
५.२३ तिग गतौ च ।
५.२४ षघ हिंसायाम् ।
५.२५ ञिधृषा प्रागल्भ्ये ।
५.२६ दम्भु दम्भने दम्भे ।
५.२७ ऋधु वृद्धौ ।
५.२८ तृप प्रीणन इत्येके ।
छन्दसि । अथागणान्ताश्छान्दसाः ।
५.२९ अह व्याप्तौ ।
५.३० दघ घातने पालने च ।
५.३१ चमु भक्षणे ।
५.३२ रिऽ ऋऽ
५.३३ क्षिऽ क्षीऽ
५.३४ चिरिऽ
५.३५ जिरिऽ
५.३६ दाशऽ
५.३७ दृई हिंसायाम् । क्षिर्भाषायामित्येके ।
५.३८ ऋऽ
५.३९ क्षी इत्येक एवाजादिरित्येके । रेफवानित्यन्ये । वृत् । 
इति तिकादय उदात्ताः परस्मैभाषाः ॥ वृत् ॥ इति श्नुविकरणाः स्वादयः ॥ ५॥

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top