अथ स्त्रीप्रत्ययाः

Sri App

अथ स्त्रीप्रत्ययाः


स्त्रियाम् ।४।१।३।
अधिकारोऽयम् । समर्थानामिति यावत् ॥

अजाद्यतष्टाप् ।४।१।४।
अजादीनामकारान्तस्य च वाच्यं यत् स्त्रीत्वं तत्र द्योत्ये टाप् स्यात् । अजा । एडका । अश्वा । चटका । मूषिका । बाला । वत्सा । होडा । मन्दा । विलाता । इत्यादि । मेधा । गङ्गा । सर्वा ॥

उगितश्च ।४।१।६।
उगिदन्तात्प्रातिपदिकात्स्त्रियां ङीप्स्यात् । भवन्ती । भवन्ती । पचन्ती । दीव्यन्ती ॥

टिड्ढाणञ्द्वयसज्दघ्नज्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः ।४।१।१५।
अनुपसर्जनं यट्टिदादि तदन्तं यददन्तं ततः स्त्रियां ङीप्स्यात् । कुरुचरी । नदट् नदी । देवट् देवी । सौपर्णेयी । ऐन्द्री। औत्सी । ऊरुद्वयसी । उरुदध्नी । उरुमात्री । पञ्चतयी । आक्षिकी । लावणिकी । यादृशी । इत्वरी । (नञ्स्नञीकक्ख्युंस्तरुणतलुनानामुपसंख्यानम्) । स्त्रैणी । पौंस्नी । शाक्तीकी । याष्टीकी । आढ्यङ्करणी । तरुणी । तलुनी ॥

यञश्च ।४।१।१६।
यञन्तात् स्त्रियां ङीप्स्यात् । अकारलोपे कृते –

हलस्तद्धितस्य ।६।४।१५०।
हलः परस्य तद्धितयकारस्योपधाभूतस्य लोप ईति परे । गार्गी ॥

प्राचां ष्फ तद्धितः ।४।१।१७।
यञन्तात् ष्फो वा स्यात्स च तद्धितः ॥

षिद्गौरादिभ्यश्च ।४।१।४१।
षिद्भ्यो गौरादिभ्यश्च स्त्रियां ङीष् स्यात् । गार्ग्यायणी । नर्तकी । गौरी । अनडुही । अनड्वाही । आकृतिगणोऽयम्॥

वयसि प्रथमे ।४।१।२०।
प्रथमवयोवाचिनोऽदन्तात् स्त्रियां ङीप्स्यात् । कुमारी ॥

द्विगोः ।४।१।२१।
अदन्ताद् द्विगोर्ङीप्स्यात् । त्रिलोकी । अजादित्वात्त्रिफला । त्र्यनीका सेना ॥

वर्णादनुदात्तात्तोपधात्तो नः ।४।१।३९।
वर्णवाची योऽनुदात्तान्तस्तोपधस्तदन्तादनुपसर्जनात्प्रातिपदिकाद्वा ङीप् तकारस्य नकारादेशश्च । एनी, एता । रोहिणी, रोहिता ॥

वोतो गुणवचनात् ।४।१।४४।
उदन्ताद् गुणवाचिनो वा ङीष् स्यात् । मृद्वी, मृदुः ॥

बह्वादिभ्यश्च ।४।१।४५।
एभ्यो वा ङीष् स्यात् । बह्वी, बहुः । (कृदिकारादक्तिनः) । रात्री, रात्रिः । (सर्वतोऽक्तिन्नर्थादित्येके) । शकटी । शकटिः ॥

पुंयोगादाख्यायाम् ।४।१।४८।
या पुमाख्या पुंयोगात् स्त्रियां वर्तते ततो ङीष् । गोपस्य स्त्री गोपी । (पालकान्तान्न) –

प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः ।७।३।४४।
प्रत्ययस्थात्कात्पूर्वस्याकारस्येकारः स्यादापि स आप्सुपः परो न चेत् । गोपालिका । अश्वपालिका । सर्विका । कारिका । अतः किम् ? नौका । प्रत्ययस्थात्किम् ? शक्नोतीति शका । असुपः किम् ? बहुपरिव्राजका नगरी । (सूर्याद्देवतायां चाब्वाच्यः) । सूर्यस्य स्त्री देवता सूर्या । देवतायां किम् ? (सूर्यागस्त्ययोश्छे च ङ्यां च) । यलोपः । सूरी – कुन्ती, मानुषीयम् ॥

इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक् ।४।१।४९।
एषामानुगागमः स्यात् ङीष् च । इन्द्रस्य स्त्री – इन्द्राणी । वरुणानी । भवानी । शर्वाणी । रुद्राणी । मृडानी । (हिमारण्ययोर्महत्त्वे) । महद्धिमं हिमानी । महदरण्यमरण्यानी । (यवाद्दोषे) । दुष्टो यवो यवानी । (यवन्नाल्लिप्याम्) । यवनानां लिपिर्यवनानी । (मातुलोपाध्याययोरानुग्वा) । मातुलानी, मातुली । उपाध्यायानी, उपाध्यायी । (आचार्यादणत्वं च) । आचार्यस्य स्त्री आचार्यानी । (अर्यक्षत्रियाभ्यां वा स्वार्थे), अर्याणी, अर्या । क्षत्रियाणी, क्षत्रिया ॥

क्रीतात्करणपूर्वात् ।४।१।५०।
क्रीतान्ताददन्तात् करणादेः स्त्रियां ङीष् स्यात् । वस्त्रक्रीती । क्वचिन्न । धनक्रीता ॥

स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ।४।१।५४।
असंयोगोपधमुपसर्जनं यत् स्वाङ्गं तदन्ताददन्तान् ङीष् वा स्यात् । केशानतिक्रान्ता – अतिकेशी, अतिकेशा । चन्द्रमुखी । चन्द्रमुखा । असंयोगोपधात्किम् ? सुगुल्फा । उपसर्जनात्किम् ? शिखा ॥

न क्रोडादिबह्वचः ।४।१।५६।
क्रोडादेर्बह्वचश्च स्वाङ्गान्न ङीष् । कल्याणक्रोडा । आकृतिगणोऽयम् । सुजघना ॥

नखमुखात्संज्ञायाम् ।४।१।५८।
न ङीष् ॥

पूर्वपदात्संज्ञायामगः ।८।४।३।
पूर्वपदस्थान्निमित्तात्परस्य नस्य णः स्यात् संज्ञायां न तु गकारव्यवधाने । शूर्पणखा । गौरमुखा । संज्ञायां किम् ? ताम्रमुखी कन्या ॥

जातेरस्त्रीविषयादयोपधात् ।४।१।६३।
जातिवाचि यन्न च स्त्रियां नियतमयोपधं ततः स्त्रियां ङीष् स्यात् । तटी । वृषली । कठी । बह्वृची । जातेः किम् ? मुण्डा । अस्त्रीविषयात्किम् ? बलाका । अयोपधात्किम् ? क्षत्रिया । (योपधप्रतिषेधे हयगवयमुकयमनुष्यमत्स्यानामप्रतिषेधः) । हयी । गवयी । मुकयी । हलस्तद्धितस्येति यलोपः । मनुषी । (मत्स्यस्य ङ्यां) । यलोपः । मत्सी ॥

इतो मनुष्यजातेः ।४।१।६५।
ङीष् । दाक्षी ॥

ऊङुतः ।४।१।६६।
उदन्तादयोपधान्मनुष्यजातिवाचिनः स्त्रियामूङ् स्यात् । कुरूः । अयोपधात्किम् ? अध्वर्युर्ब्राह्मणी ॥

पङ्गोश्च ।४।१।६८।
पङ्गूः । (श्वशुरस्योकाराकारलोपश्च) । श्वश्रूः ॥

ऊरूत्तरपदादौपम्ये ।४।१।६९।
उपमानवाचि पूर्वपदमूरूत्तरपदं यत्प्रातिपदिकं तस्मादूङ् स्यात् । करभोरूः ॥

संहितशफलक्षणवामादेश्च ।४।१।७०।
अनौपम्यार्थं सूत्रम् । संहितोरूः । शफोरूः । लक्षणोरूः । वामोरूः ॥

शार्ङ्गरवाद्यञो ङीन् ।४।१।७३।
शार्ङ्गरवादेरञो योऽकारस्तदन्ताच्च जातिवाचिनो ङीन् स्यात् । शार्ङ्गरवी । वैदी । ब्राह्मणी । (नृनरयोर्वृद्धिश्च) । नारी ॥

यूनस्तिः ।४।१।७७।
युवञ्छब्दात् स्त्रियां तिः प्रत्ययः स्यात् । युवतिः ॥

॥ इति स्त्रीप्रत्ययाः ॥

     शास्त्रान्तरे प्रविष्टानां बालानां चोपकारिका ।
      कृता वरदराजेन लघुसिद्धान्तकौमुदी ॥॥

 इति श्रीवरदराजकृता लघुसिद्धान्तकौमुदी समाप्ता ॥

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top