अष्टाध्यायी पंचमः अध्यायः

Sri App
अष्टाध्यायी पंचमः 
अध्यायः

प्रथमः पादः

५-१-१ प्राक् क्रीताच्छः ।
५-१-२ उगवादिभ्योऽत्‌ ।
५-१-३ कम्बलाच्च संज्ञायाम् ।
५-१-४ विभाषा हविरपूपादिभ्यः ।
५-१-५ तस्मै हितम् ।
५-१-६ शरीरावयवाद्यत्‌ ।
५-१-७ खलयवमाषतिलवृषब्रह्मणश्च ।
५-१-८ अजाविभ्यां थ्यन् ।
५-१-९ आत्मन्विश्वजनभोगोत्तरपदात्‌ खः ।
५-१-१० सर्वपुरुषाभ्यां णढञौ ।
५-१-११ माणवचरकाभ्यां खञ् ।
५-१-१२ तदर्थं विकृतेः प्रकृतौ ।
५-१-१३ छदिरुपधिबलेः ढञ् ।
५-१-१४ ऋषभोपानहोर्ञ्यः ।
५-१-१५ चर्म्मणोऽञ् ।
५-१-१६ तदस्य तदस्मिन् स्यादिति ।
५-१-१७ परिखाया ढञ् ।
५-१-१८ प्राग्वतेष्ठञ् ।
५-१-१९ आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् ।
५-१-२० असमासे निष्कादिभ्यः ।
५-१-२१ शताच्च ठन्यतावशते ।
५-१-२२ संख्याया अतिशदन्तायाः कन् ।
५-१-२३ वतोरिड्वा ।
५-१-२४ विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्‌ ।
५-१-२५ कंसाट्टिठन् ।
५-१-२६ शूर्पादञन्यतरस्याम् ।
५-१-२७ शतमानविंशतिकसहस्रवसनादण् ।
५-१-२८ अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् ।
५-१-२९ विभाषा कार्षापणसहस्राभ्याम् ।
५-१-३० द्वित्रिपूर्वान्निष्कात्‌ ।
५-१-३१ बिस्ताच्च ।
५-१-३२ विंशतिकात्‌ खः ।
५-१-३३ खार्या ईकन् ।
५-१-३४ पणपादमाषशतादत्‌ ।
५-१-३५ शाणाद्वा ।
५-१-३६ द्वित्रिपूर्वादण् च ।
५-१-३७ तेन क्रीतम् ।
५-१-३८ तस्य निमित्तं संयोगोत्पातौ ।
५-१-३९ गोद्व्यचोरसंख्यापरिमाणाश्वादेर्यत्‌ ।
५-१-४० पुत्राच्छ च ।
५-१-४१ सर्वभूमिपृथिवीभ्यामणञौ ।
५-१-४२ तस्येश्वरः ।
५-१-४३ तत्र विदित इति च ।
५-१-४४ लोकसर्वलोकाट्ठञ् ।
५-१-४५ तस्य वापः ।
५-१-४६ पात्रात् ष्ठन् ।
५-१-४७ तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते ।
५-१-४८ पूरणार्धाट्ठन् ।
५-१-४९ भागाद्यच्च ।
५-१-५० तद्धरति वहत्यावहति भाराद्वंशादिभ्यः ।
५-१-५१ वस्नद्रव्याभ्यां ठन्कनौ ।
५-१-५२ सम्भवत्यवहरति पचति ।
५-१-५३ आढकाचितपात्रात्‌ खोऽन्यतरयाम् ।
५-१-५४ द्विगोष्ठंश्च ।
५-१-५५ कुलिजाल्लुक्खौ च ।
५-१-५६ सोऽस्यांशवस्नभृतयः ।
५-१-५७ तदस्य परिमाणम् ।
५-१-५८ संख्यायाः संज्ञासंघसूत्राध्ययनेषु ।
५-१-५९ पङ्क्तिविंशतित्रिंशत्चत्वारिंशत्पञ्चाशत्षष्टि\-
सप्तत्यशीतिनवतिशतम् ।
५-१-६० पञ्चद्दशतौ वर्गे वा ।
५-१-६१ सप्तनोऽञ् छन्दसि ।
५-१-६२ त्रिंशच्चत्वारिंशतोर्ब्राह्मणे संज्ञायां डण् ।
५-१-६३ तद् अर्हति ।
५-१-६४ छेदादिभ्यो नित्यम् ।
५-१-६५ शीर्षच्छेदाद्यच्च ।
५-१-६६ दण्डादिभ्यः ।
५-१-६७ छन्दसि च ।
५-१-६८ पात्राद्घंश्च ।
५-१-६९ कडङ्गरदक्षिणाच्छ च ।
५-१-७० स्थालीबिलात्‌ ।
५-१-७१ यज्ञर्त्विग्भ्यां घखञौ ।
५-१-७२ पारायणतुरायणचान्द्रायणं वर्तयति ।
५-१-७३ संशयमापन्नः ।
५-१-७४ योजनं गच्छति ।
५-१-७५ पथः ष्कन् ।
५-१-७६ पन्थो ण नित्यम् ।
५-१-७७ उत्तरपथेनाहृतं च ।
५-१-७८ कालात्‌ ।
५-१-७९ तेन निर्वृत्तम् ।
५-१-८० तमधीष्टो भृतो भूतो भावी ।
५-१-८१ मासाद्वयसि यत्खञौ ।
५-१-८२ द्विगोर्यप्‌ ।
५-१-८३ षण्मासाण्ण्यच्च ।
५-१-८४ अवयसि ठंश्च ।
५-१-८५ समायाः खः ।
५-१-८६ द्विगोर्वा ।
५-१-८७ रात्र्यहस्संवत्सराच्च ।
५-१-८८ वर्षाल्लुक् च ।
५-१-८९ चित्तवति नित्यम् ।
५-१-९० षष्टिकाः षष्टिरात्रेण पच्यन्ते ।
५-१-९१ वत्सरान्ताच्छश्छन्दसि ।
५-१-९२ सम्परिपूर्वात्‌ ख च ।
५-१-९३ तेन परिजय्यलभ्यकार्यसुकरम् ।
५-१-९४ तदस्य ब्रह्मचर्यम् ।
५-१-९५ तस्य च दक्षिणा यज्ञाख्येभ्यः ।
५-१-९६ तत्र च दीयते कार्यं भववत्‌ ।
५-१-९७ व्युष्टादिभ्योऽण् ।
५-१-९८ तेन यथाकथाचहस्ताभ्यां णयतौ ।
५-१-९९ सम्पादिनि ।
५-१-१०० कर्मवेषाद्यत् ।
५-१-१०१ तस्मै प्रभवति संतापादिभ्यः ।
५-१-१०२ योगाद्यच्च ।
५-१-१०३ कर्मण उकञ् ।
५-१-१०४ समयस्तदस्य प्राप्तम् ।
५-१-१०५ ऋतोरण् ।
५-१-१०६ छन्दसि घस् ।
५-१-१०७ कालाद्यत्‌ ।
५-१-१०८ प्रकृष्टे ठञ् ।
५-१-१०९ प्रयोजनम् ।
५-१-११० विशाखाऽऽषाढादण् मन्थदण्डयोः ।
५-१-१११ अनुप्रवचनादिभ्यश्छः ।
५-१-११२ समापनात्‌ सपूर्वपदात्‌ ।
५-१-११३ ऐकागारिकट् चौरे ।
५-१-११४ आकालिकडाद्यन्तवचने ।
५-१-११५ तेन तुल्यं क्रिया चेद्वतिः ।
५-१-११६ तत्र तस्येव ।
५-१-११७ तदर्हम् ।
५-१-११८ उपसर्गाच्छन्दसि धात्वर्थे ।
५-१-११९ तस्य भावस्त्वतलौ ।
५-१-१२० आ च त्वात्‌ ।
५-१-१२१ न
नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतर\-
सलसेभ्यः ।
५-१-१२२ पृथ्वादिभ्य इमनिज्वा ।
५-१-१२३ वर्णदृढादिभ्यः ष्यञ् च ।
५-१-१२४ गुणवचनब्राह्मणादिभ्यः कर्मणि च ।
५-१-१२५ स्तेनाद्यन्नलोपश्च ।
५-१-१२६ सख्युर्यः ।
५-१-१२७ कपिज्ञात्योर्ढक् ।
५-१-१२८ पत्यन्तपुरोहितादिभ्यो यक् ।
५-१-१२९ प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् ।
५-१-१३० हायनान्तयुवादिभ्योऽण् ।
५-१-१३१ इगन्ताच्च लघुपूर्वात्‌ ।
५-१-१३२ योपधाद्गुरूपोत्तमाद्वुञ् ।
५-१-१३३ द्वंद्वमनोज्ञादिभ्यश्च ।
५-१-१३४ गोत्रचरणाच्श्लाघाऽत्याकारतदवेतेषु ।
५-१-१३५ होत्राभ्यश्छः ।
५-१-१३६ ब्रह्मणस्त्वः ।
द्वितीयः पादः
५-२-१ धान्यानां भवने क्षेत्रे खञ् ।
५-२-२ व्रीहिशाल्योर्ढक् ।
५-२-३ यवयवकषष्टिकादत्‌ ।
५-२-४ विभाषा तिलमाषोमाभङ्गाऽणुभ्यः ।
५-२-५ सर्वचर्मणः कृतः खखञौ ।
५-२-६ यथामुखसंमुखस्य दर्शनः खः ।
५-२-७ तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति ।
५-२-८ आप्रपदं प्राप्नोति ।
५-२-९ अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु ।
५-२-१० परोवरपरम्परपुत्रपौत्रमनुभवति ।
५-२-११ अवारपारात्यन्तानुकामं गामी ।
५-२-१२ समांसमां विजायते ।
५-२-१३ अद्यश्वीनाऽवष्टब्धे ।
५-२-१४ आगवीनः ।
५-२-१५ अनुग्वलंगामी ।
५-२-१६ अध्वनो यत्खौ ।
५-२-१७ अभ्यमित्राच्छ च ।
५-२-१८ गोष्ठात्‌ खञ् भूतपूर्वे ।
५-२-१९ अश्वस्यैकाहगमः ।
५-२-२० शालीनकौपीने अधृष्टाकार्ययोः ।
५-२-२१ व्रातेन जीवति ।
५-२-२२ साप्तपदीनं सख्यम् ।
५-२-२३ हैयंगवीनं संज्ञायाम् ।
५-२-२४ तस्य पाकमूले पील्वदिकर्णादिभ्यः कुणब्जाहचौ ।
५-२-२५ पक्षात्तिः ।
५-२-२६ तेन वित्तश्चुञ्चुप्चणपौ ।
५-२-२७ विनञ्भ्यां नानाञौ नसह ।
५-२-२८ वेः शालच्छङ्कटचौ ।
५-२-२९ सम्प्रोदश्च कटच् ।
५-२-३० अवात्‌ कुटारच्च ।
५-२-३१ नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्राटचः ।
५-२-३२ नेर्बिडज्बिरीसचौ ।
५-२-३३ इनच्पिटच्चिकचि च ।
५-२-३४ उपाधिभ्यां त्यकन्नासन्नारूढयोः ।
५-२-३५ कर्मणि घटोऽठच् ।
५-२-३६ तदस्य संजातं तारकाऽऽदिभ्य इतच् ।
५-२-३७ प्रमाणे द्वयसज्दघ्नञ्मात्रचः ।
५-२-३८ पुरुषहस्तिभ्यामण् च ।
५-२-३९ यद्तदेतेभ्यः परिमाणे वतुप्‌ ।
५-२-४० किमिदंभ्यां वो घः ।
५-२-४१ किमः संख्यापरिमाणे डति च ।
५-२-४२ संख्याया अवयवे तयप्‌ ।
५-२-४३ द्वित्रिभ्यां तयस्यायज्वा ।
५-२-४४ उभादुदात्तो नित्यम् ।
५-२-४५ तदस्मिन्नधिकमिति दशान्ताड्डः ।
५-२-४६ शदन्तविंशतेश्च ।
५-२-४७ संख्याया गुणस्य निमाने मयट् ।
५-२-४८ तस्य पूरणे डट् ।
५-२-४९ नान्तादसंख्याऽऽदेर्मट् ।
५-२-५० थट् च च्छन्दसि ।
५-२-५१ षट्कतिकतिपयचतुरां थुक् ।
५-२-५२ बहुपूगगणसंघस्य तिथुक् ।
५-२-५३ वतोरिथुक् ।
५-२-५४ द्वेस्तीयः ।
५-२-५५ त्रेः सम्प्रसारणम् च ।
५-२-५६ विंशत्यादिभ्यस्तमडन्यतरस्याम् ।
५-२-५७ नित्यं शतादिमासार्धमाससंवत्सराच्च ।
५-२-५८ षष्ट्यादेश्चासंख्याऽऽदेः ।
५-२-५९ मतौ च्छः सूक्तसाम्नोः ।
५-२-६० अध्यायानुवाकयोर्लुक् ।
५-२-६१ विमुक्तादिभ्योऽण् ।
५-२-६२ गोषदादिभ्यो वुन् ।
५-२-६३ तत्र कुशलः पथः ।
५-२-६४ आकर्षादिभ्यः कन् ।
५-२-६५ धनहिरण्यात्‌ कामे ।
५-२-६६ स्वाङ्गेभ्यः प्रसिते ।
५-२-६७ उदराट्ठगाद्यूने ।
५-२-६८ सस्येन परिजातः ।
५-२-६९ अंशं हारी ।
५-२-७० तन्त्रादचिरापहृते ।
५-२-७१ ब्राह्मणकोष्णिके संज्ञायाम् ।
५-२-७२ शीतोष्णाभ्यां कारिणि ।
५-२-७३ अधिकम् ।
५-२-७४ अनुकाभिकाभीकः कमिता ।
५-२-७५ पार्श्वेनान्विच्छति ।
५-२-७६ अयःशूलदण्डाजिनाभ्यां ठक्ठञौ ।
५-२-७७ तावतिथं ग्रहणमिति लुग्वा ।
५-२-७८ स एषां ग्रामणीः ।
५-२-७९ शृङ्खलमस्य बन्धनं करभे ।
५-२-८० उत्क उन्मनाः ।
५-२-८१ कालप्रयोजनाद्रोगे ।
५-२-८२ तदस्मिन्नन्नं प्राये संज्ञायाम्‌ ।
५-२-८३ कुल्माषादञ् ।
५-२-८४ श्रोत्रियंश्छन्दोऽधीते ।
५-२-८५ श्राद्धमनेन भुक्तमिनिठनौ ।
५-२-८६ पूर्वादिनिः ।
५-२-८७ सपूर्वाच्च ।
५-२-८८ इष्टादिभ्यश्च ।
५-२-८९ छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि ।
५-२-९० अनुपद्यन्वेष्टा ।
५-२-९१ साक्षाद्द्रष्टरि संज्ञायाम् ।
५-२-९२ क्षेत्रियच् परक्षेत्रे चिकित्स्यः ।
५-२-९३
इन्द्रियमिन्द्रलिंगमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टम्\-
इन्द्रदत्तमिति वा ।
५-२-९४ तदस्यास्त्यस्मिन्निति मतुप्‌ ।
५-२-९५ रसादिभ्यश्च ।
५-२-९६ प्राणिस्थादातो लजन्यतरस्याम् ।
५-२-९७ सिध्मादिभ्यश्च ।
५-२-९८ वत्सांसाभ्यां कामबले ।
५-२-९९ फेनादिलच् च ।
५-२-१०० लोमादिपामादिपिच्छादिभ्यः शनेलचः ।
५-२-१०१ प्रज्ञाश्रद्धाऽर्चावृत्तिभ्यो णः ।
५-२-१०२ तपःसहस्राभ्यां विनीनी ।
५-२-१०३ अण् च ।
५-२-१०४ सिकताशर्कराभ्यां च ।
५-२-१०५ देशे लुबिलचौ च ।
५-२-१०६ दन्त उन्नत उरच् ।
५-२-१०७ ऊषसुषिमुष्कमधो रः ।
५-२-१०८ द्युद्रुभ्यां मः ।
५-२-१०९ केशाद्वोऽन्यतरस्याम् ।
५-२-११० गाण्ड्यजगात्‌ संज्ञायाम् ।
५-२-१११ काण्डाण्डादीरन्नीरचौ ।
५-२-११२ रजःकृष्यासुतिपरिषदो वलच् ।
५-२-११३ दन्तशिखात्‌ संज्ञायाम् ।
५-२-११४ ज्योत्स्नातमिस्राशृङ्गिणोजस्विन्नूर्जस्वलगोमिन्\-
मलिनमलीमसाः ।
५-२-११५ अत इनिठनौ ।
५-२-११६ व्रीह्यादिभ्यश्च ।
५-२-११७ तुन्दादिभ्य इलच् च ।
५-२-११८ एकगोपूर्वाट्ठञ् नित्यम् ।
५-२-११९ शतसहस्रान्ताच्च निष्कात्‌ ।
५-२-१२० रूपादाहतप्रशंसयोरप्‌ ।
५-२-१२१ अस्मायामेधास्रजो विनिः ।
५-२-१२२ बहुलं छन्दसि ।
५-२-१२३ ऊर्णाया युस् ।
५-२-१२४ वाचो ग्मिनिः ।
५-२-१२५ आलजाटचौ बहुभाषिणि ।
५-२-१२६ स्वामिन्नैश्वर्ये ।
५-२-१२७ अर्शआदिभ्योऽच् ।
५-२-१२८ द्वंद्वोपतापगर्ह्यात्‌ प्राणिस्थादिनिः ।
५-२-१२९ वातातिसाराभ्यां कुक् च ।
५-२-१३० वयसि पूरणात्‌ ।
५-२-१३१ सुखादिभ्यश्च ।
५-२-१३२ धर्मशीलवर्णान्ताच्च ।
५-२-१३३ हस्ताज्जातौ ।
५-२-१३४ वर्णाद्ब्रह्मचारिणि ।
५-२-१३५ पुष्करादिभ्यो देशे ।
५-२-१३६ बलादिभ्यो मतुबन्यतरस्याम् ।
५-२-१३७ संज्ञायां मन्माभ्याम्.ह् ।
५-२-१३८ कंशंभ्यां बभयुस्तितुतयसः ।
५-२-१३९ तुन्दिवलिवटेर्भः ।
५-२-१४० अहंशुभमोर्युस् ।

तृतीयः पादः
५-३-१ प्राग्दिशो विभक्तिः ।
५-३-२ किंसर्वनामबहुभ्योऽद्व्यादिभ्यः ।
५-३-३ इदम इश् ।
५-३-४ एतेतौ रथोः ।
५-३-५ एतदोऽश् ।
५-३-६ सर्वस्य सोऽन्यतरस्यां दि ।
५-३-७ पञ्चम्यास्तसिल् ।
५-३-८ तसेश्च ।
५-३-९ पर्यभिभ्यां च ।
५-३-१० सप्तम्यास्त्रल् ।
५-३-११ इदमो हः ।
५-३-१२ किमोऽत्‌ ।
५-३-१३ वा ह च च्छन्दसि ।
५-३-१४ इतराभ्योऽपि दृश्यन्ते ।
५-३-१५ सर्वैकान्यकिंयत्तदः काले दा ।
५-३-१६ इदमो र्हिल् ।
५-३-१७ अधुना ।
५-३-१८ दानीं च ।
५-३-१९ तदो दा च ।
५-३-२० तयोर्दार्हिलौ च च्छन्दसि ।
५-३-२१ अनद्यतने र्हिलन्यतरस्याम् ।
५-३-२२ सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युर्\-
अन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः ।
५-३-२३ प्रकारवचने थाल् ।
५-३-२४ इदमस्थमुः ।
५-३-२५ किमश्च ।
५-३-२६ था हेतौ च च्छन्दसि ।
५-३-२७ दिक्‌शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो
दिग्देशकालेष्वस्तातिः ।
५-३-२८ दक्षिणोत्तराभ्यामतसुच् ।
५-३-२९ विभाषा परावराभ्याम् ।
५-३-३० अञ्चेर्लुक् ।
५-३-३१ उपर्युपरिष्टात्‌ ।
५-३-३२ पश्चात्‌ ।
५-३-३३ पश्च पश्चा च च्छन्दसि ।
५-३-३४ उत्तराधरदक्षिणादातिः ।
५-३-३५ एनबन्यतरस्यामदूरेऽपञ्चम्याः ।
५-३-३६ दक्षिणादाच् ।
५-३-३७ आहि च दूरे ।
५-३-३८ उत्तराच्च ।
५-३-३९ पूर्वाधरावराणामसि पुरधवश्चैषाम्‌ ।
५-३-४० अस्ताति च ।
५-३-४१ विभाषाऽवरस्य ।
५-३-४२ संख्याया विधाऽर्थे धा ।
५-३-४३ अधिकरणविचाले च ।
५-३-४४ एकाद्धो ध्यमुञन्यारयाम् ।
५-३-४५ द्वित्र्योश्च धमुञ् ।
५-३-४६ एधाच्च ।
५-३-४७ याप्ये पाशप्‌ ।
५-३-४८ पूरणाद्भागे तीयादन् ।
५-३-४९ प्रागेकादशभ्योऽच्छन्दसि ।
५-३-५० षष्ठाष्टमाभ्यां ञ च ।
५-३-५१ मानपश्वङ्गयोः कन्लुकौ च ।
५-३-५२ एकादाकिनिच्चासहाये ।
५-३-५३ भूतपूर्वे चरट् ।
५-३-५४ षष्ठ्या रूप्य च ।
५-३-५५ अतिशायने तमबिष्ठनौ ।
५-३-५६ तिङश्च ।
५-३-५७ द्विवचनविभज्योपपदे तरबीयसुनौ ।
५-३-५८ अजादी गुणवचनादेव ।
५-३-५९ तुश्छन्दसि ।
५-३-६० प्रशस्यस्य श्रः ।
५-३-६१ ज्य च ।
५-३-६२ वृद्धस्य च ।
५-३-६३ अन्तिकबाढयोर्नेदसाधौ ।
५-३-६४ युवाल्पयोः कनन्यतरस्याम् ।
५-३-६५ विन्मतोर्लुक् ।
५-३-६६ प्रशंसायां रूपप्‌ ।
५-३-६७ ईषदसमाप्तौ कल्पब्देश्यदेशीयरः ।
५-३-६८ विभाषा सुपो बहुच् पुरस्तात्तु ।
५-३-६९ प्रकारवचने जातीयर्।
५-३-७० प्रागिवात्कः ।
५-३-७१ अव्ययसर्वनाम्नामकच् प्राक् टेः ।
५-३-७२ कस्य च दः ।
५-३-७३ अज्ञाते ।
५-३-७४ कुत्सिते ।
५-३-७५ संज्ञायां कन् ।
५-३-७६ अनुकम्पायाम् ।
५-३-७७ नीतौ च तद्युक्तात्‌ ।
५-३-७८ बह्वचो मनुष्यनाम्नष्ठज्वा ।
५-३-७९ घनिलचौ च ।
५-३-८० प्राचामुपादेरडज्वुचौ च ।
५-३-८१ जातिनाम्नः कन् ।
५-३-८२ अजिनान्तस्योत्तरपदलोपश्च ।
५-३-८३ ठाजादावूर्ध्वं द्वितीयादचः ।
५-३-८४ शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात्‌ ।
५-३-८५ अल्पे ।
५-३-८६ ह्रस्वे ।
५-३-८७ संज्ञायां कन् ।
५-३-८८ कुटीशमीशुण्डाभ्यो रः ।
५-३-८९ कुत्वा डुपच् ।
५-३-९० कासूगोणीभ्यां ष्टरच् ।
५-३-९१ वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे ।
५-३-९२ किंयत्तदो निर्द्धारणे द्वयोरेकस्य डतरच् ।
५-३-९३ वा बहूनां जातिपरिप्रश्ने डतमच् ।
५-३-९४ एकाच्च प्राचाम् ।
५-३-९५ अवक्षेपणे कन् ।
५-३-९६ इवे प्रतिकृतौ ।
५-३-९७ संज्ञायां च ।
५-३-९८ लुम्मनुष्ये ।
५-३-९९ जीविकाऽर्थे चापण्ये ।
५-३-१०० देवपथादिभ्यश्च ।
५-३-१०१ वस्तेर्ढञ् ।
५-३-१०२ शिलाया ढः ।
५-३-१०३ शाखाऽऽदिभ्यो यत्‌ ।
५-३-१०४ द्रव्यं च भव्ये ।
५-३-१०५ कुशाग्राच्छः ।
५-३-१०६ समासाच्च तद्विषयात्‌ ।
५-३-१०७ शर्कराऽऽदिभ्योऽण् ।
५-३-१०८ अङ्गुल्यादिभ्यष्ठक् ।
५-३-१०९ एकशालायाष्ठजन्यतरस्याम् ।
५-३-११० कर्कलोहितादीकक् ।
५-३-१११ प्रत्नपूर्वविश्वेमात्थाल् छन्दसि ।
५-३-११२ पूगाञ्ञ्योऽग्रामणीपूर्वात्‌ ।
५-३-११३ व्रातच्फञोरस्त्रियाम् ।
५-३-११४ आयुधजीविसंघाञ्ञ्यड्वाहीकेष्वब्राह्मणराजन्यात्‌ ।
५-३-११५ वृकाट्टेण्यण् ।
५-३-११६ दामन्यादित्रिगर्तषष्ठाच्छः ।
५-३-११७ पर्श्वादियौधेयादिभ्यामणञौ ।
५-३-११८
अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो
यञ् ।
५-३-११९ ञ्य्आदयस्तद्राजाः ।

चतुर्थः पादः
५-४-१ पादशतस्य संख्याऽऽदेर्वीप्सायां वुन् लोपश्च ।
५-४-२ दण्डव्यवसर्गयोश्च ।
५-४-३ स्थूलादिभ्यः प्रकारवचने कन् ।
५-४-४ अनत्यन्तगतौ क्तात्‌ ।
५-४-५ न सामिवचने ।
५-४-६ बृहत्या आच्छादने ।
५-४-७ अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात्‌
खः ।
५-४-८ विभाषा अञ्चेरदिक्स्त्रियाम् ।
५-४-९ जात्यन्ताच्छ बन्धुनि ।
५-४-१० स्थानान्ताद्विभाषा सस्थानेनेति चेत्‌ ।
५-४-११ किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे ।
५-४-१२ अमु च च्छन्दसि ।
५-४-१३ अनुगादिनष्ठक् ।
५-४-१४ णचः स्त्रियामञ् ।
५-४-१५ अणिनुणः ।
५-४-१६ विसारिणो मत्स्ये ।
५-४-१७ संख्यायाः क्रियाऽभ्यावृत्तिगणने कृत्वसुच् ।
५-४-१८ द्वित्रिचतुर्भ्यः सुच् ।
५-४-१९ एकस्य सकृच्च ।
५-४-२० विभाषा बहोर्धाऽविप्रकृष्टकाले ।
५-४-२१ तत्प्रकृतवचने मयट् ।
५-४-२२ समूहवच्च बहुषु ।
५-४-२३ अनन्तावसथेतिहभेषजाञ्ञ्यः ।
५-४-२४ देवतान्तात्तादर्थ्ये यत्‌ ।
५-४-२५ पादार्घाभ्यां च ।
५-४-२६ अतिथेर्ञ्यः ।
५-४-२७ देवात्तल् ।
५-४-२८ अवेः कः ।
५-४-२९ यावादिभ्यः कन् ।
५-४-३० लोहितान्मणौ ।
५-४-३१ वर्णे चानित्ये ।
५-४-३२ रक्ते ।
५-४-३३ कालाच्च ।
५-४-३४ विनयादिभ्यष्ठक् ।
५-४-३५ वाचो व्याहृतार्थायाम् ।
५-४-३६ तद्युक्तात्‌ कर्मणोऽण् ।
५-४-३७ ओषधेरजातौ ।
५-४-३८ प्रज्ञादिभ्यश्च ।
५-४-३९ मृदस्तिकन् ।
५-४-४० सस्नौ प्रशंसायाम् ।
५-४-४१ वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छन्दसि ।
५-४-४२ बह्वल्पार्थाच्छस् कारकादन्यतरस्याम् ।
५-४-४३ संख्यैकवचनाच्च वीप्सायाम् ।
५-४-४४ प्रतियोगे पञ्चम्यास्तसिः ।
५-४-४५ अपादाने चाहीयरुहोः ।
५-४-४६ अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः ।
५-४-४७ हीयमानपापयोगाच्च ।
५-४-४८ षष्ठ्या व्याश्रये ।
५-४-४९ रोगाच्चापनयने ।
५-४-५० अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः ।
५-४-५१ अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च ।
५-४-५२ विभाषा साति कार्त्स्न्ये ।
५-४-५३ अभिविधौ सम्पदा च ।
५-४-५४ तदधीनवचने ।
५-४-५५ देये त्रा च ।
५-४-५६ देवमनुष्यपुरुषमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् ।
५-४-५७ अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् ।
५-४-५८ कृञो द्वितीयतृतीयशम्बबीजात्‌ कृषौ ।
५-४-५९ संख्यायाश्च गुणान्तायाः ।
५-४-६० समयाच्च यापनायाम् ।
५-४-६१ सपत्त्रनिष्पत्रादतिव्यथने ।
५-४-६२ निष्कुलान्निष्कोषणे ।
५-४-६३ सुखप्रियादानुलोम्ये ।
५-४-६४ दुःखात्‌ प्रातिलोम्ये ।
५-४-६५ शूलात्‌ पाके ।
५-४-६६ सत्यादशपथे ।
५-४-६७ मद्रात्‌ परिवापणे ।
५-४-६८ समासान्ताः ।
५-४-६९ न पूजनात्‌ ।
५-४-७० किमः क्षेपे ।
५-४-७१ नञस्तत्पुरुषात्‌ ।
५-४-७२ पथो विभाषा ।
५-४-७३ बहुव्रीहौ संख्येये डजबहुगणात्‌ ।
५-४-७४ ऋक्पूरप्धूःपथामानक्षे ।
५-४-७५ अच्‌ प्रत्यन्ववपूर्वात्‌ सामलोम्नः ।
५-४-७६ अक्ष्णोऽदर्शनात्‌ ।
५-४-७७ अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्साम\-
वाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिव\-
रत्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुष\-

त्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः
५-४-७८ ब्रह्महस्तिभ्याम् वर्च्चसः ।
५-४-७९ अवसमन्धेभ्यस्तमसः ।
५-४-८० श्वसो वसीयःश्रेयसः ।
५-४-८१ अन्ववतप्ताद्रहसः ।
५-४-८२ प्रतेरुरसः सप्तमीस्थात्‌ ।
५-४-८३ अनुगवमायामे ।
५-४-८४ द्विस्तावा त्रिस्तावा वेदिः ।
५-४-८५ उपसर्गादध्वनः ।
५-४-८६ तत्पुरुषस्याङ्गुलेः संख्याऽव्ययादेः ।
५-४-८७ अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः ।
५-४-८८ अह्नोऽह्न एतेभ्यः ।
५-४-८९ न संख्याऽऽदेः समाहारे ।
५-४-९० उत्तमैकाभ्यां च ।
५-४-९१ राजाऽहस्सखिभ्यष्टच्‌ ।
५-४-९२ गोरतद्धितलुकि ।
५-४-९३ अग्राख्यायामुरसः ।
५-४-९४ अनोऽश्मायस्सरसाम् जातिसंज्ञयोः ।
५-४-९५ ग्रामकौटाभ्यां च तक्ष्णः ।
५-४-९६ अतेः शुनः ।
५-४-९७ उपमानादप्राणिषु ।
५-४-९८ उत्तरमृगपूर्वाच्च सक्थ्नः ।
५-४-९९ नावो द्विगोः ।
५-४-१०० अर्धाच्च ।
५-४-१०१ खार्याः प्राचाम् ।
५-४-१०२ द्वित्रिभ्यामञ्जलेः ।
५-४-१०३ अनसन्तान्नपुंसकाच्छन्दसि ।
५-४-१०४ ब्रह्मणो जानपदाख्यायाम् ।
५-४-१०५ कुमहद्भ्यामन्यतरस्याम्‌ ।
५-४-१०६ द्वंद्वाच्चुदषहान्तात् समाहारे ।
५-४-१०७ अव्ययीभावे शरत्प्रभृतिभ्यः ।
५-४-१०८ अनश्च ।
५-४-१०९ नपुंसकादन्यतर्अस्याम् ।
५-४-११० नदीपौर्णमास्याग्रहायणीभ्यः ।
५-४-१११ झयः ।
५-४-११२ गिरेश्च सेनकस्य ।
५-४-११३ बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्‌ षच् ।
५-४-११४ अङ्गुलेर्दारुणि ।
५-४-११५ द्वित्रिभ्यां ष मूर्ध्नः ।
५-४-११६ अप् पूरणीप्रमाण्योः ।
५-४-११७ अन्तर्बहिर्भ्यां च लोम्नः ।
५-४-११८ अञ्नासिकायाः संज्ञायां नसं चास्थूलात्‌ ।
५-४-११९ उपसर्गाच्च ।
५-४-१२० सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपद\-
प्रोष्ठपदाः ।
५-४-१२१ नञ्दुःसुभ्यो हलिसक्थ्योरन्यतरस्याम् ।
५-४-१२२ नित्यमसिच् प्रजामेधयोः ।
५-४-१२३ बहुप्रजाश्छन्दसि ।
५-४-१२४ धर्मादनिच् केवलात्‌ ।
५-४-१२५ जम्भा सुहरिततृणसोमेभ्यः ।
५-४-१२६ दक्षिणेर्मा लुब्धयोगे ।
५-४-१२७ इच् कर्मव्यतिहारे ।
५-४-१२८ द्विदण्ड्यादिभ्यश्च ।
५-४-१२९ प्रसम्भ्यां जानुनोर्ज्ञुः ।
५-४-१३० ऊर्ध्वाद्विभाषा ।
५-४-१३१ ऊधसोऽनङ् ।
५-४-१३२ धनुषश्च ।
५-४-१३३ वा संज्ञायाम् ।
५-४-१३४ जायाया निङ् ।
५-४-१३५ गन्धस्येदुत्पूतिसुसुरभिभ्यः ।
५-४-१३६ अल्पाख्यायाम् ।
५-४-१३७ उपमानाच्च ।
५-४-१३८ पादस्य लोपोऽहस्त्यादिभ्यः ।
५-४-१३९ कुम्भपदीषु च ।
५-४-१४० संख्यासुपूर्वस्य ।
५-४-१४१ वयसि दन्तस्य दतृ ।
५-४-१४२ छन्दसि च ।
५-४-१४३ स्त्रियां संज्ञायाम् ।
५-४-१४४ विभाषा श्यावारोकाभ्याम् ।
५-४-१४५ अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च ।
५-४-१४६ ककुदस्यावस्थायां लोपः ।
५-४-१४७ त्रिककुत् पर्वते ।
५-४-१४८ उद्विभ्यां काकुदस्य ।
५-४-१४९ पूर्णाद्विभाषा ।
५-४-१५० सुहृद्दुर्हृदौ मित्रामित्रयोः ।
५-४-१५१ उरःप्रभृतिभ्यः कप्‌ ।
५-४-१५२ इनः स्त्रियाम् ।
५-४-१५३ नद्यृतश्च ।
५-४-१५४ शेषाद्विभाषा ।
५-४-१५५ न संज्ञायाम् ।
५-४-१५६ ईयसश्च ।
५-४-१५७ वन्दिते भ्रातुः ।
५-४-१५८ ऋतश्छन्दसि ।
५-४-१५९ नाडीतन्त्र्योः स्वाङ्गे ।
५-४-१६० निष्प्रवाणिश्च ।

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top