अष्टाध्यायी सप्तमोऽध्यायः
प्रथमः पादः
७-१-१ युवोरनाकौ ।
७-१-२ आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् ।
७-१-३ झोऽन्तः ।
७-१-४ अदभ्यस्तात् ।
७-१-५ आत्मनेपदेष्वनतः ।
७-१-६ शीङो रुट् ।
७-१-७ वेत्तेर्विभाषा ।
७-१-८ बहुलं छन्दसि ।
७-१-९ अतो भिस ऐस् ।
७-१-१० बहुलं छन्दसि ।
७-१-११ नेदमदसोरकोः ।
७-१-१२ टाङसिङसामिनात्स्याः ।
७-१-१३ ङेर्यः ।
७-१-१४ सर्वनाम्नः स्मै ।
७-१-१५ ङसिङ्योः स्मात्स्मिनौ ।
७-१-१६ पूर्वादिभ्यो नवभ्यो वा ।
७-१-१७ जसः शी ।
७-१-१८ औङ आपः ।
७-१-१९ नपुंसकाच्च ।
७-१-२० जश्शसोः शिः ।
७-१-२१ अष्टाभ्य औश् ।
७-१-२२ षड्भ्यो लुक् ।
७-१-२३ स्वमोर्नपुंसकात् ।
७-१-२४ अतोऽम् ।
७-१-२५ अद्ड् डतरादिभ्यः पञ्चभ्यः ।
७-१-२६ नेतराच्छन्दसि ।
७-१-२७ युष्मदस्मद्भ्यां ङसोऽश् ।
७-१-२८ ङे प्रथमयोरम् ।
७-१-२९ शसो न ।
७-१-३० भ्यसो भ्यम् ।
७-१-३१ पञ्चम्या अत् ।
७-१-३२ एकवचनस्य च ।
७-१-३३ साम आकम् ।
७-१-३४ आत औ णलः ।
७-१-३५ तुह्योस्तातङाशिष्यन्यतरस्याम् ।
७-१-३६ विदेः शतुर्वसुः ।
७-१-३७ समासेऽनञ्पूर्वे क्त्वो ल्यप् ।
७-१-३८ क्त्वाऽपि छन्दसि ।
७-१-३९ सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः ।
७-१-४० अमो मश् ।
७-१-४१ लोपस्त आत्मनेपदेषु ।
७-१-४२ ध्वमो ध्वात् ।
७-१-४३ यजध्वैनमिति च ।
७-१-४४ तस्य तात् ।
७-१-४५ तप्तनप्तनथनाश्च ।
७-१-४६ इदन्तो मसि ।
७-१-४७ क्त्वो यक् ।
७-१-४८ इष्ट्वीनमिति च ।
७-१-४९ स्नात्व्यादयश्च ।
७-१-५० आज्जसेरसुक् ।
७-१-५१ अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि ।
७-१-५२ आमि सर्वनाम्नः सुट् ।
७-१-५३ त्रेस्त्रयः ।
७-१-५४ ह्रस्वनद्यापो नुट् ।
७-१-५५ षट्चतुर्भ्यश्च ।
७-१-५६ श्रीग्रामण्योश्छन्दसि ।
७-१-५७ गोः पादान्ते ।
७-१-५८ इदितो नुम् धातोः ।
७-१-५९ शे मुचादीनाम् ।
७-१-६० मस्जिनशोर्झलि ।
७-१-६१ रधिजभोरचि ।
७-१-६२ नेट्यलिटि रधेः ।
७-१-६३ रभेरशब्लिटोः ।
७-१-६४ लभेश्च ।
७-१-६५ आङो यि ।
७-१-६६ उपात् प्रशंसायाम् ।
७-१-६७ उपसर्गात् खल्घञोः ।
७-१-६८ न सुदुर्भ्यां केवलाभ्याम् ।
७-१-६९ विभाषा चिण्णमुलोः ।
७-१-७० उगिदचां सर्वनामस्थानेऽधातोः ।
७-१-७१ युजेरसमासे ।
७-१-७२ नपुंसकस्य झलचः ।
७-१-७३ इकोऽचि विभक्तौ ।
७-१-७४ तृतीयाऽऽदिषु भाषितपुंस्कं पुंवद्गालवस्य ।
७-१-७५ अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः ।
७-१-७६ छन्दस्यपि दृश्यते ।
७-१-७७ ई च द्विवचने ।
७-१-७८ नाभ्यस्ताच्छतुः ।
७-१-७९ वा नपुंसकस्य ।
७-१-८० आच्छीनद्योर्नुम् ।
७-१-८१ शप्श्यनोर्नित्यम् ।
७-१-८२ सावनडुहः ।
७-१-८३ दृक्स्ववस्स्वतवसां छन्दसि ।
७-१-८४ दिव औत् ।
७-१-८५ पथिमथ्यृभुक्षामात् ।
७-१-८६ इतोऽत् सर्वनामस्थाने ।
७-१-८७ थो न्थः ।
७-१-८८ भस्य टेर्लोपः ।
७-१-८९ पुंसोऽसुङ् ।
७-१-९० गोतो णित् ।
७-१-९१ णलुत्तमो वा ।
७-१-९२ सख्युरसम्बुद्धौ ।
७-१-९३ अनङ् सौ ।
७-१-९४ ऋदुशनस्पुरुदंसोऽनेहसां च ।
७-१-९५ तृज्वत् क्रोष्टुः ।
७-१-९६ स्त्रियां च ।
७-१-९७ विभाषा तृतीयाऽऽदिष्वचि ।
७-१-९८ चतुरनडुहोरामुदात्तः ।
७-१-९९ अम् सम्बुद्धौ ।
७-१-१०० ॠत इद्धातोः ।
७-१-१०१ उपधायाश्च ।
७-१-१०२ उदोष्ठ्यपूर्वस्य ।
७-१-१०३ बहुलं छन्दसि ।
द्वितीयः पादः
७-२-१ सिचि वृद्धिः परस्मैपदेषु ।
७-२-२ अतो र्लान्तस्य ।
७-२-३ वदव्रजहलन्तस्याचः ।
७-२-४ नेटि ।
७-२-५ ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् ।
७-२-६ ऊर्णोतेर्विभाषा ।
७-२-७ अतो हलादेर्लघोः ।
७-२-८ नेड् वशि कृति ।
७-२-९ तितुत्रतथसिसुसरकसेषु च ।
७-२-१० एकाच उपदेशेऽनुदात्तात् ।
७-२-११ श्र्युकः किति ।
७-२-१२ सनि ग्रहगुहोश्च ।
७-२-१३ कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि ।
७-२-१४ श्वीदितो निष्ठायाम् ।
७-२-१५ यस्य विभाषा ।
७-२-१६ आदितश्च ।
७-२-१७ विभाषा भावादिकर्मणोः ।
७-२-१८ क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि
मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु ।
७-२-१९ धृषिशसी वैयात्ये ।
७-२-२० दृढः स्थूलबलयोः ।
७-२-२१ प्रभौ परिवृढः ।
७-२-२२ कृच्छ्रगहनयोः कषः ।
७-२-२३ घुषिरविशब्दने ।
७-२-२४ अर्देः संनिविभ्यः ।
७-२-२५ अभेश्चाविदूर्ये ।
७-२-२६ णेरध्ययने वृत्तम् ।
७-२-२७ वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः ।
७-२-२८ रुष्यमत्वरसंघुषास्वनाम् ।
७-२-२९ हृषेर्लोमसु ।
७-२-३० अपचितश्च ।
७-२-३१ ह्रु ह्वरेश्छन्दसि ।
७-२-३२ अपरिह्वृताश्च ।
७-२-३३ सोमे ह्वरितः ।
७-२-३४ ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्तविशस्तॄ\-
शंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरुत्रीरुज्ज्वलितिक्षरिति\-
क्षमितिवमित्यमितीति च ।
७-२-३५ आर्धधातुकस्येड् वलादेः ।
७-२-३६ स्नुक्रमोरनात्मनेपदनिमित्ते ।
७-२-३७ ग्रहोऽलिटि दीर्घः ।
७-२-३८ वॄतो वा ।
७-२-३९ न लिङि ।
७-२-४० सिचि च परस्मैपदेषु ।
७-२-४१ इट् सनि वा ।
७-२-४२ लिङ्सिचोरात्मनेपदेषु ।
७-२-४३ ऋतश्च संयोगादेः ।
७-२-४४ स्वरतिसूतिसूयतिधूञूदितो वा ।
७-२-४५ रधादिभ्यश्च ।
७-२-४६ निरः कुषः ।
७-२-४७ इण्निष्ठायाम् ।
७-२-४८ तीषसहलुभरुषरिषः ।
७-२-४९ सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् ।
७-२-५० क्लिशः क्त्वानिष्ठयोः ।
७-२-५१ पूङश्च ।
७-२-५२ वसतिक्षुधोरिट् ।
७-२-५३ अञ्चेः पूजायाम् ।
७-२-५४ लुभो विमोचने ।
७-२-५५ जॄव्रश्च्योः क्त्वि ।
७-२-५६ उदितो वा ।
७-२-५७ सेऽसिचि कृतचृतच्छृदतृदनृतः ।
७-२-५८ गमेरिट् परस्मैपदेषु ।
७-२-५९ न वृद्भ्यश्चतुर्भ्यः ।
७-२-६० तासि च कपः ।
७-२-६१ अचस्तास्वत् थल्यनिटो नित्यम् ।
७-२-६२ उपदेशेऽत्वतः ।
७-२-६३ ऋतो भारद्वाजस्य ।
७-२-६४ बभूथाततन्थजगृम्भववर्थेति निगमे ।
७-२-६५ विभाषा सृजिदृषोः ।
७-२-६६ इडत्त्यर्तिव्ययतीनाम् ।
७-२-६७ वस्वेकाजाद्घसाम् ।
७-२-६८ विभाषा गमहनविदविशाम् ।
७-२-६९ सनिंससनिवांसम् ।
७-२-७० ऋद्धनोः स्ये ।
७-२-७१ अञ्जेः सिचि ।
७-२-७२ स्तुसुधूञ्भ्यः परस्मैपदेषु ।
७-२-७३ यमरमनमातां सक् च ।
७-२-७४ स्मिपूङ्रञ्ज्वशां सनि ।
७-२-७५ किरश्च पञ्चभ्यः ।
७-२-७६ रुदादिभ्यः सार्वधातुके ।
७-२-७७ ईशः से ।
७-२-७८ ईडजनोर्ध्वे च ।
७-२-७९ लिङः सलोपोऽनन्त्यस्य ।
७-२-८० अतो येयः ।
७-२-८१ आतो ङितः ।
७-२-८२ आने मुक् ।
७-२-८३ ईदासः ।
७-२-८४ अष्टन आ विभक्तौ ।
७-२-८५ रायो हलि ।
७-२-८६ युष्मदस्मदोरनादेशे ।
७-२-८७ द्वितीयायां च ।
७-२-८८ प्रथमायाश्च द्विवचने भाषायाम् ।
७-२-८९ योऽचि ।
७-२-९० शेषे लोपः ।
७-२-९१ मपर्यन्तस्य ।
७-२-९२ युवावौ द्विवचने ।
७-२-९३ यूयवयौ जसि ।
७-२-९४ त्वाहौ सौ ।
७-२-९५ तुभ्यमह्यौ ङयि ।
७-२-९६ तवममौ ङसि ।
७-२-९७ त्वमावेकवचने ।
७-२-९८ प्रत्ययोत्तरपदयोश्च ।
७-२-९९ त्रिचतुरोः स्त्रियां तिसृचतसृ ।
७-२-१०० अचि र ऋतः ।
७-२-१०१ जराया जरसन्यतरस्याम् ।
७-२-१०२ त्यदादीनामः ।
७-२-१०३ किमः कः ।
७-२-१०४ कु तिहोः ।
७-२-१०५ क्वाति ।
७-२-१०६ तदोः सः सावनन्त्ययोः ।
७-२-१०७ अदस औ सुलोपश्च ।
७-२-१०८ इदमो मः ।
७-२-१०९ दश्च ।
७-२-११० यः सौ ।
७-२-१११ इदोऽय् पुंसि ।
७-२-११२ अनाप्यकः ।
७-२-११३ हलि लोपः ।
७-२-११४ मृजेर्वृद्धिः ।
७-२-११५ अचो ञ्णिति ।
७-२-११६ अत उपधायाः ।
७-२-११७ तद्धितेष्वचामादेः ।
७-२-११८ किति च ।
तृतीयः पादः
७-३-१ देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात् ।
७-३-२ केकयमित्त्रयुप्रलयानां यादेरियः ।
७-३-३ न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच् ।
७-३-४ द्वारादीनां च ।
७-३-५ न्यग्रोधस्य च केवलस्य ।
७-३-६ न कर्मव्यतिहारे ।
७-३-७ स्वागतादीनां च ।
७-३-८ श्वादेरिञि ।
७-३-९ पदान्तस्यान्यतरस्याम् ।
७-३-१० उत्तरपदस्य ।
७-३-११ अवयवादृतोः ।
७-३-१२ सुसर्वार्धाज्जनपदस्य ।
७-३-१३ दिशोऽमद्राणाम् ।
७-३-१४ प्राचां ग्रामनगराणाम् ।
७-३-१५ संख्यायाः संवत्सरसंख्यस्य च ।
७-३-१६ वर्षस्याभविष्यति ।
७-३-१७ परिमाणान्तस्यासंज्ञाशाणयोः ।
७-३-१८ जे प्रोष्ठपदानाम् ।
७-३-१९ हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ।
७-३-२० अनुशतिकादीनां च ।
७-३-२१ देवताद्वंद्वे च ।
७-३-२२ नेन्द्रस्य परस्य ।
७-३-२३ दीर्घाच्च वरुणस्य ।
७-३-२४ प्राचां नगरान्ते ।
७-३-२५ जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् ।
७-३-२६ अर्धात् परिमाणस्य पूर्वस्य तु वा ।
७-३-२७ नातः परस्य ।
७-३-२८ प्रवाहणस्य ढे ।
७-३-२९ तत्प्रत्ययस्य च ।
७-३-३० नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् ।
७-३-३१ यथातथयथापुरयोः पर्यायेण ।
७-३-३२ हनस्तोऽचिण्णलोः ।
७-३-३३ आतो युक् चिण्कृतोः ।
७-३-३४ नोदात्तोपदेशस्य मान्तस्यानाचमेः ।
७-३-३५ जनिवध्योश्च ।
७-३-३६ अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ ।
७-३-३७ शाच्छासाह्वाव्यावेपां युक् ।
७-३-३८ वो विधूनने जुक् ।
७-३-३९ लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने ।
७-३-४० भियो हेतुभये षुक् ।
७-३-४१ स्फायो वः ।
७-३-४२ शदेरगतौ तः ।
७-३-४३ रुहः पोऽन्यतरस्याम् ।
७-३-४४ प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः ।
७-३-४५ न यासयोः ।
७-३-४६ उदीचामातः स्थाने यकपूर्वायाः ।
७-३-४७ भस्त्रैषाऽजाज्ञाद्वास्वानञ्पूर्वाणामपि ।
७-३-४८ अभाषितपुंस्काच्च ।
७-३-४९ आदाचार्याणाम् ।
७-३-५० ठस्येकः ।
७-३-५१ इसुसुक्तान्तात् कः ।
७-३-५२ चजोः कु घिन्ण्यतोः ।
७-३-५३ न्यङ्क्वादीनां च ।
७-३-५४ हो हन्तेर्ञ्णिन्नेषु ।
७-३-५५ अभ्यासाच्च ।
७-३-५६ हेरचङि ।
७-३-५७ सन्लिटोर्जेः ।
७-३-५८ विभाषा चेः ।
७-३-५९ न क्वादेः ।
७-३-६० अजिवृज्योश्च ।
७-३-६१ भुजन्युब्जौ पाण्युपतापयोः ।
७-३-६२ प्रयाजानुयाजौ यज्ञाङ्गे ।
७-३-६३ वञ्चेर्गतौ ।
७-३-६४ ओक उचः के ।
७-३-६५ ण्य आवश्यके ।
७-३-६६ यजयाचरुचप्रवचर्चश्च ।
७-३-६७ वचोऽशब्दसंज्ञायाम् ।
७-३-६८ प्रयोज्यनियोज्यौ शक्यार्थे ।
७-३-६९ भोज्यं भक्ष्ये ।
७-३-७० घोर्लोपो लेटि वा ।
७-३-७१ ओतः श्यनि ।
७-३-७२ क्सस्याचि ।
७-३-७३ लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये ।
७-३-७४ शमामष्टानां दीर्घः श्यनि ।
७-३-७५ ष्ठिवुक्लम्याचमां शिति ।
७-३-७६ क्रमः परस्मैपदेषु ।
७-३-७७ इषुगमियमां छः ।
७-३-७८ पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां
पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः ।
७-३-७९ ज्ञाजनोर्जा ।
७-३-८० प्वादीनां ह्रस्वः ।
७-३-८१ मीनातेर्निगमे ।
७-३-८२ मिदेर्गुणः ।
७-३-८३ जुसि च ।
७-३-८४ सार्वधातुकार्धधातुकयोः ।
७-३-८५ जाग्रोऽविचिण्णल्ङित्सु ।
७-३-८६ पुगन्तलघूपधस्य च ।
७-३-८७ नाभ्यस्तस्याचि पिति सार्वधातुके ।
७-३-८८ भूसुवोस्तिङि ।
७-३-८९ उतो वृद्धिर्लुकि हलि ।
७-३-९० ऊर्णोतेर्विभाषा ।
७-३-९१ गुणोऽपृक्ते ।
७-३-९२ तृणह इम् ।
७-३-९३ ब्रुव ईट् ।
७-३-९४ यङो वा ।
७-३-९५ तुरुस्तुशम्यमः सार्वधातुके ।
७-३-९६ अस्तिसिचोऽपृक्ते ।
७-३-९७ बहुलं छन्दसि ।
७-३-९८ रुदश्च पञ्चभ्यः ।
७-३-९९ अड्गार्ग्यगालवयोः ।
७-३-१०० अदः सर्वेषाम् ।
७-३-१०१ अतो दीर्घो यञि ।
७-३-१०२ सुपि च ।
७-३-१०३ बहुवचने झल्येत् ।
७-३-१०४ ओसि च ।
७-३-१०५ आङि चापः ।
७-३-१०६ सम्बुद्धौ च ।
७-३-१०७ अम्बाऽर्थनद्योर्ह्रस्वः ।
७-३-१०८ ह्रस्वस्य गुणः ।
७-३-१०९ जसि च ।
७-३-११० ऋतो ङिसर्वनामस्थानयोः ।
७-३-१११ घेर्ङिति ।
७-३-११२ आण्नद्याः ।
७-३-११३ याडापः ।
७-३-११४ सर्वनाम्नः स्याड्ढ्रस्वश्च ।
७-३-११५ विभाषा द्वितीयातृतीयाभ्याम् ।
७-३-११६ ङेराम्नद्याम्नीभ्यः ।
७-३-११७ इदुद्भ्याम् ।
७-३-११८ औत् ।
७-३-११९ अच्च घेः ।
७-३-१२० आङो नाऽस्त्रियाम् ।
चतुर्थः पादः
७-४-१ णौ चङ्युपधाया ह्रस्वः ।
७-४-२ नाग्लोपिशास्वृदिताम् ।
७-४-३ भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् ।
७-४-४ लोपः पिबतेरीच्चाभ्यासस्य ।
७-४-५ तिष्ठतेरित् ।
७-४-६ जिघ्रतेर्वा ।
७-४-७ उरृत् ।
७-४-८ नित्यं छन्दसि ।
७-४-९ दयतेर्दिगि लिटि ।
७-४-१० ऋतश्च संयोगादेर्गुणः ।
७-४-११ ऋच्छत्यॄताम् ।
७-४-१२ शृदॄप्रां ह्रस्वो वा ।
७-४-१३ केऽणः ।
७-४-१४ न कपि ।
७-४-१५ आपोऽन्यतरस्याम् ।
७-४-१६ ऋदृशोऽङि गुणः ।
७-४-१७ अस्यतेस्थुक् ।
७-४-१८ श्वयतेरः ।
७-४-१९ पतः पुम् ।
७-४-२० वच उम् ।
७-४-२१ शीङः सार्वधातुके गुणः ।
७-४-२२ अयङ् यि क्ङिति ।
७-४-२३ उपसर्गाद्ध्रस्व ऊहतेः ।
७-४-२४ एतेर्लिङि ।
७-४-२५ अकृत्सार्वधातुकयोर्दीर्घः ।
७-४-२६ च्वौ च ।
७-४-२७ रीङ् ऋतः ।
७-४-२८ रिङ् शयग्लिङ्क्षु ।
७-४-२९ गुणोऽर्तिसंयोगाद्योः ।
७-४-३० यङि च ।
७-४-३१ ई घ्राध्मोः ।
७-४-३२ अस्य च्वौ ।
७-४-३३ क्यचि च ।
७-४-३४ अशनायोदन्यधनाया बुभुक्षापिपासागर्द्धेषु ।
७-४-३५ न च्छन्दस्यपुत्रस्य ।
७-४-३६ दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यति ।
७-४-३७ अश्वाघस्यात् ।
७-४-३८ देवसुम्नयोर्यजुषि काठके ।
७-४-३९ कव्यध्वरपृतनस्यर्चि लोपः ।
७-४-४० द्यतिस्यतिमास्थामित्ति किति ।
७-४-४१ शाछोरन्यतरस्याम् ।
७-४-४२ दधातेर्हिः ।
७-४-४३ जहातेश्च क्त्वि ।
७-४-४४ विभाषा छन्दसि ।
७-४-४५ सुधितवसुधितनेमधितधिष्वधिषीय च ।
७-४-४६ दो दद् घोः ।
७-४-४७ अच उपसर्गात्तः ।
७-४-४८ अपो भि ।
७-४-४९ सः स्यार्द्धधातुके ।
७-४-५० तासस्त्योर्लोपः ।
७-४-५१ रि च ।
७-४-५२ ह एति ।
७-४-५३ यीवर्णयोर्दीधीवेव्योः ।
७-४-५४ सनि मीमाघुरभलभशकपतपदामच इस् ।
७-४-५५ आप्ज्ञप्यृधामीत् ।
७-४-५६ दम्भ इच्च ।
७-४-५७ मुचोऽकर्मकस्य गुणो वा ।
७-४-५८ अत्र लोपोऽभ्यासस्य ।
७-४-५९ ह्रस्वः ।
७-४-६० हलादिः शेषः ।
७-४-६१ शर्पूर्वाः खयः ।
७-४-६२ कुहोश्चुः ।
७-४-६३ न कवतेर्यङि ।
७-४-६४ कृषेश्छन्दसि ।
७-४-६५
दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतिक्तेऽलर्ष्यापनीफणत्\-
संसनिष्यदत्करिक्रत्कनिक्रदद्भरिभ्रद्दविध्वतोदविद्युतत्\-
तरित्रतःसरीसृपतंवरीवृजन्मर्मृज्यागनीगन्तीति च ।
७-४-६६ उरत् ।
७-४-६७ द्युतिस्वाप्योः सम्प्रसारणम् ।
७-४-६८ व्यथो लिटि ।
७-४-६९ दीर्घ इणः किति ।
७-४-७० अत आदेः ।
७-४-७१ तस्मान्नुड् द्विहलः ।
७-४-७२ अश्नोतेश्च ।
७-४-७३ भवतेरः ।
७-४-७४ ससूवेति निगमे ।
७-४-७५ निजां त्रयाणां गुणः श्लौ ।
७-४-७६ भृञामित् ।
७-४-७७ अर्तिपिपर्त्योश्च ।
७-४-७८ बहुलं छन्दसि ।
७-४-७९ सन्यतः ।
७-४-८० ओः पुयण्ज्यपरे ।
७-४-८१ स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा ।
७-४-८२ गुणो यङ्लुकोः ।
७-४-८३ दीर्घोऽकितः ।
७-४-८४ नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् ।
७-४-८५ नुगतोऽनुनासिकान्तस्य ।
७-४-८६ जपजभदहदशभञ्जपशां च ।
७-४-८७ चरफलोश्च ।
७-४-८८ उत् परस्यातः ।
७-४-८९ ति च ।
७-४-९० रीगृदुपधस्य च ।
७-४-९१ रुग्रिकौ च लुकि ।
७-४-९२ ऋतश्च ।
७-४-९३ सन्वल्लघुनि चङ्परेऽनग्लोपे ।
७-४-९४ दीर्घो लघोः ।
७-४-९५ अत् स्मृदृत्वरप्रथम्रदस्तॄस्पशाम् ।
७-४-९६ विभाषा वेष्टिचेष्ट्योः ।
७-४-९७ ई च गणः ।