अथ कृदन्ते कृत्यप्रक्रिया
धातोः ।३।१।९१।
आतृतीयाध्यायसमाप्तेर्ये प्रत्ययास्ते धातोः परे स्युः । कृदतिङिति कृत्संज्ञा ॥
वासरूपोऽस्त्रियाम् ।३।१।९४।
अस्मिन्धात्वधिकारेऽसरूपोऽपवादप्रत्यय उत्सर्गस्य बाधको वा स्यात् स्त्र्यधिकारोक्तं विना ॥
कृत्याः ।३।१।९५।
ण्वुल्तृचावित्यतः प्राक् कृत्यसंज्ञाः स्युः ॥
कर्तरि कृत् ।३।४।६७।
कृत्प्रत्ययः कर्तरि स्यात् । इति प्राप्ते –
तयोरेव कृत्यक्तखलर्थाः ।३।४।७०।
एते भावकर्मणोरेव स्युः ॥
तव्यत्तव्यानीयरः ।३।१।९६।
धातोरेते प्रत्ययाः स्युः । एधितव्यम्, एधनीयं त्वया । भावे औत्सर्गिकमेकवचनं क्लीबत्वं च । चेतव्यश्चयनीयो वा धर्मस्त्वया । (केलिमर उपसंख्यानम्) पचेलिमा माषाः । पक्तव्या इत्यर्थः । भिदेलिमाः सरलाः । भेत्तव्याः इत्यर्थः। कर्मणि प्रत्ययः ॥
कृत्यल्युटो बहुलम् ।३।३।११३।
क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । विधेर्विधानं बहुधा समीक्ष्य चातुर्विधं बाहुलकं वदन्ति॥१॥ स्नात्यनेनेति स्नानीयं चूर्णम् । दीयतेऽस्मै दानीयो विप्रः ॥
अचो यत् ।३।१।९७।
अजन्ताद्धातोर्यत् स्यात् । चेयम् ॥
ईद्यति ।६।४।६५।
यति परे आत ईत्स्यात् । देयम् । ग्लेयम् ॥
पोरदुपधात् ।३।१।९८।
पवर्गान्ताददुपधाद्यत्स्यात् । ण्यतोऽपवादः । शप्यम् । लभ्यम् ॥
एतिस्तुशास्वृदृजुषः क्यप् ।३।१।१०९।
एभ्यः क्यप् स्यात् ॥
ह्रस्वस्य पिति कृति तुक् ।६।१।७१।
इत्यः । स्तुत्यः । शासु अनुशिष्टौ ॥
शास इदङ्हलोः ।६।४।३४।
शास उपधाया इत्स्यादङि हलादौ क्ङिति । शिष्यः । वृत्यः । आदृत्यः । जुष्यः ॥
मृजेर्विभाषा ।३।१।११३।
मृजेः क्यब्वा । मृज्यः ॥
ऋहलोर्ण्यत् ।३।१।१२४।
ऋवर्णान्ताद्धलन्ताच्च धातोर्ण्यत् । कार्यम् । हार्यम् । धार्यम् ॥
चजोः कु घिण्ण्यतोः ।७।३।५२।
चजोः कुत्वं स्यात् घिति ण्यति च परे ॥
मृजेर्वृद्धिः ।७।२।११४।
मृजेरिको वृद्धिः सार्वधातुकार्धधातुकयोः । मार्ग्यः ॥
भोज्यं भक्ष्ये ।७।३।६९।
भोग्यमन्यत् ॥
॥ इति कृत्यप्रक्रिया ॥
अथ पूर्वकृदन्तम्
ण्वुल्तृचौ। ३।१।१३३।
धातोरेतौ स्तः । कर्तरि कृदिति कर्त्रर्थे ॥
युवोरनाकौ ।७।१।१।
यु वु एतयोरनाकौ स्तः । कारकः । कर्ता ॥
नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ।३।१।१३४।
नन्द्यादेर्ल्युः, ग्रह्यादेर्णिनिः, पचादेरच् स्यात् । नन्दयतीति नन्दनः । जनमर्दयतीति जनार्दनः । लवणः । ग्राही । स्थायी । मन्त्री । पचादिराकृतिगणः ॥
इगुपधज्ञाप्रीकिरः कः ।३।१।१३५।
एभ्यः कः स्यात् । बुधः । कृशः । ज्ञः । प्रियः । किरः ॥
आतश्चोपसर्गे ।३।१।१३६।
प्रज्ञः । सुग्लः ॥
गेहे कः ।३।१।१४४।
गेहे कर्तरि ग्रहेः कः स्यात् । गृहम् ॥
कर्मण्यण् ।३।२।१।
कर्मण्युपपदे धातोरण् प्रत्ययं स्यात् । कुम्भं करोतीति कुम्भकारः ॥
आतोऽनुपसर्गे कः ।३।२।३।
आदन्ताद्धातोरनुपसर्गात्कर्मण्युपपदे कः स्यात् । अणोऽपवादः । आतो लोप इटि च । गोदः । धनदः । कम्बलदः । अनुपसर्गे किम् ? गोसन्दायः । (वा.) मूलविभुजादिभ्यः कः । मूलानि विभूजति मूलविभुजो रथः । आकृतिगणोऽयम् । महीध्रः । कुध्रः ॥
चरेष्टः ।३।२।१६।
अधिकरणे उपपदे । कुरुचरः ॥
भिक्षासेनादायेषु च ।३।२।१७।
भिक्षाचरः । सेनाचरः । आदायेति ल्यबन्तम् । आदायचरः ॥
कृञो हेतुताच्छील्यानुलोम्येषु ।३।२।२०।
एषु द्योत्येषु करोतेष्टः स्यात् ॥
अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य ।८।३।४६।
अदुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्यं सादेशः करोत्यादिषु परेषु । यशस्करी विद्या । श्राद्धकरः । वचनकरः॥
एजेः खश् ।३।२।२८।
ण्यन्तादेजेः खश् स्यात् ॥
अरुर्द्विषदजन्तस्य मुम् ।६।३।६७।
अरुषो द्विषतोऽजन्तस्य च मुमागमः स्यात्खिदन्ते परे न त्वव्ययस्य । शित्त्वाच्छबादिः । जनमेजयतीति जनमेजयः॥
प्रियवशे वदः खच् ।३।२।३८।
प्रियंवदः । वंशवदः ॥
अन्येभ्योऽपि दृश्यन्ते ।३।२।७५।
मनिन् क्वनिप् वनिप् विच् एते प्रत्यया धातोः स्युः ॥
नेड्वशि कृति ।७।२।८।
वशादेः कृत इण् न स्यात् । शॄ हिंसायाम् । सुशर्मा प्रातरित्वा ॥
विड्वनोरनुनासिकस्याऽऽत् ।६।४।४१।
अनुनासिकस्याऽऽत्स्यात् । विजायत इति विजावा । ओणृ अपनयने । अवावा । विच् । रुष रिष हिंसायाम् । रोट् । रेट् । सुगण् ॥
क्विप् च ।३।२।७६।
अयमपि दृश्यते । उखास्रत् । पर्णध्वत् । वाहभ्रट् ॥
सुप्यजातौ णिनिस्ताच्छील्ये ।३।२।७८।
अजात्यर्थे सुपि धातोर्णिनिस्ताच्छील्ये द्योत्ये । उष्णभोजी ॥
मनः ।३।२।८२।
सुपि मन्यतेर्णिनिः स्यात् । दर्शनीयमानी ॥
आत्ममाने खश् च ।३।२।८३।
स्वकर्मके मनने वर्तमानान्मन्यतेः सुपि खश् स्यात् चाण्णिनिः । पण्डितमात्मानं मन्यते पण्डितंमन्यः । पण्डितमानी ॥
खित्यनव्ययस्य ।६।३।६६।
खिदन्ते परे पूर्वपदस्य ह्रस्वः । ततो मुम् । कालिम्मन्या ॥
करणे यजः ।३।२।८५।
करणे उपपदे भूतार्थे यजेर्णिनिः कर्तरि । सोमेनेष्टवान् सोमयाजी । अग्निष्टोमयाजी ॥
दृशेः क्वनिप् ।३।२।९४।
कर्मणि भूते । पारं दृष्टवान् । पारदृश्वा ॥
राजनि युधि कृञः ।३।२।९५।
क्वनिप्स्यात् । युधिरन्तर्भावितण्यर्थः । राजानं योधितवान् राजयुध्वा । राजकृत्वा ॥
सहे च ।३।२।९६।
कर्मणीति निवृत्तम् । सह योधितवान् सहयुध्वा । सहकृत्वा ॥
सप्तम्यां जनेर्डः। ३।२।९७।
तत्पुरुषे कृति बहुलम् ।६।३।१४।
ङेरलुक् । सरसिजम्, सरोजम् ॥
उपसर्गे च संज्ञायाम् ।३।२।९९।
प्रजा स्यात्संततौ जने ॥
क्तक्तवतू निष्ठा ।१।१।२६।
एतौ निष्ठासंज्ञौ स्तः ॥
निष्ठा ।३।२।१०२।
भूतार्थवृत्तेर्धातोर्निष्ठा स्यात् । तत्र तयोरेवेति भावकर्मणोः क्तः । कर्तरि कृदिति कर्तरि क्तवतुः उकावितौ । स्नातं मया । स्तुतस्त्वया विष्णुः । विश्वं कृतवान् विष्णुः ॥
रदाभ्यां निष्ठातो नः पूर्वस्य च दः ।८।२।४२।
रदाभ्यां परस्य निष्ठातस्य नः स्यात् निष्ठापेक्षया पूर्वस्य धातोर्दस्य च । श्रृ हिंसायाम् । ऋत इत् । रपरः । णत्वम्। शीर्णः । भिन्नः । छन्नः ॥
संयोगादेरातो धातोर्यण्वतः ।८।२।४३।
निष्ठातस्य नः स्यात् । द्राणः । ग्लानः ॥
ल्वादिभ्यः ।८।२।४४।
एकविंशतेर्लूञादिभ्यः प्राग्वत् । लूनः । ज्या धातुः । ग्रहिज्येति संप्रसारणम् ॥
हलः ।६।४।२।
अङ्गावयवाद्धलः परं यत्संप्रसारणं तदन्तस्य दीर्घः । जीनः ॥
ओदितश्च ।८।२।४५।
भुजो भुग्नः । टुओश्वि, उच्छूनः ॥
शुषः कः ।८।२।५१।
निष्ठातस्य कः । शुष्कः ॥
पचो वः ।८।२।५२।
पक्वः । क्षै क्षये ॥
क्षायो मः ।८।२।५३।
क्षामः ॥
निष्ठायां सेटि ।६।४।५२।
णेर्लोपः । भावितः । भावितवान् । दृह हिंसायाम् ॥
दृढः स्थूलबलयोः ।७।२।२०।
स्थूले बलवति च निपात्यते ॥
दधातेर्हिः ।७।४।४२।
तादौ किति । हितम् ॥
दो दद् घोः ।७।४।४६।
घुसंज्ञकस्य दा इत्यस्य दथ् तादौ किति । चर्त्वम् । दत्तः ॥
लिटः कानज्वा ।३।२।१०६।
क्वसुश्च ।३।२।१०७।
लिटः कानच् क्वसुश्च वा स्तः । तङानावात्मनेपदम् । चक्राणः ॥
म्वोश्च ।८।२।६५।
मान्तस्य धातोर्नत्वं म्वोः परतः । जगन्वान् ॥
लटः शतृशानचावप्रथमासमानाधिकरणे ।३।२।१२४।
अप्रथमान्तेन समानाधिकरणे लट एतौ वा स्तः । शबादिः । पचन्तं चैत्रं पश्य ॥
आने मुक् ।७।२।८२।
अदन्ताङ्गस्य मुगागमः स्यादाने परे । पचमानं चैत्रं पश्य । लडित्यनुवर्तमाने पुनर्लड्ग्रहणात्- प्रथमासामानाधिकरण्येऽपि क्वचित् । सन् द्विजः ॥
विदेः शतुर्वसुः ।७।१।३६।
वेत्तेः परस्य शतुर्वसुरादेशो वा । विदन् । विद्वान् ॥
तौ सत् ।३।२।१२७।
तौ शतृशानचौ सत्संज्ञौ स्तः ॥
लृटः सद्वा ।३।३।१४।
व्यवस्थितविभाषेयम् । तेनाप्रथमासामानाधिकरण्ये प्रत्ययोत्तरपदयोः संबोधने लक्षणहेत्वोश्च नित्यम् । करिष्यन्तं करिष्यमाणं पश्य ॥
आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु ।३।२।१३४।
क्विपमभिव्याप्य वक्ष्यमाणाः प्रत्ययास्तच्छीलादिषु कर्तृषु बोध्याः ॥
तृन् ।३।२।१३५।
कर्ता कटान् ॥
जल्पभिक्षकुट्टलुण्टवृङः षाकन् ।३।२।१५५।
षः प्रत्ययस्य ।१।३।६।
प्रत्ययस्यादिः ष इत्संज्ञः स्यात् । जल्पाकः । भिक्षाकः । कुट्टाकः । लुण्टाकः । वराकः । वराकी ॥
सनाशंसभिक्ष उः ।३।२।१६८।
चिर्कीर्षुः । आशंसुः । भिक्षुः ॥
भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप् ।३।२।१७७।
विभ्राट् । भाः ॥
राल्लोपः ।६।४।२१।
रेफाच्छ्वोर्लोपः क्वौ झलादौ क्ङिति । धूः । विद्युत् । ऊर्क् । पूः । दृशिग्रहणस्यापकर्षाज्जवतेर्दीर्घः । जूः । ग्रावस्तुत्।
(क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं च ) । वक्तीति वाक् ॥
च्छ्वोः शूडनुनासिके च ।६।४।१९।
सतुक्कस्य छस्य वस्य च क्रमात् श् ऊठ् इत्यादेशौ स्तोऽनुनासिके क्वौ झलादौ च क्ङिति । पृच्छतीति प्राट् । आयतं स्तौतिति आयतस्तूः । कटं प्रवते कटप्रूः । जूरुक्तः । श्रयति हरिं श्रीः ॥
दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे ।३।२।१८२।
दाबादेः ष्ट्रन् स्यात्करणेऽर्थे । दात्यनेन दात्रम् । नेत्रम् ॥
तितुत्रतथसिसुसरकसेषु च ।७।२।९।
एषां दशानां कृत्यप्रत्ययानामिण् न । शस्त्रम् । योत्रम् । योक्त्रम् । स्तोत्रम् । तोत्त्रम् । सेत्रम् । सेक्त्रम् । मेढ्रम् । पत्त्रम् । दंष्ट्रा । नद्ध्री ॥
अर्तिलूधूसूखनसहचर इत्रः ।३।२।१८४।
अरित्रम् । लवित्रम् । धवित्रम् । सवित्रम् । खनित्रम् । सहित्रम् । चरित्रम् ॥
पुवः संज्ञायाम् ।३।२।१८५।
पवित्रम् ॥
॥ इति पूर्वकृदन्तम् ॥
अथोणादयः
कृवापाजिमिस्वदिसाध्यशूभ्य उण् ॥ १ ॥ करोतीति कारुः । वातीति वायुः । पायुर्गुदम् । जायुरौषधम् । मायुः पित्तम् । स्वादुः । साध्नोति परकार्यमिति साधुः । आशु शीघ्रम् ॥
उणादयो बहुलम् ।३।३।१।
एते वर्तमाने संज्ञायां च बहुलं स्युः । केचिदविहिता अप्यूह्याः ॥
संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे।
कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु ॥
॥ इत्युणादयः ॥
अथोत्तरकृदन्तम्
तमुन्ण्वुलौ क्रियायां क्रियार्थायाम् ।३।३।१०।
क्रियार्थायां किर्यायामुपपदे भविष्यत्यर्थे धातोरेतौ स्तः । मान्तत्वादव्ययत्वम् । कृष्णं द्रष्टुं याति । कृष्णं दर्शको याति ॥
कालसमयवेलासु तुमुन् ।३।३।१६७।
कालार्थेषूपपदेषु तुमुन् । कालः समयो वेला वा भोक्तुम् ॥
भावे ।३।३।१८।
सिद्धावस्थापन्ने धात्वर्थे वाच्ये धातोर्धञ् । पाकः ॥
अकर्तरि च कारके संज्ञायाम् ।३।३।१९।
कर्तृभिन्ने कारके घञ् स्यात् ॥
घञि च भावकरणयोः ।६।४।२७।
रञ्जेर्नलोपः स्यात् । रागः । अनयोः किम् ? रज्यत्यस्मिन्निति रङ्गः ॥
निवासचितिशरीरोपसमाधानेष्वादेश्च कः ।३।३।४१।
एषु चिनोतेर्घञ् आदेश्च ककारः । उपसमाधानं राशीकरणम् । निकायः । कायः । गोमयनिकायः ॥
एरच् ।३।३।५६।
इवर्णान्तादच् । चयः । जयः ॥
ॠदोरप् ।३।३।५७।
ॠवर्णान्तादुवर्णान्ताच्चाप् । करः । गरः । यवः । स्तवः । लवः । पवः । (घञर्थे कविधानम्) प्रस्थः । विघ्नः ।
ड्वितः क्त्रिः ।३।३।८८।
क्त्रेर्मम्नित्यम् ।४।४।२०।
क्त्रिप्रत्ययान्तान्मप् निर्वृत्तेऽर्थे । पाकेन निर्वृत्तं पक्त्रिमम् । डुवप् उप्त्रिमम् ॥
ट्वितोऽथुच् ।३।३।८९।
टुवेपृ कम्पने, वेपथुः ॥
यजयाचयतविच्छप्रच्छरक्षो नङ् ।३।३।९०।
यज्ञः । याच्ञा । यत्नः । विश्नः । प्रश्नः । रक्ष्णः ।
स्वपो नन् ।३।३।९१।
स्वप्नः ॥
उपसर्गे घोः किः ।३।३।९२।
प्रधिः । उपधिः ॥
स्त्रियां क्तिन् ।३।३।९४।
स्त्रीलिङ्गे भावे क्तिन् स्यात् । घञोऽपवादः । कृतिः । स्तुतिः । (ॠल्वादिभ्यः क्तिन्निष्ठावद्वाच्यः) । तेन नत्वम् । कीर्णिः । लूनिः । धूनिः । पूनिः । (संपदादिभ्य क्विप्) । संपत् । विपत् । आपत् । (क्तिन्नपीष्यते) संपत्तिः । विपत्तिः। आपत्तिः ॥
ऊतियूतिजूतिसातिहेतिकीर्तयश्च ।३।३।९७।
एते निपात्यन्ते ॥
ज्वरत्वरस्रिव्यविमवामुपधायाश्च ।६।४।२०।
एषामुपधावकारयोरूठ् अनुनासिके क्वौ झलादौ क्ङिति । अतः क्किप् । जूः । तूः । स्रूः । ऊः । मूः ॥
इच्छा ।३।३।१०१।
इषेर्निपातोऽयम् ॥
अ प्रत्ययात् ।३।३।१०२।
प्रत्ययान्तेभ्यः धातुभ्यः स्त्रियामकारः प्रत्ययः स्यात् । चिकीर्षा । पुत्रकाम्या ॥
गुरोश्च हलः ।३।३।१०३।
गुरुमतो हलन्तात्स्त्रियामकारः प्रत्ययः स्यात् । ईहा ॥
ण्यासश्रन्थो युच् ।३।३।१०७।
अकारस्यापवादः । कारणा । हारणा ॥
नपुंसके भावे क्तः ।३।३।११४।
ल्युट् च ।३।३।११५।
हसितम्, हसनम् ॥
पुंसि संज्ञायां घः प्रायेण ।३।३।११८।
छादेर्घेऽद्व्युपसर्गस्य।६।४।९६।
द्विप्रभृत्युपसर्गहीनस्य छादेर्ह्रस्वो घे परे । दन्ताश्छाद्यन्तेऽनेनेति । दन्तच्छदः । आकुर्वन्त्यस्मिन्नित्याकरः ॥
अवे तॄस्त्रोर्घञ् ।३।३।१२०।
अवतारः कूपादेः । अवस्तारो जवनिका ॥
हलश्च ।३।३।१२१।
हलन्ताद् घञ् । घापवादः । रमन्ते योगिनोऽस्मिन्निति रामः । अपमृज्यतेऽनेन व्याध्यादिरित्यपामार्गः ॥
ईषद्दुस्सुषु कृच्छ्राकृच्छ्रार्थेषु खल् ।३।३।१२६।
करणाधिकरणयोरिति निवृत्तम् । एषु दुःखसुखार्थेषूपपदेषु खल् तयोरेवेति भावे कर्मणि च । कृच्छ्रे-दुष्करः कटो भवता । अकृच्छ्रे-ईषत्करः । सुकरः ॥
आतो युच् ।३।३।१२८।
खलोऽपवादः । ईषत्पानः सोमो भवता । दुष्पानः । सुपानः ॥
अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा ।३।४।१८।
प्रतिषेधार्थयोरलंखल्वोरुपपदयोः क्त्वा स्यात् । प्राचां ग्रहणं पूजार्थम् । अमैवाव्ययेनेति नियमान्नोपपदसमासः । दो दद्घोः । अलं दत्त्वा । घुमास्थेतीत्त्वम् । पीत्वा खलु । अलंखल्वोः किम् ? मा कार्षीत् । प्रतिषेधयोः किम् ? अलंकारः ॥
समानकर्तृकयोः पूर्वकाले ।३।४।२१।
समानकर्तृकयोर्धात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात् । भुक्त्वा व्रजति । द्वित्वमतन्त्रम् । भुक्त्वा पीत्वा व्रजति ॥
न क्त्वा सेट् ।१।२।१८।
सेट् क्त्वा किन्न स्यात् । शयित्वा । सेट् किम् ? कृत्वा ॥
रलो व्युपधाद्धलादेः संश्च ।१।२।२६।
इवर्णोवर्णोपधाद्धलादेः रलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः । द्युतित्वा, द्योतित्वा । लिखित्वा, लेखित्वा । व्युपधात्किम् ? वर्तित्वा । रलः किम् ? सेवित्वा । हलादेः किम् ? एषित्वा । सेट् किम् ? भुक्त्वा ॥
उदितो वा ।७।२।५६।
उदितः परस्य क्त्व इड्वा । शमित्वा, शान्त्वा । देवित्वा, द्यूत्वा । दधातेर्हिः । हित्वा ॥
जहातेश्च क्त्वि ।७।४।४३।
हित्वा । हाङस्तु-हात्वा ॥
समासेऽनञ्पूर्वे क्त्वो ल्यप् ।७।१।३७।
अव्ययपूर्वपदेऽनञ्समासे क्त्वो ल्यबादेशः स्यात् । तुक् प्रकृत्य । अनञ् किम् ? अकृत्वा ॥
आभीक्ष्ण्ये णमुल् च ।३।४।२२।
आभीक्ष्ण्ये द्योत्ये पूर्वविषये णमुल् क्त्वा च ॥
नित्यवीप्सयोः ।८।१।४।
आभीक्ष्ण्ये वीप्सायां च द्योत्ये पदस्य द्वित्वं स्यात् । आभिक्ष्ण्यं तिङन्तेष्वव्ययसंज्ञकेषु कृदन्तेषु च । स्मारंस्मारं नमति शिवम् । स्मृत्वास्मृत्वा । पायम्पायम् । भोजम्भोजम् । श्रावं श्रावम् ॥
अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् ।३।४।२७।
एषु कृञो णमुल् स्यात् । सिद्धौऽप्रयोगोऽस्य एवम्भूतश्चेत् कृञ् । व्यर्थत्वात्प्रयोगानर्ह इत्यर्थः । अन्यथाकारम् । एवङ्कारम् । कथङ्कारम् । इत्थङ्कारं भुङ्क्ते । सिद्धेति किम् ? शिरोऽन्यथा कृत्वा भुङ्क्ते । इत्युत्तरकृदन्तम् ॥
॥ इति कृदन्तम् ॥