अथ तद्धिताः, तत्रादौ साधारणप्रत्ययाः

Sri App

अथ तद्धिताः

तत्रादौ साधारणप्रत्ययाः


समर्थानां प्रथमाद्वा ।४।१।८२।

इदं पदत्रयमधिक्रियते प्राग्दिश इति यावत् ॥

अश्वपत्यादिभ्यश्च ।४।१।८४।

एभ्योऽण् स्यात्प्राग्दीव्यतीयेष्वर्थेषु । अश्वपतेरपत्यादि आश्वपतम् । गाणपतम् ।

दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः ।४।१।८५।

दित्यादिभ्यः पत्युत्तरपदाच्च प्राग्दीव्यतीयेष्वर्थेषु ण्यः स्यात् । अणोऽपवादः । दितेरपत्यं दैत्यः । अदितेरादित्यस्य वा ॥

हलो यमां यमि लोपः ।८।४।६४।

हलः परस्य यमो लोपः स्याद् वा यमि । इति यलोपः । आदित्यः । प्राजापत्यः । (देवाद्यञञौ) । दैव्यम् । दैवम् ।

(बहिषष्टिलोपो यञ्) । बाह्यः । (ईकक्च) ॥

किति च ।७।२।११८।

किति तद्धिते चाचामादेरचो वृद्धिः स्यात् । बाहीकः । (गोरजादिप्रसङ्गे यत्) । गोरपत्यादि । गव्यम् ॥

उत्सादिभ्योऽञ् ।४।१।८६।

औत्सः ॥

॥ इत्यपत्यादिविकारान्तार्थसाधारणप्रत्ययाः ॥

 

अथापत्याधिकारः

स्त्रिपुंसाभ्यां नञ्स्नञौ भवनात् ।४। १। ८७।

धान्यानां भवन इत्यतः प्रागर्थेषु स्त्रीपुंसाभ्यां क्रमान्नञ्स्नञौ स्तः । स्त्रैणः । पौंस्नः ॥

तस्यापत्यम् ।४।१।९२।

षष्ठ्यन्तात्कृतसंधेः समर्थादपत्येऽर्थे उक्ता वक्ष्यमाणाश्च प्रत्यया वा स्युः ॥

ओर्गुणः ।६।४।१४६।

उवर्णान्तस्य भस्य गुणस्तद्धिते । उपगोरपत्यमौपगवः । आश्वपतः । दैत्यः । औत्सः । स्त्रैणः । पौंस्नः ॥

अपत्यं पौत्रप्रभृति गोत्रम् ।४।१।१६२।

अपत्यत्वेन विवक्षितं पौत्रादि गोत्रसंज्ञं स्यात् ॥

एको गोत्रे ।४।१।९३।

गोत्रे एक एवापत्यप्रत्ययः स्यात् । उपगोर्गोत्रापत्यमौपगवः ॥

गर्गादिभ्यो यञ् ।४।१।१०५।

गोत्रापत्ये । गर्गस्य गोत्रापत्यं गार्ग्यः । वात्स्यः ॥

यञञोश्च ।२।४।६४।

गोत्रे यद्यञन्तमञन्तं च तदवयवयोरेतयोर्लुक् स्यात्तत्कृते बहुत्वे न तु स्त्रियाम् । गर्गाः । वत्साः ॥

जीवति तु वंश्ये युवा ।४।१।१६३।

वंश्ये पित्रादौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि तद्युवसंज्ञमेव स्यात् ॥

गोत्राद्यून्यस्त्रियाम् ।४।१।९४।

यून्यपत्ये गोत्रप्रत्ययान्तादेव प्रत्ययः स्यात्, स्त्रियां तु न युवसंज्ञा ॥

यञिञोश्च ।४।१।१०१।

गोत्रे यौ यञिञौ तदन्तात्फक् स्यात् ॥

आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् ।७।१।२।

प्रत्ययादेः फस्य आयन्, ढस्य एय्, खस्य ईन्, छस्य ईय्, घस्य इय्, एते स्युः । गर्गस्य युवापत्यं गार्ग्यायणः । दाक्षायणः ॥

अत इञ् ।४।१।९५।

अपत्येऽर्थे । दाक्षिः ॥

बाह्वादिभ्यश्च ।४।१।९६।

बाहविः । औडुलोमिः । (लोम्नोऽपत्येषु बहुष्वकारो वक्तव्यः) । उडुलोमाः आकृतिगणोऽयम् ॥

अनृष्यानन्तर्ये विदादिभ्योऽञ् ।४।१।१०४।

एभ्योऽञ् गोत्रे । ये त्वत्रानृषयस्तेभ्योऽपत्येऽन्यत्र तु गोत्रे । बिदस्य गोत्रं बैदः । बैदौ । बिदाः । पुत्रस्यापत्यं पौत्रः । पौत्रौ । पौत्राः । एवं दौहित्रादयः ॥

शिवादिभ्योऽण् ।४।१।११२।

अपत्ये । शैवः । गाङ्गः ॥

ऋष्यन्धकवृष्णिकुरुभ्यश्च ।४।१।११४।

ऋषिभ्यः- वासिष्ठः । वैश्वामित्रः । अन्धकेभ्यः –श्वाफल्कः । वृष्णिभ्यः- वासुदेवः । कुरुभ्यः- नाकुलः । साहदेवः ॥

मातुरुत्संख्यासंभद्रपूर्वायाः ।४।१।११५।

संख्यादिपूर्वस्य मातृशब्दस्ययोदादेश स्यादण् प्रत्ययश्च । द्वैमातुरः । षाण्मातुरः । सांमातुरः । भाद्रमातुरः ॥

स्त्रीभ्यो ढक् ।४।१।१२०।

स्त्रीप्रत्ययान्तेभ्यो ढक् । वैनतेयः ॥

कन्यायाः कनीन च ।४।१।११६।

चादण् । कानीनो व्यासः कर्णश्च ॥

राजश्वशुराद्यत् ।४।१।१३७।

(राज्ञो जातावेवति वाच्यम्) ॥

ये चाभावकर्मणोः ।६।४।१६८।

यादौ तद्धिते परेऽन् प्रकृत्या स्यान्न तु भावकर्मणोः । राजन्यः । जातावेवेति किम् ? –

अन् ।६।४।१६७।

अन् प्रकृत्या स्यादणि परे । राजनः । श्वशुर्यः ॥

क्षत्त्राद् घः ।४।१।१३८।

क्षित्त्रियः । जातावित्येव । क्षात्त्रिरन्यत्र ॥

रेवत्यादिभ्यष्ठक् ।४।१।१४६।

ठस्येकः ।७।३।५०।

अङ्गात्परस्य ठस्येकादेशः स्यात् । रैवतिकः ॥

जनपदशब्दात्क्षत्त्रियादञ् ।४।१।१६८।

जनपदक्षत्त्रियवाचकाच्छब्दादञ् स्यादपत्ये । पाञ्चालः ॥ (क्षत्रियसमानशब्दाज्जनपदात्तस्य राजन्यपत्यवत्) । पञ्चालानां राजा पाञ्चालः । (पुरोरण् वक्तव्यः । पौरवः । (पाण्डोर्ड्यण्) । पाण्ड्यः ॥

कुरुनादिभ्यो ण्यः ।४।१।१७२।

कौरव्यः । नैषध्यः ॥

ते तद्राजाः ।४।१।१७४।

अञादयस्तद्राजसंज्ञाः स्युः ॥

तद्राजस्य बहुषु तेनैवास्त्रियाम् ।२।४।६२।

बहुष्वर्थेषु तद्राजस्य लुक् तदर्थकृते बहुत्वे न तु स्त्रियाम् । इक्ष्वाकवः । पञ्चालाः, इत्यादि ॥

कम्बोजाल्लुक् ।४।१।१७५।

अस्मात्तद्राजस्य लुक् । कम्बोजः । कम्बोजौ । (कम्बोजादिभ्य इति वक्तव्यम्) । चोलः । शकः । केरलः । यवनः ॥

॥ इत्यपत्याधिकारः ॥

 

अथ रक्ताद्यर्थकाः

तेन रक्तं रागात् ।४।२।१।

अण् स्यात् । रज्यतेऽनेनेति रागः । कषायेण रक्तं वस्त्रं काषायम् ॥

नक्षत्रेण युक्तः कालः ।४।२।३।

अण् स्यात् । (तिष्यपुष्ययोर्नक्षत्राणि यलोप इति वाच्यम्) । पुष्येण युक्तं पौषमहः ॥

लुबविशेषे ।४।२।४।

पूर्वेण विहितस्य लुप् स्यात् षष्ठिदण्डात्मकस्य कालस्यावान्तरविशेषश्चेन्न गम्यते । अद्य पुष्यः ॥

दृष्टं साम ।४।२।७।

तेनेत्येव । वसिष्ठेन दृष्टं वासिष्ठं साम ॥

वामदेवाड्ड्यड्ड्यौ ।४।२।९।

वामदेवेन दृष्टं साम वामदेव्यम् ॥

परिवृतो रथः ।४।२।१०।

अस्मिन्नर्थेऽण् प्रत्ययो भवति । वस्त्रेण परिवृतो वास्त्रो रथः ॥

तत्रोद्धृतममत्रेभ्यः ।४।२।१४।

शरावे उद्धृतः शाराव ओदनः ॥

संस्कृतं भक्षाः ।४।२।१६।

सप्तम्यन्तादण् स्यात्संस्कृतेऽर्थे यत्संस्कृतं भक्षाश्चेत्ते स्युः । भ्राष्ट्रेषु संस्कृता भ्राष्ट्रा यवाः ॥

साऽस्य देवता ।४।२।२४।

इन्द्रो देवताऽस्येति ऐन्द्रं हविः । पाशुपतम् । बार्हस्यत्यम् ॥

शुक्राद्घन् ।४।२।२६।

शुक्रियम् ॥

सोमाट्ट्यण् ।४।२।३०।

सौम्यम् ॥

वाय्वृतुपित्रुषसो यत् ।४।२।३१।

वायव्यम् । ऋतव्यम् ॥

रीङ् ऋतः ।७।४।२७।

अकृद्यकारे असार्वधातुके यकारे च्वौ च परे ऋदन्ताङ्गस्य रीङादेशः । यस्येति च । पित्र्यम् । उषस्यम् ॥

पितृव्यमातुलमातामहपितामहाः ।४।२।३६।

एते निपात्यन्ते । पितुर्भ्राता पितृव्यः । मातुर्भ्राता मातुलः । मातुः पिता मातामहः । पितुः पिता पितामहः ॥

तस्य समूहः ।४।२।३७।

काकानां समूहः काकम् ॥

भिक्षादिभ्योऽण् ।४।२।३८।

भिक्षाणां समूहो भैक्षम् । गर्भिणीनां समूहो गार्भिणम् । इह (भस्याढे तद्धित) । इति पुंवद्भावे कृते –

इनण्यनपत्ये ।६।४।१६४।

अनपत्यार्थेऽणि परे इन् प्रकृत्या स्यात् । तेन नस्तद्धित इति टिलोपो न । युवतीनां समूहो यौवनम् ॥

ग्रामजनबन्धुभ्यस्तल् ।४।२।४३।

तलन्तं स्त्रियाम् । ग्रामता । जनता । बन्धुता । (गजसहायाभ्यां चेति वक्तव्यम्) । गजता । सहायता । (अह्नः खः क्रतौ) । अहीनः ॥

अचित्तहस्तिधेनोष्ठक् ।४।२।४७।

इसुसुक्तान्तात्कः ।७।३।५१।

इस्उस्उक्तान्तात्परस्य ठस्य कः । साक्तुकम् । हास्तिकम् । धैनुकम् ॥

तदधीते तद्वेद ।४।२।५९।

न य्वाभ्यां पदान्ताभ्यां पूर्वो तु ताभ्यामैच् ।७।३।३।

पदान्ताभ्यां यकारवकाराभ्यां परस्य न वृद्धिः किं तु ताभ्यां पूर्वो क्रमादैजावागमौ स्तः । व्याकरणमधीते वेद वा वैयाकरणः ॥

क्रमादिभ्यो वुन ।४।२।६१।

क्रमकः । पदकः । शिक्षकः । मीमांसकः ॥

॥ इति रक्ताद्यर्थकाः ॥

 

अथ चातुरर्थिकाः

तदस्मिन्नस्तीति देशे तन्नाम्नि ।४।२।६७।

उदुम्बराः सन्त्यस्मिन्देशे औदुम्बरो देशः ॥

तेन निर्वृत्तम् ।४।२।६८।

कुशाम्बेन निर्वृत्ता नगरी कौशाम्बी ॥

तस्य निवासः ।४।२।६९।

शिबीनां निवासो देशः शैबः ॥

अदूरभवश्च ।४।२।७०।

विदिशाया अदूरभवं वैदिशम् ॥

जनपदे लुप् ।१।२।५१।

जनपदे वाच्ये चातुरर्थिकस्य लुप् ॥

लुपि युक्तवद्व्यक्तिवचने ।१।२।५१।

लुपि सति प्रकृतिवल्लिङ्गवचने स्तः । पञ्चालानां निवासो जनपदः पञ्चालाः । कुरवः । अङ्गाः । वङ्गाः । कलिङ्गाः ॥

वरणादिभ्यश्च ।४।२।८२।

अजनपदार्थ आरम्भः । वरणानामदूरभवं नगरं वरणाः ॥

कुमुदनडवेतसेभ्यो ड्मतुप् ।४।२।८७।

झयः। ८।२।१०।

झयन्तान्मतोर्मस्य वः । कुमुद्वान् । नड्वान् ॥

मादुपधायाश्च मतोर्वोऽयवादिभ्यः ।८।२।९।

मवर्णावर्णान्तान्मवर्णावर्णोपधाच्च यवादिवर्जितात्परस्य मतोर्मस्य वः । वेतस्वान् ॥

नडशादाड्डवलच् ।४।२।८८।

नड्वलः। शाद्वलः ॥

शिखाया वलच् ।४।२।८९।

शिखावलः ॥

॥ इति चातुरर्थिकाः ॥

 

अथ शैषिकाः

शेषे ।४।२।९२।

अपत्यादिचतुरर्थ्यन्तादन्योऽर्थः शेषस्तत्राणादयः स्युः । चक्षुषा गृह्यते चाक्षुषं रूपम् । श्रावणः शब्दः । औपनिषदः पुरुषः । दृषदि पिष्टा दार्षदाः सक्तवः । चतुर्भिरुह्यं चातुरं शकटम् । चातुर्दश्यां दृश्यते चातुर्दशं रक्षः । ‘तस्य विकार’ इत्यतः प्राक् शेषाधिकारः ॥

राष्ट्रावारपाराद्घखौ ।४।२।९३।

आभ्यां क्रमाद् घखौ स्तः शेषे । राष्ट्रे जातादिः राष्ट्रियः । अवारपारीणः । (अवारपाराद्विगृहीतादपि विपरीताच्चेति वक्तव्यम्) । अवारीणः । पारीणः । पारावरीणः । इह प्रकृतिविशेषाद् घादयष्ट्युट्युलन्ताः प्रत्यया उच्यन्ते तेषां जातादयोऽर्थविशेषाः समर्थविभक्तयश्च वक्ष्यन्ते ॥

ग्रामाद्यखञौ ।४।२।९४।

ग्राम्यः । ग्रामीणः ॥

नद्यादिभ्यो ढक् ।४।२।९७।

नादेयम् । मोहेयम् । वाराणसेयम् ॥

दक्षिणापश्चात्पुरसस्त्यक् ।४।२।९८।

दाक्षिणात्यः । पाश्चात्त्यः । पौरस्त्यः ॥

द्युप्रागपागुदक्प्रतीचो यत् ।४।२।१०१।

दिव्यम् । प्राच्यम् । अपाच्यम् । उदीच्यम् । प्रतीच्यम् ॥

अव्ययात्त्यप् ।४।२।१०४।

(अमेहक्वतसित्रेभ्य एव) । अमात्यः । इहत्यः । क्वत्यः । ततस्त्यः । तत्रत्यः । (त्यब्नेर्ध्रुव इति वक्तव्यम) । नित्यः ॥

वृद्धिर्यस्याचामादिस्तद्वृद्धम् ।१।१।७३।

यस्य समुदायस्याचां मध्ये आधिर्वृद्धिस्तद्वृद्धसंज्ञं स्यात् ॥

त्यदादीनि च ।१।१।७४।

वृद्धसंज्ञानि स्युः ॥

वृद्धाच्छः ।४।२।११४।

शालीयः । मालीयः । तदीयः । (वा नामधेयस्य वृद्धसंज्ञा वक्तव्या) । देवदत्तीयः, दैवदत्तः ॥

गहादिभ्यश्च ।४।२।१३८।

गहीयः ॥

युष्मदस्मदोरन्यतरस्यां खञ् च ।४।३।१।

चाच्छः । पक्षेऽण् । युवयोर्युष्माकं वायं युष्मदीयः । अस्मदीयः ॥

तस्मिन्नणि च युष्माकास्माकौ ।४।३।२।

युष्मदस्मदोरेतावादेशौ स्तः खञ्यणि च । यौष्माकीणः । आस्माकीनः । यौष्माकः । आस्माकः ॥

तवकममकावेकवचने ।४।३।३।

एकार्थवाचिनोर्युष्मदस्मदोस्तवकममकौ स्तः खञि अणि च । तावकीनः । तावकः । मामकीनः । मामकः । छे तु –

प्रत्ययोत्तरपदयोश्च ।७।२।९८।

मपर्यन्तयोरेतयोरेकार्थवाचिनोस्त्वमौ स्तः प्रत्यये उत्तरपदे च परतः । त्वदीयः । मदीयः । त्वत्पुत्रः । मत्पुत्रः ॥

मध्यान्मः ।४।३।८।

मध्यमः ॥

कालाट्ठञ् ।४।३।११।

कालवाचिभ्यष्ठञ् स्यात् । कालिकम् । मासिकम् । सांवत्सरिकम् । (अव्ययानां भमात्रे टिलोपः) । सायम्प्रातिकः । पौनःपुनिकः ॥

प्रावृष एण्यः ।४।३।१७।

प्रावृषेण्यः ॥

सायञ्चिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च ।४।३।२३।

सायमित्यादिभ्यश्चतुर्भ्योऽव्ययेभ्यश्च कालवाचिभ्यष्ट्युट्युलौ स्तस्तयोस्तुट् च । सायन्तनम् । चिरन्तनम् । प्राह्णेप्रगे अनयोरेदन्तत्वं निपात्यते । प्राह्णेतनम् । प्रगेतनम् । दोषातनम् ॥

तत्र जातः ।४।३।२५।

सप्तमीसमर्थाज्जात इत्यर्थेऽणादयो घादयश्च स्युः । स्रुग्घ्ने जातः स्रौग्घ्नः । उत्से जातः औत्सः । राष्ट्रे जातो राष्ट्रियः । अवारपारे जातः अवारपारीणः, इत्यादि ॥

प्रावृषष्ठप् ।४।३।२६।

एण्यापवादः । प्रावृषिकः ॥

प्रायभवः ।४।३।३९।

तत्रेत्येव । स्रुग्घ्ने प्रायेण बाहुल्येन भवति स्रौग्घ्नः ॥

सम्भूते ।४।३।४१।

स्रुग्घ्ने संभवति स्रौग्घ्नः ॥

कोशाड्ढञ् । ४।३।४२।

कौशेयं वस्त्रम् ॥

तत्र भवः ।४।३।५३।

स्रुग्घ्ने भवः स्रौग्घ्नः । औत्सः । राष्ट्रियः ॥

दिगादिभ्यो यत् ।४।३।५४।

दिश्यम् । वर्ग्यम् ॥

शरीरावयवाच्च ।४।३।५५।

दन्त्यम् । कण्ठ्यम् । (अध्यात्मादेष्ठञिष्यते) । अध्यात्मं भवमाध्यात्मिकम् ॥

अनुशतिकादीनां च ।७।३।२०।

एषामुभयपदवृद्धिर्ञिति णिति किति च । आधिदैविकम् । आधिभौतिकम् । ऐहलौकिकम् । आकृतिगणोऽयम् ॥

जिह्वामूलाङ्गुलेश्छः ।४।३।६२।

जिह्वामूलीयम् । अङ्गुलीयम् ॥

वर्गान्ताच्च ।४।३।६३।

कवर्गीयम् ॥

तत आगतः ।४।३।७४।

स्रुग्घ्नादागतः स्रौग्घ्नः ॥

ठगायस्थानेभ्यः ।४।३।७५।

शुल्कशालाया आगतः शौल्कशालिकः ॥

विद्यायोनिसंबन्धेभ्यो वुञ् ।४।३।७७।

औपाध्यायकः । पैतामहकः ॥

हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः ।४।३।८१।

समादागतं समरूप्यम् । पक्षे – गहादित्वाच्छः । समीयम् । विषमीयम् । देवदत्तरूप्यम्। दैवदत्तम् ॥

मयट् च ।४।३।८२।

सममयम् । देवदत्तमयम् ॥

प्रभवति ।४।३।८३।

हिमवतः प्रभवति हैमवती गङ्गा ॥

तद्गच्छति पथिदूतयोः ।४।३।८५।

स्रुग्घ्नं गच्छति स्रौग्ध्नः पन्था दूतो वा ॥

अभिनिष्क्रामति द्वारम् ।४।३।८६।

स्रुग्घ्नमभिनिष्क्रामति स्रौग्घ्नं कान्यकुब्जद्वारम् ॥

अधिकृत्य कृते ग्रन्थे ।४।३।८७।

शारीरकमधिकृत्य कृतो ग्रन्थः शारीरकीयः ॥

सोऽस्य निवासः ।४।३।८९।

स्रुग्घ्नो निवासोऽस्य स्रौग्घ्नः ॥

तेन प्रोक्तम् ।४।३।१०१।

पाणिनिना प्रोक्तं पाणिनीयम् ॥

तस्येदम् ।४।३।१२०।

उपगोरिदम् औपगवम् ॥

॥ इति शैषिकाः ॥

 

अथ विकारार्थकाः

तस्य विकारः ।४।३।१३४।

(अश्मनो विकारे टिलोपो वक्तव्यः) । अश्मनो विकारः आश्मः । भास्मनः । मार्त्तिकः ॥

अवयवे च प्राण्योषधिवृक्षेभ्यः ।४।३।१३५।

चाद्विकारे । मयूरस्यावयवो विकारो वा मायूरः । मौर्वं काण्डं भस्म वा । पैप्पलम् ॥

मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः ।४।३।१४३।

प्रकृतिमात्रान्मयड्वा स्यात् विकारावयवयोः । अश्ममयम्, आश्मनम् । अभक्ष्येत्यादि किम् ? मौद्गः सूपः । कार्पासमाच्छादनम् ॥

नित्यं वृद्धशरादिभ्यः ।४।३।१४४।

आम्रमयम् । शरमयम् ॥

गोश्च पुरीषे ।४।३।१४५।

गोः पुरीषं गोमयम् ॥

गोपयसोर्यत् ।४।३।१६०।

गव्यम् । पयस्यम् ॥

॥ इति विकारायाः (प्राग्दीव्यतीयाः) ॥

 

अथ ठगधिकारः

प्राग्वहतेष्ठक् ।४।४।१।

तद्वहतीत्यतः प्राक् ठगधिक्रियते ॥

तेन दीव्यति खनति जयति जितम् ।४।४।२।

अक्षैर्दीव्यति खनति जयति जितो वा आक्षिकः ॥

संस्कृतम् ।४।४।३।

दध्ना संस्कृतं दाधिकम् । मारिचिकम् ॥

तरति ।४।४।५।

तेनेत्येव । उडुपेन तरति औडुपिकः ॥

चरति ।४।४।८।

तृतीयान्ताद्गच्छति भक्षयतीत्यर्थयोष्ठक् स्यात् । हस्तिना चरति हास्तिकः । दध्ना चरति दाधिकः ॥

संसृष्टे ।४।४।२२।

दध्ना संसृष्टं दाधिकम् ॥

उञ्छति ।४।४।३२।

बदराण्युञ्छति बादरिकः ॥

रक्षति ।४।४।३३।

समाजं रक्षति सामाजिकः ॥

शब्ददर्दुरं करोति ।४।४।३४।

शब्दं करोति शाब्दिकः । दर्दुरं करोति दार्दुरिकः ॥

धर्मं चरति ।४।४।४१।

धार्मिकः । (अधर्माच्चेति वक्तव्यम्) । आधर्मिकः ॥

शिल्पम् ।४।४।५५।

मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः ॥

प्रहरणम् ।४।४।५७।

तदस्येत्येव । असिः प्रहरणमस्य आसिकः । धानुष्कः ॥

शीलम् ।४।४।६१।

अपूपभक्षणं शीलमस्य आपूपिकः ॥

निकटे वसति ।४।४।७३।

नैकटिको भिक्षुकः ॥

॥ इति ठगधिकारः । (प्राग्वहतीयाः) ॥

 

अथ यदधिकारः

प्राग्घिताद्यत् ।४।४।७५।

तस्मै हितमित्यतः प्राग् यदधिक्रियते ॥

तद्वहति रथयुगप्रासङ्गम् ।४।४।७६।

रथं वहति रथ्यः । युग्यः । प्रासङ्ग्यः ॥

धुरो यड्ढकौ ।४।४।७७।

हलि चेति दीर्घे प्राप्ते –

न भकुर्छुराम् ।८।२।७९।

भस्य कुर्छुरोश्चोपधाया इको दीर्घो न स्यात् । धुर्यः । धौरेयः ॥

नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसंमितेषु ।४।४।९१।

नावा तार्यं नाव्यं जलम् । वयसा तुल्यो वयस्यः । धर्मेण प्राप्यं धर्म्यम् । विषेण वध्यो विष्यः । मूलेन आनाम्यं मूल्यम् । मूलेन समो मूल्यः । सीतया समितं सीत्यं क्षेत्रम् । तुलया संमितं तुल्यम् ॥

तत्र साधुः ।४।४।९८।

अग्रे साधुः – अग्र्यः । सामसु साधुः सामन्यः । ये चाभावकर्मणोरिति प्रकृतिभावः । कर्मण्यः । शरण्यः ॥

सभाया यः ।४।४।१०५।

सभ्यः ॥

॥ इति यतोऽवधिः (प्राग्घितीयाः) ॥

अथ छयतोरधिकारः

प्राक् क्रीताच्छः ।५।१।१।

तेन क्रीतमित्यतः प्राक् छोऽधिक्रियते ॥

उगवादिभ्यो यत् ।५।१।२।

प्राक् क्रीतादित्येव । उवर्णान्ताद्गवादिभ्यश्च यत् स्यात् । छस्यापवादः । शङ्कवे हितं शङ्कव्यं दारु । गव्यम् । (नाभि नभं च) । नभ्योऽक्षः । नभ्यमञ्जनम् ॥

तस्मै हितम् ।५।१।५।

वत्सेभ्यो हितो वत्सीयो गोधुक् ॥

शरीरावयवाद्यत् ।५।१।६।

दन्त्यम् । कण्ठ्यम् । नस्यम् ॥

आत्मन्विश्वजनभोगोत्तरपदात्खः ।५।१।९।

आत्माध्वानौ खे ।६।४।१६९।

एतौ खे प्रकृत्या स्तः । आत्मने हितम् आत्मनीनम् । विश्वजनीनम् । मातृभोगीणः ॥

॥ इति छयतोरवधिः (प्राक्क्रीतीयाः) ॥

 

अथ ठञधिकारः॥

प्राग्वतेष्ठञ् ।५।१।१८।

तेन तुल्यमिति वतिं वक्ष्यति, ततः प्राक् ठञधिक्रियते ॥

तेन क्रीतम् ।५।१।३७।

सप्तत्या क्रीतं साप्ततिकम् । प्रास्थिकम् ॥

सर्वभूमिपृथिवीभ्यामणञौ ।५।१।४१।

तस्येश्वरः।५।१।४२।

सर्वभूमिपृथिवीभ्यामणञौ स्तः । अनुशतिकादीनां च । सर्वभूमेरीश्वरः सार्वभौमः । पार्थिवः ॥

पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् ।५।१।५९।

एते रूढशब्दा निपात्यन्ते ॥

तदर्हति ।५।१।६३।

लब्धुं योग्यो भवतीत्यर्थे द्वितीयान्ताट्ठञादयः स्युः । श्वेतच्छत्रमर्हति श्वैतच्छत्रिकः ॥

दण्डादिभ्यो यत् ।५।१।६६।

एभ्यो यत् स्यात् । दण्डमर्हति दण्ड्यः । अर्घ्यः । वध्यः ॥

तेन निर्वृत्तम् ।५।१।७९।

अह्ना निर्वृत्तम् आह्निकम् ॥

॥ इति ठञोऽवधिः । (प्राग्वतीयाः) ॥

 

अथ त्वतलोरधिकारः

तेन तुल्यं क्रिया चेद्वतिः ।५।१।११५।

ब्राह्मणेन तुल्यं ब्राह्मणवत् अधीते । क्रिया चेदिति किम् ? गुणतुल्ये मा भूत् । पुत्रेण तुल्यः स्थूलः ॥

तत्र तस्येव ।५।१।११६।

मथुरायामिव मथुरावत् स्रुग्घ्ने प्राकारः । चैत्रस्येव चैत्रवन्मैत्रस्य गावः ॥

तस्य भावस्त्वतलौ ।५।१।११९।

प्रकृतिजन्यबोधे प्रकारो भावः । गोर्भावो गोत्वम् । गोता । त्वान्तं क्लीबम् ॥

आ च त्वात् ।५।१।१२०।

ब्रह्मणस्त्व इत्यतः प्राक् त्वतलावधिक्रियेते । अपवादैः सह समावेशार्थमिदम् । चकारो नञ्स्नञ्भ्यामपि समावेशार्थः । स्त्रिया भावः – स्त्रैणम् । स्त्रीत्वम् । स्त्रीता । पौंस्नम् । पुंस्त्वम् । पुंस्ता ॥

पृथ्वादिभ्य इमनिज्वा ।५।१।१२२।

वावचनमणादिसमावेशार्थम् ॥

र ऋतो हलादेर्लघोः ।६।४।१६१।

हलादेर्लघोर्ऋकारस्य रः स्यादिष्ठेयस्सु परतः । पृथुमृदुभृशकृशदृढपरिवृढानामेव रत्वम् ॥

टेः ।६।४।१५५।

भस्य टेर्लोप इष्ठेमेयस्सु । पृथोर्भावः प्रथिमा –

इगन्ताच्च लघुपूर्वात् ।५।१।१३१।

इगन्ताल्लघुपूर्वात् प्रातिपदिकाद्भावेऽण् प्रत्ययः । पार्थवम् । म्रदिमा, मार्दवम् ॥

वर्णदृढादिभ्यः ष्यञ्च ।५।१।१२३।

चादिमनिच् । शौक्ल्यम् । शुक्लिमा । दार्ढ्यम् । द्रढिमा ॥

गुणवचनब्राह्मणादिभ्यः कर्मणि च ।५।१।१२४।

चाद्भावे । जडस्य भावः कर्म वा जाड्यम् । मूढस्य भावः । कर्म वा मौढ्यम् । ब्राह्मण्यम् । आकृतिगणोऽयम् ॥

सख्युर्यः ।५।१।१।२६।

सख्युर्भावः कर्म वा सख्यम् ॥

कपिज्ञात्योर्ढक् ।५।१।१२७।

कापेयम् । ज्ञातेयम् ॥

पत्यन्तपुरोहितादिभ्यो यक् ।५।१।१२८।

सैनापत्यम् । पौरोहित्यम् ॥

॥ इति त्वतलोरधिकारः ॥

 

अथ भवनाद्यर्थकाः

धान्यानां भवने क्षेत्रे खञ् ।५।२।१।

भवत्यस्मिन्निति भवनम् । मुद्गानां भवनं क्षेत्रं मौद्गीनम् ॥

व्रीहिशाल्योर्ढक् ।५।२।२।

व्रैहेयम् । शालेयम् ॥

हैयङ्गवीनं संज्ञायाम् ।५।२।२३।

ह्योगोदोहशब्दस्य हियङ्गुरादेशः विकारार्थे खञ्च निपात्यते । दुह्यत इति दोहः क्षीरम् । ह्योगोदोहस्य विकारः – हैयङ्गवीनं नवनीतम् ॥

तदस्य संजातं तारकादिभ्य इतच् ।५।२।३६।

तारकाः संजाता अस्य तारकितं नभः । पण्डितः । आकृतिगणोऽम् ॥

प्रमाणे द्वयसज्दघ्नञ्मात्रचः ।५।२।३७।

तदस्येत्यनुवर्तते । ऊरू प्रमाणमस्य – ऊरुद्वयसम् । ऊरुदघ्नम् । ऊरुमात्रम् ॥

यत्तदेतेभ्यः परिमाणे वतुप् ।५।२।३९।

यत्परिमाणमस्य यावान् । तावान् । एतावान् ॥

किमिदंभ्यां वो घः ।५।२।४०।

आभ्यां वतुप् स्याद् वकारस्य घश्च ॥

इदंकिमोरीश्की ।६।३।९०

दृग्दृशवतुषु इतम ईश् किमः किः । कियान् । इयान् ॥

संख्याया अवयवे तयप् ।५।२।४२।

पञ्च अवयवा अस्य पञ्चतयम् ॥

द्वित्रिभ्यां तयस्यायज्वा ।५।२।४३।

द्वयम् । द्वितयम् । त्रयम् । त्रितयम् ॥

उभादुदात्तो नित्यम् ।५।२।४४।

उभशब्दात्तयपोऽयच् स्यात् स चाद्युदात्तः । उभयम् ॥

तस्य पूरणे डट् ।५।२।४८।

एकादशानां पुरण एकादशः ॥

नान्तादसंख्यादेर्मट् ।५।२।४९।

डटो मडागमः । पञ्चानां पूरणः पञ्चमः । नान्तात्किम् ?

ति विंशतेर्डिति ।६।४।१४२।

विंशतेर्भस्य तिशब्दस्य लोपो डिति परे । विंशः । असंख्यादेः किम् ? एकादशः ॥

षट्कतिकतिपयचतुरां थुक् ।५।२।५१।

एषां थुगागमः स्याड्डटि । षण्णां पूरणः षष्ठः । कतिथः । कतिपयशब्दस्यासंख्यात्वेऽप्यत एव ज्ञापकाड्डट् कतिपयथः । चतुर्थः ॥

द्वेस्तीयः ।५।२।५४।

डटोऽपवादः । द्वयोः पूरणो द्वितीयः ॥

त्रेः संप्रसारणं च ।५।२।५५।

तृतीयः ॥

श्रोत्रियंश्छन्दोऽधीते ।५।२।८४।

श्रोत्रियः । वेत्यनुवृत्तेश्छान्दसः ॥

पूर्वादिनिः ।५।२।८६।

पूर्वं ज्ञातमनेन पूर्वी ॥

सपूर्वाच्च ।५।२।८७।

कृतपूर्वी ॥

इष्टादिभ्यश्च ।५।२।८८।

इष्टमनेन इष्टी । अधीती ॥

॥ इति भवनाद्यर्थकाः ॥

 

अथ मत्वर्थीयाः

तदस्यास्त्यस्मिन्निति मतुप् ।५।२।९४।

गावोऽस्यास्मिन्वा सन्ति गोमान् ॥

तसौ मत्वर्थे ।१।४।१९।

तान्तसान्तौ भसंज्ञौ स्तो मत्वर्थे प्रत्यये परे । गरुत्मान् । वसोः संप्रसारणम् । विदुष्मान् । (गुणवचनेभ्यो मतुपो लुगिष्टः) । शुक्लो गुणोऽस्यास्तीति शुक्लः पटः । कृष्णः ॥

प्राणिस्थादातो लजन्यतरस्याम् ।५।२।९६।

चूडालः । चूडावान् । प्राणिस्थात्किम् ? शिखावान् दीपः । प्राण्यङ्गादेव । मेधावान् ॥

लोमादिपामादिपिच्छादिभ्यः शनेलचः ।५।२।१००।

लोमादिभ्यः शः । लोमशः । लोमवान् । रोमशः । रोमवान् । पामादिभ्यो नः । पामनः । (ग.सू.) अङ्गात्कल्याणे । अङ्गना । (ग.सू.) लक्ष्म्या अच्च । लक्ष्मणः । पिच्छादिभ्य इलच् । पिच्छिलः । पिच्छवान् ॥

दन्त उन्नत उरच् ।५।२।१०६।

उन्नता दन्ताः सन्त्यस्य दन्तुरः ॥

केशाद्वोऽन्यतरस्याम् ।५।२।१०९।

केशवः । केशी । केशिकः । केशवान् । (अन्येभ्योऽपि दृश्यते) । मणिवः । (अर्णसो लोपश्च) । अर्णवः ॥

अत इनिठनौ ।५।२।११५।

दण्डी । दण्डिकः ॥

व्रीह्यादिभ्यश्च ।५।२।११६।

व्रीही । व्रीहिकः ॥

अस्मायामेधास्रजो विनिः ।५।२।१२१।

यशस्वी । यशस्वान् । मायावी । मेधावी । स्रग्वी ॥

वाचो ग्मिनिः ।५।२।१२४।

वाग्मी ॥

अर्श आदिभ्योऽच् ।५।२।१२७।

अर्शोऽस्य विद्यते अर्शसः । आकृतिगणोऽयम् ॥

अहंशुभमोर्युस् ।५।२।१४०।

अहंयुः अहङ्कारवान् । शुभंयुस्तु शुभान्वितः ॥

॥ इति मत्वर्थीयाः ॥

 

अथ प्राग्दिशीयाः

प्राग्दिशो विभक्तिः ।५।३।१।

दिकछब्देभ्य इत्यतः प्राग्वक्ष्यमाणाः प्रत्यया विभक्तिसंज्ञाः स्युः ॥

किंसर्वनामबहुभ्योऽद्व्यादिभ्यः ।५।३।२।

किमः सर्वनाम्नो बहुशब्दाच्चेति प्राग्दिशोऽधिक्रियते ॥

पञ्चम्यास्तसिल् ।५।३।७।

पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल् वा स्यात् ॥

कु तिहोः ।७।२।१०४।

किमः कु स्यात्तादौ हादौ च विभक्तौ परतः । कुतः, कस्मात् ॥

इदम इश् ।५।३।३।

प्राग्दिशीये परे । इतः ॥

अन् ।५।३।५।

एतदः प्राग्दिशीये । अनेकाल्त्वात्सर्वादेशः । अतः । अमुतः । यतः । ततः । बहुतः । द्व्यादेस्तु । द्वाभ्याम् ॥

पर्यभिभ्यां च ।५।३।९।

आभ्यां तसिल् स्यात् । परितः । सर्वत इत्यर्थः । अभितः । उभयत इत्यर्थः ॥

सप्तम्यास्त्रल् ।५।३।१०।

कुत्र । यत्र । बहुत्र ॥

इदमो हः ।५।३।११।

त्रलोऽपवादः । इह ॥

किमोऽत् ।५।३।१२।

वाग्रहणमपकृष्यते । सप्तम्यन्तात्किमोऽद्वा स्यात् पक्षे त्रल् ॥

क्वाति ।७।२।१०५।

किमः । क्वादेशः स्यादति । क्व । कुत्र ॥

इतराभ्योऽपि दृश्यन्ते ।५।३।१४।

पञ्चमीसप्तमीतरविभक्त्यन्तादपि तसिलादयो दृश्यन्ते । दृशिग्रहणाद्भवदादियोग एव । स भवान् । ततो भवान् । तत्र भवान् । ततो भवन्तम् । तत्र भवन्तम् । एवं दीर्घायुः, देवानां प्रियः, आयुष्मान् ॥

सर्वैकान्यकिंयत्तदः काले दा ।५।३।१५।

सप्तम्यन्तेभ्यः कालार्थेभ्यः स्वार्थे दा स्यात् ॥

सर्वस्य सोऽन्यतरस्यां दि ।५।३।६।

दादौ प्राग्दिशीये सर्वस्य सो वा स्यात् । सर्वस्मिन् काले सदा । सर्वदा । अन्यदा । कदा । यदा । तदा । काले किम्? सर्वत्र देशे ॥

इदमो र्हिल् ।५।३।१६।

सप्तम्यन्तात् काल इत्येव ॥

एतेतौ रथोः ।५।३।४।

इदम्शब्दस्य एत इत् इत्यादेशौ स्तो रेफादौ थकारादौ च प्राग्दिशीये परे । अस्मिन् काले एतर्हि । काले किम् ? इह देशे ॥

अनद्यतने र्हिलन्यतरस्याम् ।५।३।२१।

कर्हि, कदा । यर्हि, यदा । तर्हि, तदा ॥

एतदः ।५।३।५।

एत इत् एतौ स्तो रेफादौ थादौ च प्राग्दिशीये । एतस्मिन् काले एतर्हि ॥

प्रकारवचने थाल् ।५।३।२३।

प्रकारवृत्तिभ्यः किमादिभ्यस्थाल् स्यात् स्वार्थे । तेन प्रकारेण तथा । यथा ॥

इदमस्थमुः ।५।३।२४।

थालोऽपवादः । (एतदोऽपि वाच्यः) । अनेन एतेन वा प्रकारेण इत्थम् ॥

किमश्च ।५।३।२५।

केन प्रकारेण कथम् ॥

॥ इति प्राग्दिशीयाः ॥

 

अथ प्रागिवायाः

अतिशायने तमबिष्ठनौ ।५।३।५५।

अतिशयविशिष्टार्थवृत्तेः स्वार्थ एतौ स्तः । अयमेषामतिशयेनाढ्य आढ्यतमः । लघुतमः, लघिष्ठः ॥

तिङश्च ।५।३।५६।

तिङन्तादतिशये द्योत्ये तमप् स्यात् ॥

तरप्तमपौ घः ।१।१।२२।

एतौ घसंज्ञौ स्तः ॥

किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे ।५।४।११।

किम एदन्तात्तिङोऽव्ययाच्च यो घस्तदन्तादामुः स्यान्न तु द्रव्यप्रकर्षे । किन्तमाम् । प्राह्णेतमाम् । पचतितमाम् । उच्चैस्तमाम् । द्रव्यप्रकर्षे तु उच्चैस्तमस्तरुः ॥

द्विवचनविभज्योपपदे तरबीयसुनौ ।५।३।५७।

द्वयोरेकस्यातिशये विभक्तव्ये चोपपदे सुप्तिङन्तादेतौ स्तः । पूर्वयोरपवादः । अयमनयोरतिशयेन लघुः लघुतरो लघीयान् । उदिच्याः प्राच्येभ्यः पटुतराः पटीयांसः ॥

प्रशस्यस्य श्रः ।५।३।६०।

अस्य श्रादेशः स्यादजाद्योः परतः ॥

प्रकृत्यैकाच् ।६।४।१६३।

इष्ठादिष्वेकाच् प्रकृत्या स्यात् । श्रेष्ठः, श्रेयान् ॥

ज्य च ।५।३।६१।

प्रशस्यस्य ज्यादेशः स्यादिष्ठेयसोः । ज्येष्ठः ॥

ज्यादादीयसः ।६।४।१६०।

आदेः परस्य । ज्यायान् ॥

बहोर्लोपो भू च बहोः ।६।४।१५८।

बहोः परयोरिमेयसोर्लोपः स्याद्बहोश्च भूरादेशः । भूमा । भूयान् ॥

इष्ठस्य यिट् च ।६।४।१५९।

बहोः परस्य इष्ठस्य लोपः स्याद् यिडागमश्च । भूयिष्ठः ॥

विन्मतोर्लुक् ।५।३।६५।

विनो मतुपश्च लुक् स्यादिष्ठेयसोः । अतिशयेन स्रग्वी स्रजिष्ठः । स्रजीयान् । अतिशयेन त्वग्वान् त्वचिष्ठः । त्वचीयान् ॥

ईषदसमाप्तौ कल्पब्देश्यदेशीयरः ।५।३।६७।

ईषदूनो विद्वान् । विद्वत्कल्पः । विद्वद्देश्यः । विद्वद्देशीयः । पचतिकल्पम् ॥

विभाषा सुपो बहुच् पुरस्तात्तु ।५।३।६८।

ईषदसमाप्तिविशिष्टेऽर्थे सुबन्ताद्बहुज्वा स्यात्स च प्रागेव न तु परतः । ईषदूनः पटुर्बहुपटुः । पटुकल्पः । सुपः किम्? जयतिकल्पम् ॥

प्रागिवात्कः ।५।३।७०।

इवे प्रतिकृतावित्यतः प्राक्काधिकारः ॥

अव्ययसर्वनाम्नामकच् प्राक् टेः ।५।३।७१।

कापवादः । तिङ्श्चेत्यनुवर्तते ॥

अज्ञाते ।५।३।७३।

कस्यायमश्वोऽश्वकः । उच्चकैः । नीचकैः । सर्वके । (ओकारसकारभकारादौ सुपि सर्वनाम्नष्टेः प्रागकच्, अन्यत्र सुबन्तस्य) । युष्मकाभिः । युवकयोः । त्वयका ॥

कुत्सिते ।५।३।७४।

कुत्सितोऽश्वोऽश्वकः ॥

किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच् ।५।३।९२।

अनयोः कतरो वैष्णवः । यतरः । ततरः ॥

वा बहूनां जातिपरिप्रश्ने डतमच् ।५।३।९३।

जातिपरिप्रश्न इति प्रत्याख्यातमाकरे । बहूनां मध्ये एकस्य निर्धारणे डतमज्वा स्यात् । कतमो भवतां कठः । यतमः । ततमः । वाग्रहणमकजर्थम् । यकः । सकः ॥

॥ इति प्रागिवीयाः ॥

 

अथ स्वार्थिकाः

इवे प्रतिकृतौ ।५।३।९६।

कन् स्यात् । अश्व इव प्रतिकृतिरश्वकः । (सर्वप्रातिपदिकेभ्यः स्वार्थे कन्) । अश्वकः ॥

तत्प्रकृतवचने मयट् ।५।४।२१।

प्राचुर्येण प्रस्तुतं प्रकृतम्, तस्य वचनं प्रतिपादनम् । भावेऽधिकरणे वा ल्युट् । आद्ये प्रकृतमन्नमन्नमयम् । अपूपमयम् । द्वितीये तु अन्नमयो यज्ञः । अपूपमयं पर्व ॥

प्राज्ञादिभ्यश्च ।५।४।३८।

अण् स्यात् । प्रज्ञ एव प्राज्ञः । प्राज्ञी स्त्री । दैवतः । बान्धवः ॥

बह्वल्पार्थाच्छस्कारकादन्यतरस्याम् ।५।४।४२।

बहूनि ददाति बहुशः । अल्पशः । (आद्यादिभ्यस्तसेरुपसंख्यानम्) । आदौ आदितः । मध्यतः । अन्ततः । पृष्ठतः । पार्श्वतः । आकृतिगणोऽयम् । स्वरेण, स्वरतः । वर्णतः ॥

कृभ्वस्तियोगे संपद्यकर्तरि च्विः ।५।४।५०।

(अभूततद्भाव इति वक्तव्यम्) । विकारात्मतां प्राप्नुवत्यां प्रकृतौ वर्तमानाद्विकारशब्दात् स्वार्थे च्विर्वा स्यात्करोत्यादिभिर्योगे ॥

अस्य च्वौ ।७।४।३२।

अवर्णस्य ईत्स्यात् च्वौ । वेर्लोपे च्व्यन्तत्वादव्ययत्वम् । अकृष्णः कृष्णः संपद्यते तं करोति कृष्णीकरोति । ब्रह्मीभवति । गङ्गीस्यात् । (अव्ययस्य च्वावीत्वं नेति वाच्यम्) । दोषाभूतमहः । दिवाभूता रात्रिः ॥

विभाषा साति कार्त्स्न्ये ।५।४।५२।

च्विविषये सातिर्वा स्यात्साकल्ये ॥

सात्पदाद्योः ।८।३।१११।

सस्य षत्वं न स्यात् । कृत्स्नं शस्त्रमग्निः संपद्यतेऽग्निसाद्भवति । दधि सिञ्चति ॥

च्वौ च ।७।४।२६।

च्वौ परे पूर्वस्य दीर्घः स्यात् । अग्नीभवति ॥

अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् ।५।४।५७।

द्व्यजेवावरं न्यूनं न तु ततो न्यूनमनेकाजिति यावत् । तादृशमर्धं यस्य तस्माड्डाच् स्यात् कृभ्वस्तिभिर्योगे । (डाचि विवक्षिते द्वे बहुलम्) । इति डाचि विवक्षिते द्वित्वम् । (नित्यमाम्रेडिते डाचीति वक्तव्यम्) । डाच्परं यदाम्रेडितं तस्मिन्परे पूर्वपरयोर्वर्णयोः पररूपं स्यात् । इति तकारपकारयोः पकारः । पटपटाकरोति । अव्यक्तानुकरणात्किम्? ईषत्करोति । द्व्यजवरार्धात्किम् ? श्रत्करोति । अवरेति किम् ? खरटखरटाकरोति । अनितौ किम् ? पटिति करोति ॥

॥ इति स्वार्थिकाः ॥

॥ इति तद्धिताः ॥

 

अथ स्त्रीप्रत्ययाः


स्त्रियाम् ।४।१।३।

अधिकारोऽयम् । समर्थानामिति यावत् ॥

अजाद्यतष्टाप् ।४।१।४।

अजादीनामकारान्तस्य च वाच्यं यत् स्त्रीत्वं तत्र द्योत्ये टाप् स्यात् । अजा । एडका । अश्वा । चटका । मूषिका । बाला । वत्सा । होडा । मन्दा । विलाता । इत्यादि । मेधा । गङ्गा । सर्वा ॥

उगितश्च ।४।१।६।

उगिदन्तात्प्रातिपदिकात्स्त्रियां ङीप्स्यात् । भवन्ती । भवन्ती । पचन्ती । दीव्यन्ती ॥

टिड्ढाणञ्द्वयसज्दघ्नज्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः ।४।१।१५।

अनुपसर्जनं यट्टिदादि तदन्तं यददन्तं ततः स्त्रियां ङीप्स्यात् । कुरुचरी । नदट् नदी । देवट् देवी । सौपर्णेयी । ऐन्द्री। औत्सी । ऊरुद्वयसी । उरुदध्नी । उरुमात्री । पञ्चतयी । आक्षिकी । लावणिकी । यादृशी । इत्वरी । (नञ्स्नञीकक्ख्युंस्तरुणतलुनानामुपसंख्यानम्) । स्त्रैणी । पौंस्नी । शाक्तीकी । याष्टीकी । आढ्यङ्करणी । तरुणी । तलुनी ॥

यञश्च ।४।१।१६।

यञन्तात् स्त्रियां ङीप्स्यात् । अकारलोपे कृते –

हलस्तद्धितस्य ।६।४।१५०।

हलः परस्य तद्धितयकारस्योपधाभूतस्य लोप ईति परे । गार्गी ॥

प्राचां ष्फ तद्धितः ।४।१।१७।

यञन्तात् ष्फो वा स्यात्स च तद्धितः ॥

षिद्गौरादिभ्यश्च ।४।१।४१।

षिद्भ्यो गौरादिभ्यश्च स्त्रियां ङीष् स्यात् । गार्ग्यायणी । नर्तकी । गौरी । अनडुही । अनड्वाही । आकृतिगणोऽयम्॥

वयसि प्रथमे ।४।१।२०।

प्रथमवयोवाचिनोऽदन्तात् स्त्रियां ङीप्स्यात् । कुमारी ॥

द्विगोः ।४।१।२१।

अदन्ताद् द्विगोर्ङीप्स्यात् । त्रिलोकी । अजादित्वात्त्रिफला । त्र्यनीका सेना ॥

वर्णादनुदात्तात्तोपधात्तो नः ।४।१।३९।

वर्णवाची योऽनुदात्तान्तस्तोपधस्तदन्तादनुपसर्जनात्प्रातिपदिकाद्वा ङीप् तकारस्य नकारादेशश्च । एनी, एता । रोहिणी, रोहिता ॥

वोतो गुणवचनात् ।४।१।४४।

उदन्ताद् गुणवाचिनो वा ङीष् स्यात् । मृद्वी, मृदुः ॥

बह्वादिभ्यश्च ।४।१।४५।

एभ्यो वा ङीष् स्यात् । बह्वी, बहुः । (कृदिकारादक्तिनः) । रात्री, रात्रिः । (सर्वतोऽक्तिन्नर्थादित्येके) । शकटी । शकटिः ॥

पुंयोगादाख्यायाम् ।४।१।४८।

या पुमाख्या पुंयोगात् स्त्रियां वर्तते ततो ङीष् । गोपस्य स्त्री गोपी । (पालकान्तान्न) –

प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः ।७।३।४४।

प्रत्ययस्थात्कात्पूर्वस्याकारस्येकारः स्यादापि स आप्सुपः परो न चेत् । गोपालिका । अश्वपालिका । सर्विका । कारिका । अतः किम् ? नौका । प्रत्ययस्थात्किम् ? शक्नोतीति शका । असुपः किम् ? बहुपरिव्राजका नगरी । (सूर्याद्देवतायां चाब्वाच्यः) । सूर्यस्य स्त्री देवता सूर्या । देवतायां किम् ? (सूर्यागस्त्ययोश्छे च ङ्यां च) । यलोपः । सूरी – कुन्ती, मानुषीयम् ॥

इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक् ।४।१।४९।

एषामानुगागमः स्यात् ङीष् च । इन्द्रस्य स्त्री – इन्द्राणी । वरुणानी । भवानी । शर्वाणी । रुद्राणी । मृडानी । (हिमारण्ययोर्महत्त्वे) । महद्धिमं हिमानी । महदरण्यमरण्यानी । (यवाद्दोषे) । दुष्टो यवो यवानी । (यवन्नाल्लिप्याम्) । यवनानां लिपिर्यवनानी । (मातुलोपाध्याययोरानुग्वा) । मातुलानी, मातुली । उपाध्यायानी,

उपाध्यायी । (आचार्यादणत्वं च) । आचार्यस्य स्त्री आचार्यानी । (अर्यक्षत्रियाभ्यां वा स्वार्थे), अर्याणी, अर्या । क्षत्रियाणी, क्षत्रिया ॥

क्रीतात्करणपूर्वात् ।४।१।५०।

क्रीतान्ताददन्तात् करणादेः स्त्रियां ङीष् स्यात् । वस्त्रक्रीती । क्वचिन्न । धनक्रीता ॥

स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ।४।१।५४।

असंयोगोपधमुपसर्जनं यत् स्वाङ्गं तदन्ताददन्तान् ङीष् वा स्यात् । केशानतिक्रान्ता – अतिकेशी, अतिकेशा । चन्द्रमुखी । चन्द्रमुखा । असंयोगोपधात्किम् ? सुगुल्फा । उपसर्जनात्किम् ? शिखा ॥

न क्रोडादिबह्वचः ।४।१।५६।

क्रोडादेर्बह्वचश्च स्वाङ्गान्न ङीष् । कल्याणक्रोडा । आकृतिगणोऽयम् । सुजघना ॥

नखमुखात्संज्ञायाम् ।४।१।५८।

न ङीष् ॥

पूर्वपदात्संज्ञायामगः ।८।४।३।

पूर्वपदस्थान्निमित्तात्परस्य नस्य णः स्यात् संज्ञायां न तु गकारव्यवधाने । शूर्पणखा । गौरमुखा । संज्ञायां किम् ? ताम्रमुखी कन्या ॥

जातेरस्त्रीविषयादयोपधात् ।४।१।६३।

जातिवाचि यन्न च स्त्रियां नियतमयोपधं ततः स्त्रियां ङीष् स्यात् । तटी । वृषली । कठी । बह्वृची । जातेः किम् ? मुण्डा । अस्त्रीविषयात्किम् ? बलाका । अयोपधात्किम् ? क्षत्रिया । (योपधप्रतिषेधे हयगवयमुकयमनुष्यमत्स्यानामप्रतिषेधः) । हयी । गवयी । मुकयी । हलस्तद्धितस्येति यलोपः । मनुषी । (मत्स्यस्य ङ्यां) । यलोपः । मत्सी ॥

इतो मनुष्यजातेः ।४।१।६५।

ङीष् । दाक्षी ॥

ऊङुतः ।४।१।६६।

उदन्तादयोपधान्मनुष्यजातिवाचिनः स्त्रियामूङ् स्यात् । कुरूः । अयोपधात्किम् ? अध्वर्युर्ब्राह्मणी ॥

पङ्गोश्च ।४।१।६८।

पङ्गूः । (श्वशुरस्योकाराकारलोपश्च) । श्वश्रूः ॥

ऊरूत्तरपदादौपम्ये ।४।१।६९।

उपमानवाचि पूर्वपदमूरूत्तरपदं यत्प्रातिपदिकं तस्मादूङ् स्यात् । करभोरूः ॥

संहितशफलक्षणवामादेश्च ।४।१।७०।

अनौपम्यार्थं सूत्रम् । संहितोरूः । शफोरूः । लक्षणोरूः । वामोरूः ॥

शार्ङ्गरवाद्यञो ङीन् ।४।१।७३।

शार्ङ्गरवादेरञो योऽकारस्तदन्ताच्च जातिवाचिनो ङीन् स्यात् । शार्ङ्गरवी । वैदी । ब्राह्मणी । (नृनरयोर्वृद्धिश्च) । नारी ॥

यूनस्तिः ।४।१।७७।

युवञ्छब्दात् स्त्रियां तिः प्रत्ययः स्यात् । युवतिः ॥

॥ इति स्त्रीप्रत्ययाः ॥

     शास्त्रान्तरे प्रविष्टानां बालानां चोपकारिका ।
      कृता वरदराजेन लघुसिद्धान्तकौमुदी ॥॥

 इति श्रीवरदराजकृता लघुसिद्धान्तकौमुदी समाप्ता ॥

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top