सरस्वतीस्तुतिः
रविरुद्रपितामहविष्णुनुतं, हरिचन्दनकुंकुमपंकयुतम् ।
मुनिवृन्दगणेन्द्रसमानयुतं, तव नौमि सरस्वति! पादयुगम्॥ १ ॥
शशिशुद्धसुधाहिमधामयुतं, शरदम्बरबिम्बसमानकरम्।
बहुरत्नमनोहरकान्तियुतं, तव नौमि सरस्वति! पादयुगम्॥ २ ॥
कनकाब्जविभूषितभूतिपवं, भवभावविभावितभिन्नपदम्।
प्रभुचित्तसमाहितसाधुपदं, तव नौमि सरस्वति! पादयुगम्॥ ३ ॥
भवसागरमज्जनभीतिनुतं, प्रतिपादितसन्ततिकारमिदम्।
विमलादिकशुद्धविशुद्धपदं, तव नौमि सरस्वति! पादयुगम्॥ ४ ॥
मतिहीनजनाश्रयपारमिदं, सकलागमभाषितभिन्नपदम्।
परिपूरितविश्वमनेकभवं, तव नौमि सरस्वति! पादयुगम्॥ ५ ॥
परिपूर्णमनोरथधामनिधिं, परमार्थविचारविवेकविधिम्।
सुरयोषितसेवितपादतलं, तव नौमि सरस्वति! पादयुगम्॥ ६ ॥
सुरमौलिमणिद्युतिशुभ्रकरं, विषयादिमहाभयवर्णहरम्।
निजकान्तिविलोमितचन्द्रशिवं, तव नौमि सरस्वति! पादयुगम्॥ ७ ॥
गुणनैककुलस्थितिभीतिपदं, गुणगौरवगर्वितसत्यपदम्।
कमलोदरकोमलपादतलं,तव नौमि सरस्वति! पादयुगम्॥ ८ ॥
सरस्वती स्तुति समाप्तम्