अथ षड्लिङ्गेषु अजन्तपुँलिङ्गाः
अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ।१।२।४५।
धातुं प्रत्ययं प्रत्ययान्तं च वर्जयित्वा अर्थवच्छब्दस्वरूपं प्रातिपदिकसंज्ञं स्यात् ॥
कृत्तद्धितसमासाश्च ।१।२।४६।
कृत्तद्धितान्तौ समासश्च तथा स्युः ॥
स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् ।४।१।२।
सु औ जस् इति प्रथमा । अम् औट् शस् इति द्वितीया । टा भ्याम् भिस् इति तृतीया । ङे भ्याम् भ्यस् इति चतुर्थी । ङसि भ्याम् भ्यस् इति पञ्चमी । ङस् ओस् आम् इति षष्ठी । ङि ओस् सुप् इति सप्तमी ॥
ङ्याप्प्रातिपदिकात् ।४।१।१।
प्रत्ययः ।३।१।१।
परश्च ।३।१।२।
इत्यधिकृत्य । ङ्यन्तादाबन्तात् प्रातिपदिकाच्च परे स्वादयः प्रत्ययाः स्युः ॥
सुपः ।१।४।१०३।
सुपस्त्रीणि त्रीणि वचनान्येकश एकवचनद्विवचनबहुवचनसंज्ञानि स्युः ॥
द्वयेकयोर्द्विवचनैकवचने ।१।४।२२।
द्वित्वैकत्वयोरेते स्तः ॥
विरामोऽवसानम् ।१।४।११०।
वर्णानामभावोऽवसानसंज्ञः स्यात् । रुत्वविसर्गौ । रामः ॥
सरूपाणामेकशेष एकविभक्तौ ।१।२।६४।
एकविभक्तौ यानि सरूपाण्येव दृष्टानि तेषामेक एव शिष्यते ॥
प्रथमयोः पूर्वसवर्णः ।६।१।१०२।
अकः प्रथमाद्वितीययोरचि पूर्वसवर्णदीर्घ एकादेशः स्यात् । इति प्राप्ते ॥
नादिचि ।६।१।१०४।
आदिचि न पूर्वसवर्णदीर्घः । वृद्धिरेचि । रामौ ॥
बहुषु बहुवचनम् ।१।४।२१।
बहुत्वविवक्षायां बहुवचनं स्यात् ॥
चुटू ।१।३।७।
प्रत्ययाद्यौ चुटू इतौ स्तः ॥
विभक्तिश्च ।१।४।१०४।
सुप्तिङौ विभक्तिसंज्ञौ स्तः ॥
न विभक्तौ तुस्माः ।१।३।४।
विभक्तिस्थास्तवर्गसमा नेतः । इति सस्य नेत्त्वम् । रामाः ॥
एकवचनं सम्बुद्धिः ।२।३।४९।
संबोधने प्रथमाया एकवचनं सम्बुद्धिसंज्ञं स्यात् ॥
यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् ।१।४।१३।
यः प्रत्ययो यस्मात् क्रियते तदादिशब्दस्वरूपं तस्मिन्नङ्गं स्यात् ॥
एङ्ह्रस्वात्सम्बुद्धेः ।६।१।६९।
एङन्ताद्ध्रस्वान्ताच्चाङ्गाद्धल्लुप्यते सम्बुद्धेश्चेत् । हे राम । हे रामौ । हे रामाः ॥
अमि पूर्वः ।६।१।१०७।
अकोऽम्यचि पूर्वरूपमेकादेशः । रामम् । रामौ ॥
लशक्वतद्धिते ।१।३।८।
तद्धितवर्जप्रत्ययाद्या लशकवर्गा इतः स्युः ॥
तस्माच्छसो नः पुंसि ।६।१।१०३।
पूर्वसवर्णदीर्घात्परो यः शसः सस्तस्य नः स्यात्पुंसि ॥
अट्कुप्वाङ्नुम्व्यवायेऽपि ।८।४।२।
अट् कवर्गः पवर्ग आङ् नुम् एतैर्व्यस्तैर्यथासंभवं मिलितैश्च व्यवधानेऽपि रषाभ्यां परस्य नस्य णः समानपदे । इति प्राप्ते ॥
पदान्तस्य ।८।४।३७।
नस्य णो न । रामान् ॥
टाङसिङसामिनात्स्याः ।७।१।१२।
अदन्ताट्टादीनामिनादयः स्युः । णत्वम्। रामेण ॥
सुपि च ।७।३।१०२।
यञादौ सुपि अतोऽङ्गस्य दीर्घः । रामाभ्याम् ॥
अतो भिस ऐस् ।७।१।९।
अनेकाल् शित् सर्वस्य । रामैः ॥
ङेर्यः ।७।१।१३।
अतोऽङ्गात् परस्य ङेर्यादेशः ॥
स्थानिवदादेशोऽनल्विधौ ।१।१।५६।
आदेशः स्थानिवत् स्यान्न तु स्थान्यलाश्रयविधौ । इति स्थानिवत्त्वात् सुपि चेति दीर्घः । रामाय । रामाभ्याम् ॥
बहुवचने झल्येत् ।७।३।१०३।
झलादौ बहुवचने सुप्यतोऽङ्गस्यैकारः । रामेभ्यः । सुपि किम् ? पचध्वम् ॥
वाऽवसाने ।८।४।५६।
अवसाने झलां चरो वा । रामात्, रामाद् । रामाभ्याम् । रामेभ्यः । रामस्य ॥
ओसि च ।७।३।१०४।
अतोऽङ्गस्यैकारः । रामयोः ॥
ह्रस्वनद्यापो नुट् ।७।१।५४।
ह्रस्वान्तान्नद्यन्तादाबन्ताच्चाङ्गात् परस्यामो नुडागमः ॥
नामि ।६।४।३।
अजन्ताङ्गस्य दीर्घः । रामाणाम् । रामे । रामयोः । सुपि - एत्त्वे कृते ॥
आदेशप्रत्यययोः ।८।३।५९।
इण्कुभ्यां परस्यापदान्तस्यादेशस्य प्रत्ययावयवश्च यः सस्तस्य मूर्धन्यादेशः । ईषद्विवृतस्य सस्य तादृश एव षः । रामेषु । एवं कृष्णादयोऽप्यदन्ताः ॥
सर्वादीनि सर्वनामानि ।१।१।२७।
सर्व विश्व उभ उभय डतर डतम अन्य अन्यतर इतर त्वत् त्व नेम सम सिम । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् । स्वमज्ञातिधनाख्यायाम् । अन्तरं बहिर्योगोपसंव्यानयोः । त्यद् तद् यद् एतद् इदम् अदस् एक द्वि युष्मद् अस्मद् भवतु किम् ॥
जसः शी ।७।१।१७।
अदन्तात् सर्वनाम्नो जसः शी स्यात् । अनेकाल्त्वात् सर्वादेशः । सर्वे ॥
सर्वनाम्नः स्मै ।७।१।१४।
अतः सर्वनाम्नो ङेः स्मै । सर्वस्मै ॥
ङसिङयोः स्मात्स्मिनौ ।७।१।१५।
अतः सर्वनाम्न एतयोरेतौ स्तः । सर्वस्मात् ॥
आमि सर्वनाम्नः सुट् ।७।१।५२।
अवर्णान्तात् परस्य सर्वनाम्नो विहितस्यामः सुडागमः । एत्वषत्वे । सर्वेषाम् । सर्वस्मिन् । शेषं रामवत् । एवं विश्वादयोऽप्यदन्ताः । उभशब्दो नित्यं द्विवचनान्तः । उभौ २ । उभाभ्याम् ३ । उभयोः २ । तस्येह पाठोऽकजर्थः। उभयशब्दस्य द्विवचनं नास्ति । उभयः । उभये । उभयम् । उभयान् । उभयेन । उभयैः । उभयस्मै । उभयेभ्यः । उभयस्मात् । उभयेभ्यः । उभयस्य । उभयेषाम् । उभयस्मिन् । उभयेषु । डतरडतमौ प्रत्ययौ, प्रत्ययग्रहणे तदन्तग्रहणमिति तदन्ता ग्राह्याः । नेम इत्यर्धे । समः सर्वपर्यायस्तुल्यपर्यास्तु न, यथासंख्यमनुदेशः समानामिति ज्ञापकात्॥
पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् ।१।१।३४।
एतेषां व्यवस्थायामसंज्ञायां सर्वनामसंज्ञा गणसूत्रात् सर्वत्र या प्राप्ता सा जसि वा स्यात् । पूर्वे, पूर्वाः । असंज्ञायां किम् ? उतराः कुरवः । स्वाभिधेयापेक्षावधिनियमो व्यवस्था । व्यवस्थायां किम् ? दक्षिणा गाथकाः, कुशला इत्यर्थः ॥
स्वमज्ञातिधनाख्यायाम् ।१।१।३५।
ज्ञातिधनान्यवाचिनः स्वशब्दस्य प्राप्ता संज्ञा जसि वा । स्वे, स्वाः, आत्मीयाः, आत्मान इति वा । ज्ञातिधनवाचिनस्तु, स्वाः, ज्ञातयोऽर्था वा ॥
अन्तरं बहिर्योगोपसंव्यानयोः ।१।१।३६।
बाह्ये परिधानीये चार्थेऽन्तरशब्दस्य प्राप्ता संज्ञा जसि वा । अन्तरे, अन्तरा वा गृहाः, बाह्या इत्यर्थः । अन्तरे, अन्तरा वा शाटकाः, परिधानीया इत्यर्थः ॥
पूर्वादिभ्यो नवभ्यो वा ।७।१।१६।
एभ्यो ङसिङ्यो स्मात्स्मिनौ वा स्तः । पूर्वस्मात्, पूर्वात् । पूर्वस्मिन्, पूर्वे । एवं परादीनाम् । शेषं सर्ववत् ॥
प्रथमचरमतयाल्पार्द्धकतिपयनेमाश्च ।१।१।३३।
एते जसि उक्तसंज्ञा वा स्युः । प्रथमे, प्रथमाः । तयः प्रत्ययः । द्वितये, द्वितयाः । शेषं रामवत् । नेमे, नेमाः । शेषं सर्ववत् । (तीयस्य ङित्सु वा) । द्वितीयस्मै, द्वितीयायेत्यादि । एवं तृतीयः । निर्जरः ॥
जराया जरसन्यतरस्याम् ।७।२।१०१।
अजादौ विभक्तौ । (प.) पदाङ्गाधिकारे तस्य च तदन्तस्य च । (प.) निर्दिश्यमानस्यादेशा भवन्ति । (प.) एकदेशविकृतमनन्यवदिति जरशब्दस्यजरस् । निर्जरसौ । निर्जरस इत्यादि । पक्षे हलादौ च रामवत् । विश्वपाः ॥
दीर्घाज्जसि च ।६।१।१०५।
दीर्घाज्जसि इचि च परे पूर्वसवर्णदीर्घो न स्यात् । विश्वपौ । विश्वपाः । हे विश्वपाः । विश्वपाम् । विश्वपौ ॥
सुडनपुंसकस्य ।१।१।४३।
स्वादिपञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य ॥
स्वादिष्वसर्वनामस्थाने ।१।४।१७।
कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं पदं स्यात् ॥
यचि भम् ।१।४।१८।
यादिष्वजादिषु च कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं भसंज्ञं स्यात् ॥
आकडारादेका संज्ञा ।१।४।१।
इत ऊर्ध्वं कडाराः कर्मधारय इत्यतः प्रागेकस्यैकैव संज्ञा ज्ञेया । या पराऽनवकाशा च ॥
आतो धातोः ।६।४।१४०।
आकारान्तो यो धातुस्तदन्तस्य भस्याङ्गस्य लोपः । अलोऽन्त्यस्य । विश्वपः । विश्वपा । विश्वपाभ्यामित्यादि । एवं शङ्खध्मादयः । धातोः किम् ? हाहान् । हरिः । हरी ॥
जसि च ।७।३।१०९।
ह्रस्वान्तस्याङ्गस्य गुणः । हरयः ॥
ह्रस्वस्य गुणः ।७।३।१०८।
सम्बुद्धौ । हे हरे । हरिम् । हरी । हरीन् ॥
शेषो घ्यसखि ।१।४।७।
शेष इति स्पष्टार्थम् । ह्रस्वौ याविदुतौ तदन्तं सखिवर्जं घिसंज्ञम् ॥
आङो नास्त्रियाम् ।७।३।१२०।
घेः परस्याङो ना स्यादस्त्रियाम् । आङिति टासंज्ञा । हरिणा । हरिभ्याम् । हरिभिः ॥
घेर्ङिति ।७।३।१११।
घिसंज्ञस्य ङिति सुपि गुणः । हरये । हरिभ्याम् । हरिभ्यः ॥
ङसिङसोश्च ।६।१।११०।
एङो ङसिङसोरति पूर्वरूपमेकादेशः । हरेः २ । हर्योः २ । हरीणाम् ॥
अच्च घेः ।७।३।११९।
इदुद्भ्यामुत्तरस्य ङेरौत्, घेरच्च । हरौ । हरिषु । एवं कव्यादयः ॥
अनङ् सौ ।७।१।९३।
सख्युरङ्गस्यानङादेशौऽसम्बुद्धौ सौ ॥
अलोऽन्त्यात्पूर्व उपधा ।१।१।६५।
अन्त्यादलः पूर्वो यो वर्ण उपधासंज्ञः स्यात् ॥
सर्वनामस्थाने चासम्बुद्धौ ।६।४।८।
नान्तस्योपधाया दीर्घोऽसम्बुद्धौ सर्वनामस्थाने ॥
अपृक्त एकाल् प्रत्ययः ।१।२।४१।
एकाल् प्रत्ययो यः सोऽपृक्तसंज्ञः स्यात् ॥
हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् ।६।१।६८।
हलन्तात् परं दीर्घौ यौ ङ्यापौ तदन्ताच्च परं सुतिसीत्येतदपृक्तं हल्लुप्यते ॥
नलोपः प्रातिपदिकान्तस्य ।८।२।७।
प्रातिपदिकसंज्ञकं यत् पदं तदन्तस्य नस्य लोपः । सखा ॥
सख्युरसम्बुद्धौ ।७।१।९२।
सख्युरङ्गात् परं सम्बुद्धिवर्जं सर्वनामस्थानं णिद्वत् स्यात् ॥
अचो ञ्णिति ।७।२।११५।
अजन्ताङ्गस्य वृद्धिर्ञिति णिति च परे । सखायौ । सखायः । हे सखे । सखायम् । सखायौ । सखीन् । सख्या । सख्ये ॥
ख्यत्यात्परस्य ।६।१।११२।
खितिशब्दाभ्यां खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य ङसिङसोरत उः । सख्युः ॥
औत् ।७।३।११८।
इतः परस्य ङेरौत् । सख्यौ । शेषं हरिवत् ॥
पतिः समास एव ।१।४।८।
घिसंज्ञः । पत्युः २ । पत्यौ । शेषं हरिवत् । समासे तु भूपतये । कतिशब्दो नित्यं बहुवचनान्तः ॥
बहुगणवतुडति संख्या ।१।१।२३।
डति च ।१।१।२५।
डत्यन्ता संख्या षट्संज्ञा स्यात् ॥
षड्भ्यो लुक् ।७।१।२२।
जश्शसोः ॥
प्रत्ययस्य लुक्श्लुलुपः ।१।१।६१।
लुक्श्लुलुप्शब्दैः कृतं प्रत्ययादर्शनं क्रमात् तत्तत्संज्ञं स्यात् ॥
प्रत्ययलोपे प्रत्ययलक्षणम् ।१।१।६२।
प्रत्यये लुप्ते तदाश्रितं कार्यं स्यात् । इति जसि चेति गुणे प्राप्ते ॥
न लुमताङ्गस्य ।१।१।६३।
लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात् । कति २ । कतिभिः । कतिभ्यः २ । कतीनाम् । कतिषु । युष्मदस्मद्षट्संज्ञकास्त्रिषु सरूपाः । त्रिशब्दो नित्यं बहुवचनान्तः । त्रयः । त्रीन् । त्रिभिः । त्रिभ्यः २ ॥
त्रेस्त्रयः ।७।१।५३।
त्रिशब्दस्य त्रयादेशः स्यादामि । त्रयाणाम् । त्रिषु । गौणत्वेऽपि । प्रियत्रयाणाम् ॥
त्यदादीनामः ।७।२।१०२।
एषामकारो विभक्तौ । (द्विपर्य्यन्तानामेवेष्टिः) । द्वौ २ । द्वाभ्याम् ३ । द्वयोः २ । पाति लोकमिति पपीः सूर्यः ॥
दीर्घाज्जसि च ।६।१।१०५।
पप्यौ २ । पप्यः । हे पपीः । पपीम् । पपीन् । पप्या । पपीभ्याम् ३ । पपीभिः । पप्ये । पपीभ्यः २ । पप्यः २ । पप्योः । दीर्घत्वान्न नुट् । पप्याम् । ङौ तु सवर्णदीर्घः । पपी। पप्योः । पपीषु । एवं वातप्रम्यादयः । बह्व्यः श्रेयस्यो यस्य स बहुश्रेयसी ॥
यू स्त्र्याख्यौ नदी ।१।४।३।
ईदूदन्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्तः । (प्रथमलिङ्गग्रहणं च) । पूर्वं स्त्र्याख्यस्योपसर्जनत्वेऽपि नदीत्वं वक्तव्यमित्यर्थः ॥
अम्बार्थनद्योर्ह्रस्वः ।७।३।१०७।
सम्बुद्धौ । हे बहुश्रेयसि ॥
आण्नद्याः ।७।३।११२।
नद्यन्तात्परेषां ङितामाडागमः ॥
आटश्च ।६।१।९०।
आटोऽचि परे वृद्धिरेकादेशः । बहुश्रेयस्यै । बहुश्रेयस्याः । बहुश्रेयसीनाम् ॥
ङेराम्नद्याम्नीभ्यः ।७।३।११६।
नद्यन्तादाबन्तान्नीशब्दाच्च परस्य ङेराम् । बहुश्रेयस्याम् । शेषं पपीवत् । अङ्यन्तत्वान्न सुलोपः । अतिलक्ष्मीः । शेषं बहुश्रेयसीवत् । प्रधीः ॥
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ ।६।४।७७।
श्नुप्रत्ययान्तस्येवर्णोवर्णान्तस्य धातोर्भ्रू इत्यस्य चाङ्गस्येयङुवङौ स्तोऽजादौ प्रत्यये परे । इति प्राप्ते ॥
एरनेकाचोऽसंयोगपूर्वस्य ।६।४।८२।
धात्ववयवसंयोगपूर्वो न भवति य इवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकोचोऽङ्गस्य यणजादौ प्रत्यये । प्रध्यौ । प्रध्यः । प्रध्यम् । प्रध्यौ । प्रध्यः । प्रध्यि । शेषं पपीवत् । एवं ग्रामणीः । ङौ तु ग्रामण्याम् । अनेकाचः किम् ? नीः । नियौ । नियः । अमि शसि च परत्वादियङ् । नियम् । ङेराम् । नियाम् । असंयोगपूर्वस्य किम् ? सुश्रियौ । यवक्रियौ ॥
गतिश्च। १।४।६०।
प्रादयः क्रियायोगे गतिसंज्ञाः स्युः । (गतिकारकेतरपूर्वपदस्य यण् नेष्यते) । शुद्धधियौ ॥
न भूसुधियोः ।६।४।८५।
एतयोरचि सुपि यण् न । सुधियौ । सुधिय इत्यादि । सुखमिच्छतीति सुखीः । सुतीः । सुख्यौ । सुत्यौ । सुख्युः । सुत्युः । शेषं प्रधीवत् । शम्भुर्हरिवत् । एवं भान्वादयः ॥
तृज्वत्क्रोष्टुः ।७।१।९५।
असम्बुद्धौ सर्वनामस्थाने परे । क्रोष्टुशब्दस्य स्थाने क्रोष्टृशब्दः प्रयोक्तव्य इत्यर्थः ॥
ऋतो ङिसर्वनामस्थानयोः ।७।३।११०।
ऋतोऽङ्गस्य गुणो ङौ सर्वनामस्थाने च । इति प्राप्ते –
ऋदुशनस्पुरुदंशोऽनेहसां च ।७।१।९४।
ऋदन्तानामुशनसादीनां चानङ् स्यादसम्बुद्धौ सौ ॥
अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् ।६।४।११।
अबादीनामुपधाया दीर्घोऽसम्बुद्धौ सर्वनामस्थाने । क्रोष्टा । क्रोष्टारौ । क्रोष्टारः । क्रोष्टून् ॥
विभाषा तृतीयादिष्वचि ।७।१।९७।
अजादिषु तृतीयादिषु क्रोष्टुर्वा तृज्वत् । क्रोष्ट्रा । क्रोष्ट्रे ॥
ऋत उत् ।६।१।१११।
ऋतो ङसिङसोरति उदेकादेशः । रपरः ॥
रात्सस्य ।८।२।२४।
रेफात् संयोगान्तस्य सस्यैव लोपो नान्यस्य । रस्य विसर्गः । क्रोष्टुः २ । क्रोष्ट्रोः २ । (नुमचिरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन) । क्रोष्टूनाम् । क्रोष्टरि । पक्षे हलादौ च शम्भुवत् । हूहूः । हूह्वौ । हूहूः । हूहूम् इत्यादि । अतिचमूशब्दे तु नदीकार्य्यं विशेषः । हे अतिचमु । अतिचम्वै । अतिचम्वाः । अतिचमूनाम् । खलपूः ॥
ओः सुपि ।६।४।८३।
धात्ववयवसंयोगपूर्वो न भवति य उवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचोऽङ्गस्य यण् स्यादचि सुपि । खलप्वौ। खलप्वः । एवं सुल्वादयः । स्वभूः । स्वभुवौ । स्वभुवः । वर्षाभूः ॥
वर्षाभ्वश्च ।६।४।८४।
अस्य यण् स्यादचि सुपि । वर्षाभ्वावित्यादि । दृन्भूः । (दृन्करपुनः पूर्वस्य भूवो यण् वक्तव्यः) । दृन्भ्वौ । एवं करभूः। धाता । हे धातः । धातारौ । धातारः । (ऋवर्णान्नस्य णत्वं वाच्यम्) । धातॄणाम् । एवं नप्त्रादयः । नप्त्रादिग्रहणं व्युत्पत्तिपक्षे नियमार्थम् । तेनेह न । पिता । पितरौ । पितरः। पितरम् । शेषं धातृवत् । एवं जामात्रादयः । ना । नरौ ॥
नृ च ।६।४।६।
अस्य नामि वा दीर्घः । नृणाम्। नॄणाम् ॥
गोतो णित् ।७।१।९०।
ओकारान्ताद्विहितं सर्वनामस्थानं णिद्वत् । गौः । गावौ । गावः ॥
औतोऽम्शसोः ।६।१।९३।
ओतोऽम्शसोरचि आकार एकादेशः । गाम् । गावौ । गाः । गवा । गवे । गोः । इत्यादि ॥
रायो हलि ।७।२।८५।
अस्याकारादेशो हलि विभक्तौ । राः । रायौ । रायः । राभ्यामित्यादि । ग्लौः । ग्लावौ । ग्लावः । ग्लौभ्यामित्यादि॥
॥ इत्यजन्तपुंलिङ्गाः ॥
अथाजन्तस्त्रीलिङ्गाः
रमा ।
औङ आपः ।७।१।१८।
आबन्तादङ्गात् परस्यौङः शी स्यात् । औङित्यौकारविभक्तेः संज्ञा । रमे । रमाः ॥
सम्बुद्धौ च ।७।३।१०६।
आप एकारः स्यात् सम्बुद्धौ । एङ्ह्रस्वादिति सम्बुद्धिलोपः । हे रमे । हे रमे । हे रमाः । रमाम् । रमे । रमाः ।
आङि चापः ।७।३।१०५।
आङि ओसि चाप एकारः । रमया । रमाभ्याम् । रमाभिः ।
याडापः ।७।३।११३।
आपो ङितो याट् । वृद्धिः । रमायै । रमाभ्याम् । रमाभ्यः । रमायाः । रमयोः । रमाणाम् । रमायाम् । रमासु । एवं दुर्गाम्बिकादयः ॥
सर्वनाम्नः स्याड्ढ्रस्वश्च ।७।३।११४।
आबन्तात् सर्वनाम्नो ङितः स्याट् स्यादापश्च ह्रस्वः । सर्वस्यै । सर्वस्याः । सर्वासाम् । सर्वस्याम् । शेषं रमावत् । एवं विश्वादय आबन्ताः ॥
विभाषा दिक्समासे बहुव्रीहौ ।१।१।२८।
सर्वनामता वा । उत्तरपूर्वस्यै, उत्तरपूर्वायै । तीयस्येति वा सर्वनामसंज्ञा । द्वितीयस्यै, द्वितीयायै । एवं तृतीया । अम्बार्थेति ह्रस्वः । हे अम्ब । हे अक्क । हे अल्ल । जरा । जरसौ इत्यादि । पक्षे रमावत् । गोपाः, विश्वपावत् । मतीः । मत्या ॥
ङिति ह्रस्वश्च ।१।४।६।
इयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ, ह्रस्वौ चेवर्णोवर्णौ, स्त्रियां वा नदीसंज्ञौ स्तो ङिति । मत्यै, मतये । मत्याः २ । मतेः २ ॥
इदुद्भ्याम् ।७।३।११७।
इदुद्भ्यां नदीसंज्ञकाभ्यां परस्य ङेराम् । मत्याम्, मतौ । शेषं हरिवत् । एवं बुद्ध्यादयः ॥
त्रिचतुरोः स्त्रियां तिसृचतसृ ।७।२।९९।
स्त्रिलिङ्गयोरेतौ स्तो विभक्तौ ॥
अचि र ऋतः ।७।२।१००।
तिसृ चतसृ एतयोर्ऋकारस्य रेफादेशः स्यादचि । गुणदीर्घोत्वानामपवादः । तिस्रः । तिस्रः । तिसृभिः । तिसृभ्यः । तिसृभ्यः । आमि नुट् ॥
न तिसृचतसृ ।६।४।४।
एतयोर्नामि दीर्घो न । तिसृणाम् । तिसृषु । द्वे । द्वे । द्वाभ्याम् । द्वाभ्याम् । द्वयोः । द्वयोः । गौरी । गौर्य्यौ । गौर्य्यः। हे गौरि । गौर्य्यै इत्यादि । एवं नद्यादयः । लक्ष्मीः । शेषं गौरीवत् । एवं तरीतन्त्र्यादयः । स्त्री । हे स्त्रि ॥
स्त्रियाः ।६।४।७९।
अस्येयङ् स्यादजादौ प्रत्यये परे। स्त्रियौ। स्त्रियः।
वाम्शसोः ।६।४।८०।
अमि शसि च स्त्रिया इयङ् वा स्यात् । स्त्रियम्, स्त्रीम् । स्त्रियः, स्त्रीः । स्त्रिया । स्त्रियै । स्त्रियाः । परत्वान्नुट् । स्त्रीणाम् । स्त्रीषु । श्रीः । श्रियौ । श्रियः ॥
नेयङुवङ्स्थानावस्त्री ।१।४।४।
इयङुवङोः स्थितिर्ययोस्तावीदूतौ नदीसंज्ञौ न स्तो न तु स्त्री । हे श्रीः । श्रियै, श्रिये । श्रियाः, श्रियः ॥
वामि ।१।४।५।
इयङुवङ्स्थानौ स्त्र्याख्यौ यू आमि वा नदीसंज्ञौ स्तो न तु स्त्री । श्रीणाम्, श्रियाम् । श्रियि, श्रियाम् । धेनुर्मतिवत्।
स्त्रियां च ।७।१।९६।
स्त्रीवाची क्रोष्टुशब्दस्तृजन्तवट्रूपं लभते ॥
ऋन्नेभ्यो ङीप् ।४।१।५।
ऋदन्तेभ्यो नान्तेभ्यश्च स्त्रियां ङीप् । क्रोष्ट्री गौरीवत् । भ्रूः श्रीवत् । स्वयम्भूः पुंवत् ॥
न षट्स्वस्रादिभ्यः ।४।१।१०।
ङीप्टापौ न स्तः ॥
स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा ।
याता मातेति सप्तैते स्वस्रादय उदाहृताः ॥
स्वसा । स्वसारौ । माता पितृवत् । शसि मातॄः । द्यौर्गोवत् । राः पुंवत् । नौर्ग्लौवत् ।
॥ इत्यजन्तस्त्रीलिङ्गाः ॥
अजन्तनपुंसकलिङ्गाः
अतोऽम् ।७।१।२४।
अतोऽङ्गात् क्लीबात् स्वमोरम् । अमि पूर्वः । ज्ञानम् । एङ्ह्रस्वादिति हल्लोपः । हे ज्ञान ॥
नपुंसकाच्च ।७।१।१९।
क्लीबादौङः शी स्यात् । भसंज्ञायाम् ॥
यस्येति च ।६।४।१४८।
ईकारे तद्धिते च भस्येवर्णावर्णयोर्लोपः । इत्यल्लोपे प्राप्ते । (औङः श्यां प्रतिषेधो वाच्यः) । ज्ञाने ॥
जश्शसोः शिः ।७।१।२०।
क्लीबादनयोः शिः स्यात् ।
शि सर्वनामस्थानम् ।१।१।४२।
शि इत्येतदुक्तसंज्ञं स्यात् ॥
नपुंसकस्य झलचः ।७।१।७२।
झलन्तस्याजन्तस्य च क्लीबस्य नुम् स्यात् सर्वनामस्थाने ॥
मिदचोऽन्त्यात्परः ।१।१।४७।
अचां मध्ये योऽन्त्यस्तस्मात्परस्तस्यैवान्तावयवो मित् स्यात् । उपधादीर्घः । ज्ञानानि । पुनस्तद्वत् । शेषं पुंवत् । एवं धनवनफलादयः ॥
अद्ड्डतरादिभ्यः पञ्चभ्यः । ७।१।२५।
एभ्यः क्लीबेभ्यः स्वमोरद्डादेशः स्यात् ॥
टेः ।६।४।१४३।
डिति भस्य टेर्लोपः । कतरत्, कतरद् । कतरे । कतराणि । हे कतरत् । शेषं पुंवत् । एवं कतमत् । इतरत् । अन्यत् । अन्यतरत् । अन्यतमस्य त्वन्यतममित्येव । (एकतरात्प्रतिषेधोः वक्तव्यः) । एकतरम् ॥
ह्रस्वो नपुंसके प्रातिपदिकस्य ।१।२।४७।
अजन्तस्येत्येव । श्रीपं ज्ञानवत् ॥
स्वमोर्नपुंसकात् ।७।१।२३।
लुक् स्यात् । वारि ॥
इकोऽचि विभक्तौ ।७।१।७३।
इगन्तस्य क्लीबस्य नुमचि विभक्तौ । वारिणी । वारीणि । न लुमतेत्यस्यानित्यत्वात्पक्षे संबुद्धिनिमित्तो गुणः । हे वारे, हे वारि । घेर्ङितीति गुणे प्राप्ते (वृद्ध्यौत्वतृज्वद्भावगुणोभ्यो नुम् पूर्वविप्रतिषेधेन) । वारिणे । वारिणः । वारिणोः । नुमचिरेति नुट् । वारीणाम् । वारिणि । हलादौ हरिवत् ॥
अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः ।७।१।७५।
एषामनङ् स्याट्टादावचि ॥
अल्लोपोऽनः ।६।४।१३४।
अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याकारस्य लोपः । दध्ना । दध्ने । दध्नः । दध्नः । दध्नोः । दध्नोः ॥
विभाषा ङिश्योः ।६।४।१३६।
अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याकारस्य लोपो वा स्यात् ङिश्योः परयोः । दध्नि, दधनि । शेषं वारिवत् । एवमस्थिसक्थ्यक्षि । सुधि । सुधिनी । सुधीनि । हे सुधे, हे सुधि ॥
तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य ।७।१।७४।
प्रवृत्तिनिमित्तैक्ये भाषितपुंस्कमिगन्तं क्लीबं पुंवद्वा टादावचि । सुधिया, सुधिनेत्यादि । मधु । मधुनी । मधूनि । हे मधो, हे मधु । सुलु । सुलुनी । सुलूनि । सुलुनेत्यादि । धातृ । धातृणी । धातॄणि । हे धातः, हे धातृ । धातॄणाम् । एवं ज्ञात्रादयः ॥
एच इग्घ्रस्वादेशे ।१।१।४८।
आदिश्यमानेषु । ह्रस्वेषु एच इगेव स्यात् । प्रद्यु । प्रद्युनी । प्रद्यूनि । प्रद्युनेत्यादि । प्ररि । प्ररिणी । प्ररीणि । प्ररिणा । एकदेशविकृतमनन्यवत् । प्रराभ्याम् । प्ररीणाम् । सुनु । सुनुनी । सुनूनि । सुनुनेत्यादि ॥
॥ इत्यजन्तनपुंसकलिङ्गाः ॥
अथ हलन्तपुँल्लिङ्गाः
हो ढः।८।२।३१।
हस्य ढः स्याज्झलि पदान्ते च । लिट्, लिड् । लिहौ । लिहः । लिड्भ्याम् । लिट्सु। लिट्त्सु, लिट्सु ॥
दादेर्धातोर्घः ।८।२।३२।
झलि पदान्ते चोपदेशे दादेर्धातोर्हस्य घः ॥
एकाचो बशो भष् झषन्तस्य स्ध्वोः ।८।२।३७।
धात्ववयवस्यैकाचो झषन्तस्य बशो भष् से ध्वे पदान्ते च । धुक्, धुग् । दुहौ । दुहः । धुग्भ्याम् । धुक्षु ॥
वा द्रुहमुहष्णुहष्णिहाम् ।८।२।३३।
एषां हस्य वा घो झलि पदान्ते च । ध्रुक्, ध्रुग्, ध्रुट्, ध्रुड् । द्रुहौ । द्रुहः । ध्रुग्भ्याम् । ध्रुड्भ्याम् । ध्रुक्षु, ध्रुट्त्सु, ध्रुट्सु । एवं मुक्, मुग् इत्यादि ॥
धात्वादेः षः सः ।६।१।६४।
स्नुक्, स्नुग्, स्नुट्, स्नुड् । एवं स्निक्, स्निग्, स्निट्, स्निड् । विश्ववाट्, विश्ववाड् । विश्ववाहौ । विश्ववाहः । विश्ववाहम्। विश्ववाहौ ॥
इग्यणः संप्रसारणम् ।१।१।४५।
यणः स्थाने प्रयुज्यमानो य इक् स संप्रसारणसंज्ञः स्यात् ॥
वाह उठ ।६।४।१३२।
भस्य वाहः संप्रसारणमूठ् ॥
संप्रसारणाच्च ।६।१।१०८।
संप्रसारणादचि पूर्वरूपमेकादेशः । एत्येधत्यूठ्स्विति वृद्धिः । विश्वौहः, इत्यादि ॥
चतुरनडुहोरामुदात्तः ।७।१।९८।
अनयोराम् स्यात्सर्वनामस्थाने परे ॥
सावनडुहः ।७।१।८२।
अस्य नुम् स्यात् सौ परे । अनड्वान् ॥
अम् संबुद्धौ ।७।१।९९।
हे अनड्वन् । हे अनड्वाहौ । हे अनड्वाहः । अनडुहः ॥
वसुस्रंसुध्वंस्वनडुहां दः ।८।२।७२।
सान्तवस्वन्तस्य स्रंसादेश्च दः स्यात् पदान्ते । अनडुद्भ्यामित्यादि । सान्तेति किम् ? विद्वान् । पदान्तेति किम् ? स्रस्तम् । ध्वस्तम् ॥
सहेः साडः सः ।८।३।५६।
साड् रूपस्य सहेः सस्य मूर्धन्यादेशः । तुराषाट्, तुराषाड् । तुरासाहौ । तुरासाहः । तुराषाड्भ्यामित्यादि ॥
दिव औत् ।७।१।८४।
दिविति प्रातिपदिकस्यौत् स्यात् सौ । सुद्यौः । सुदिवौ ॥
दिव उत् ।६।१।१३१।
दिवोऽतादेश उकारः स्यात् पदान्ते । सुद्युभ्यामित्यादि । चत्वारः । चतुरः । चतुर्भिः । चतुर्भ्यः ॥
षट्चतुर्भ्यश्च ।७।१।५५।
एभ्य आमो नुडागमः ॥
रषाभ्यां नो णः समानपदे ।८।४।१।
अचो रहाभ्यां द्वे ।८।४।४६।
अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः । चतुर्ण्णाम्, चतुर्णाम् ॥
रोः सुपि ।८।३।१६।
रोरेव विसर्गः सुपि । षत्वम् । षस्य द्वित्वे प्राप्ते ॥
शरोऽचि ।८।४।४९।
अचि परे शरो न द्वे स्तः । चतुर्षु ॥
मो नो धातोः ।८।२।६४।
धातोर्मस्य नः पदान्ते । प्रशान् ॥
किमः कः ।७।२।१०३।
किमः कः स्याद्विभक्तौ । कः । कौ । के इत्यादि । शेषं सर्ववत् ॥
इदमो मः ।७।२।१०८।
सौ । त्यदाद्यत्वापवादः ॥
इदोऽय् पुंसि ।७।२।१११।
इदम इदोऽय् सौ पुंसि । अयम् । त्यदाद्यत्वे ॥
अतो गुणे ।६।१।९७।
अपदान्तादतो गुणे पररूपमेकादेशः ॥
दश्च ।७।२।१०९।
इदमो दस्य मः स्याद्विभक्तौ । इमौ । इमे । त्यदादेः सम्बोधनं नास्तीत्युत्सर्गः ॥
अनाप्यकः ।७।२।११२।
अककारस्येदम इदोऽनापि विभक्तौ । आबिति प्रत्याहारः । अनेन ॥
हलि लोपः ।७।२।११३।
अककारस्येदम इदो लोप आपि हलादौ । (नानर्थकेऽलोऽन्त्यविधिरनभ्यासविकारे )
आद्यन्तवदेकस्मिन् ।१।१।२१।
एकस्मिन् क्रियमाणं कार्यमादाविवान्त इव स्यात् । सुपि चेति दीर्घः । आभ्याम् ॥
नेदमदसोरकोः ।७।१।११।
अककारयोरिदमदसोर्भिस ऐस् न । एभिः । अस्मै । एभ्यः । अस्मात् । अस्य । अनयोः । एषाम् । अस्मिन् । एषु ॥
द्वितीयाटौस्स्वेनः ।२।४।३४।
इदमेतदोरन्वादेशे । किञ्चित्कार्यं विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेशः । यथा - अनेन व्याकरणमधीतमेनं छन्दोऽध्यापयेति । अनयोः पवित्रं कुलमेनयोः प्रभूतं स्वमिति । एनम् । एनौ । एनान् । एनेन । एनयोः । एनयोः । राजा ॥
न ङिसम्बुद्ध्योः ।८।२।८।
नस्य लोपो न ङौ सम्बुद्धौ च । हे राजन् । (ङावुत्तरपदे प्रतिषेधोः वक्तव्यः) । ब्रह्मनिष्ठः । राजानौ । राजानः । राज्ञः ॥
नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति ।८।२।२।
सुब्विधौ स्वरविधौ संज्ञाविधौ कृति तुग्विधौ नलोपोऽसिद्धो नान्यत्र – राजाश्व इत्यादौ । इत्यसिद्धत्वादात्वमेत्त्वमैस्त्वं च न । राजभ्याम् । राजभिः । राज्ञि, राजनि । राजसु । यज्वा । यज्वानौ । यज्वानः॥
न संयोगाद्वमन्तात् ।६।४।१३७।
वमन्तसंयोगादनोऽकारस्य लोपो न । यज्वनः । यज्वना । यज्वभ्याम् । ब्रह्मणः । ब्रह्मणा ॥
इन्हन्पूषार्यम्णां शौ ।६।४।१२।
एषां शावेवोपधाया दीर्घो नान्यत्र । इति निषेधे प्राप्ते –
सौ च ।६।४।१३।
इन्नादीनामुपधाया दीर्घोऽसम्बुद्धौ सौ । वृत्रहा । हे वृत्रहन् ॥
एकाजुत्तरपदे णः ।८।४।१२।
एकाजुत्तरपदं यस्य तस्मिन् समासे पूर्वपदस्थान्निमित्तात् परस्य प्रातिपदिकान्तनुम्विभक्तिस्थस्य नस्य णः । वृत्रहणौ ॥
हो हन्तेर्ञ्णिन्नेषु ।७।३।५४।
ञिति णिति प्रत्यये नकारे च परे हन्तेर्हकारस्य कुत्वम् । वृत्रघ्नः इत्यादि । एवं शार्ङ्गिन्, यशस्विन्, अर्यमन्, पूषन्॥
मघवा बहुलम् ।६।४।१२८।
मघवन्शब्दस्य वा तृ इत्यन्तादेशः । ऋ इत् ॥
उगिदचां सर्वनामस्थानेऽधातोः ।७।१।७०।
अधातोरुगितो नलोपिनोऽञ्चतेश्च नुम् स्यात् सर्वनामस्थाने । मघवान् । मघवन्तौ । मघवन्तः । हे मघवन् । मघवद्भ्याम् । तृत्वाभावे मघवा । सुटि राजवत् ॥
श्वयुवमधोनामतद्धिते ।६।४।१३३।
अन्नन्तानां भानामेषामतद्धिते संप्रसारणम् । मघोनः । मघवभ्याम् । एवं श्वन्, युवन् ॥
न संप्रसारणे संप्रसारणम् ।६।१।३७।
संप्रसारणे परतः पूर्वस्य यणः संप्रसारणं न स्यात् । इति यकारस्य नेत्वम् । अत एव ज्ञापकादन्त्यस्य यणः पूर्वं संप्रसारणम् । यूनः । यूना । युवभ्याम् इत्यादि । अर्वा । हे अर्वन् ॥
अर्वणस्त्रसावनञः ।६।४।१२७।
नञा रहितस्यार्वन्नन्तस्याङ्गस्य तृ इत्यन्तादेशो न तु सौ । अर्वन्तौ । अर्वन्तः । अर्वद्भ्यामित्यादि ॥
पथिमथ्यृभुक्षामात् ।७।१।८५।
एषामाकारोऽन्तादेशः स्यात् सौ परे ॥
इतोऽत्सर्वनामस्थाने ।७।१।८६।
पथ्यादेरिकारस्याकारः स्यात्सर्वनामस्थाने परे ॥
थो न्थः ।७।१।८७।
पथिमथोस्थस्य न्थादेशः सर्वनामस्थाने । पन्थाः । पन्थानौ । पन्थानः ॥
भस्य टेर्लोपः ।७।१।८८।
भस्य पथ्यादेष्टेर्लोपः । पथः । पथा । पथिभ्याम् । एवं मथिन्, ऋभुक्षिन् ॥
ष्णान्ता षट् ।१।१।२४।
षान्ता नान्ता च संख्या षट्संज्ञा स्यात् । पञ्चन्शब्दो नित्यं बहुवचनान्तः । पञ्च । पञ्च । पञ्चभिः । पञ्चभ्यः । पञ्चभ्यः । नुट् ॥
नोपधायाः। ६।४।७।
नान्तस्योपधाया दीर्घो नामि । पञ्चानाम् । पञ्चसु ॥
अष्टन आ विभक्तौ ।७।२।८४।
हलादौ वा स्यात् ॥
अष्टाभ्य औश् ।७।१।२१।
कृताकारादष्टनो जश्शसोरौश् । अष्टभ्य इति वक्तव्ये कृतात्वनिर्देशो जश्शसोर्विषये आत्वं ज्ञापयति । अष्टौ । अष्टाभिः । अष्टाभ्यः । अष्टाभ्यः । अष्टानाम् । अष्टासु । आत्वाभावे अष्ट, पञ्चवत् ॥
ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च ।३।२।५९।
एभ्यः क्विन्, अञ्चेः सुप्युपपदे । युजिक्रुञ्चोः केवलयोः, क्रुञ्चेर्नलोपाभावश्च निपात्यते । कनावितौ ॥
कृदतिङ् ।३।१।९३।
अत्र धात्वधिकारे तिङ्भिन्नः प्रत्ययः कृत्संज्ञः स्यात् ॥
वेरपृक्तस्य ।६।१।६७।
अपृक्तस्य वस्य लोपः ॥
क्विन्प्रत्ययस्य कुः ।८।२।६२।
क्विन् प्रत्ययो यस्मात् तस्य कवर्गोऽन्तादेशः पदान्ते । अस्या सिद्धत्वाच्चोः कुरिति कुत्वम् । ऋत्विक्, ऋत्विग् । ऋत्विजौ । ऋत्विम्भ्याम् ॥
युजेरसमासे ।७।१।७१।
युजेः सर्वनामस्थाने नुम् स्यादसमासे । सुलोपः । संयोगान्तलोपः । कुत्वेन नस्य ङः । युङ् । अनुस्वारपरसवर्णौ । युञ्जौ । युञ्जः । युग्भ्याम् ॥
चोः कुः ।८।२।३०।
चवर्गस्य कवर्गः स्याज्झलि पदान्ते च । सुयुक्, सुयुग् । सुयुजौ । सुयुग्भ्याम् । खन् । खञ्जौ । खन्भ्याम् ॥
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः ।८।२।३६।
झलि पदान्ते च । जश्त्वचर्त्वे । राट्, राड् । राजौ । राजः । राड्भ्याम् । एवं विभ्राट्, देवेट्, विश्वसृट् । (परौ व्रजेः षः पदान्ते ) । परावुपपदे व्रजेः क्विप् स्याद्दीर्घश्च पदान्ते षत्वमपि । परिव्राट् । परिव्राजौ ॥
विश्वस्य वसुराटोः ।६।३।१२८।
विश्वशब्दस्य दीर्घोऽन्तादेशः स्याद्वसौ राट्शब्दे च परे । विश्वाराट्, विश्वाराड् । विश्वराजौ । विश्वाराड्भ्याम् ॥
स्कोः संयोगाद्योरन्ते च ।८।२।२९।
पदान्ते झलि च यः संयोगस्तदाद्योः स्कोर्लोपः । भृट् । सस्य श्चुत्वेन शः । झलां जश् झशीति शस्य जः । भृज्जौ । भृड्भ्याम् । त्यदाद्यत्वं पररूपत्वं च ॥
तदोः सः सावनन्त्ययोः ।७।२।१०६।
त्यदादीनां तकारदकारयोरनन्त्ययोः सः स्यात्सौ । स्यः । त्यौ । त्ये । सः । तौ । ते । यः । यौ । ये । एषः । एतौ । एते ॥
ङेप्रथमयोरम् ।७।१।२८।
युष्मदस्मद्भ्यां परस्य ङे इत्येतस्य प्रथमाद्वितीययोश्चामादेशः ॥
त्वाहौ सौ ।७।२।९४।
अनयोर्मपर्यन्तस्य त्वाहो आदेशौ स्तः ॥
शेषे लोपः ।७।२।९०।
एतयोष्टिलोपः । त्वम् । अहम् ॥
युवावौ द्विवचने ।७।२।९२।
द्वयोरुक्तावनयोर्मपर्यन्तस्य युवावौ स्तो विभक्तौ ॥
प्रथमायाश्च द्विवचने भाषायाम् ।७।२।८८।
औङ्येतयोरात्वं लोके । युवाम्। आवाम् ॥
यूयवयौ जसि ।७।२।९३।
अनयोर्मपर्यन्तस्य । यूयम् । वयम् ॥
त्वमावेकवचने ।७।२।९७।
एकस्योक्तावनयोर्मपर्यन्तस्य त्वमौ स्तो विभक्तौ ॥
द्वितीयायाञ्च ।७।२।८९।
अनयोरात् स्यात् । त्वाम् । माम् ॥
शसो न ।७।१।२९।
आभ्यां शसो नः स्यात् । अमोऽपवादः । आदेः परस्य । संयोगान्तलोपः । युष्मान् । अस्मान् ॥
योऽचि।७।२।८९।
अनयोर्यकारादेशः स्यादनादेशेऽजादौ परतः । त्वया । मया ॥
युष्मदस्मदोरनादेशे ।७।२।८६।
अनयोरात् स्यादनादेशे हलादौ विभक्तौ । युवाभ्याम् । आवाभ्याम् । युष्माभिः । अस्माभिः ॥
तुभ्यमह्यौ ङयि ।७।२।९५।
अनयोर्मपर्यन्तस्य । टिलोपः । तुभ्यम् । मह्यम् ॥
भ्यसोऽभ्यम् ।७।१।३०।
आभ्यां परस्य । युष्मभ्यम् । अस्मभ्यम् ॥
एकवचनस्य च ।७।१।३२।
आभ्यां ङसेरत् । त्वत् । मत् ॥
पञ्चभ्या अत् ।७।१।३१।
आभ्यां पञ्चभ्या भ्यसोऽत्स्यात् । युष्मत् । अस्मत् ॥
तवममौ ङसि ।७।२।९६।
अनयोर्मपर्यन्तस्य तवममौ स्तो ङसि ॥
युष्मदस्मद्भ्यां ङसोऽश् ।७।१।२७।
तव । मम । युवयोः । आवयोः ॥
साम आकम् ।७।१।३३।
आभ्यां परस्य साम आकं स्यात् । युष्माकम् । अस्माकम् । त्वयि । मयि । युवयोः । आवयोः । युष्मासु । अस्मासु ॥
युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वांनावौ ।८।१।२०।
पदात्परयोरपादादौ स्थितयोः षष्ठ्यादिविशिष्टयोर्वां नौ इत्यादेशौ स्तः ॥
बहुवचनस्य वस्नसौ ।८।१।२१।
उक्तविधयोरनयोः षष्ठ्यादिबहुवचनान्तयोर्वस्नसौ स्तः ॥
तेमयावेकवचनस्य ।८।१।२२।
उक्तविधयोरनयोः षष्ठीचतुर्थ्येकवचनान्तयोर्वस्नसौ स्तः ॥
त्वामौ द्वितीयायाः ।८।१।२३।
द्वितीयैकवचनान्तयोस्त्वा मा इत्यादेशौ स्तः ॥
श्रीशस्त्वाऽवतु मापीह दत्तात्ते मेऽपि शर्म सः ।
स्वामी ते मेऽपि स हरिः पातु वामपि नौ विभुः ॥
सुखं वां नौ ददात्वीशः पतिर्वामपि नौ हरिः ।
सोऽव्याद्वो नः शिवं वो नो दद्यात् सेव्योऽत्र वः स नः ॥
(एकवाक्ये युष्मदस्मदादेशा वक्तव्याः) । एकतिङ् वाक्यम् । ओदनं पच तव भविष्यति । (एते वान्नावादयोऽनन्वादेशे वा वक्तव्याः) । अन्वादेशे तु नित्यं स्युः । धाता ते भक्तोऽस्ति, धाता तव भक्तोऽस्ति वा । तस्मै ते नम इत्येव । सुपात्, सुपाद् । सुपादौ ॥
पादः पत् ।६।४।१३०।
पाच्छब्दान्तं यदङ्गं भं तदवयवस्य पाच्छब्दस्य पदादेशः। सुपदः । सुपदा । सुपाद्भ्याम् । अग्निमत्, अग्निमद् । अग्निमथौ। अग्निमथम् ॥
अनिदितां हल उपधायाः क्ङिति ।६।४।२४।
हलन्तानामनिदितामङ्गानामुपधाया नस्य लोपः किति ङिति । नुम् । संयोगान्तस्य लोपः । नस्य कुत्वेन ङः । प्राङ् । प्राञ्चौ । प्राञ्चः ॥
अचः ।६।४।१३८।
लुप्तनकारस्याञ्चतेर्भस्याकारस्य लोपः ॥
चौ ।६।३।१३८।
लुप्ताकारनकारोऽञ्चतौ परे पूर्वस्याणो दीर्घः । प्राचः । प्राचा । प्राग्भ्याम् । प्रत्यङ् । प्रत्यञ्चौ । प्रतीचः । प्रत्यग्भ्याम्। उदङ् । उदञ्चौ ॥
उद ईत् ।६।४।१३९।
उच्छब्दात् परस्य लुप्तनकाराञ्चतेर्भस्याकारस्य ईत् । उदीचः । उदीचा । उदग्भ्याम् ॥
समः समि ।६।३।९३।
वप्रत्ययान्तेऽञ्चतौ । सम्यङ् । सम्यञ्चौ । समीचः । सम्यग्भ्याम् ॥
सहस्य सध्रिः ।६।३।९५।
तथा । सध्र्यङ् ॥
तिरसस्तिर्यलोपे ।६।३।९४।
अलुप्ताकारेऽञ्चतौ वप्रत्ययान्ते तिरसस्तिर्यादेशः । तिर्यङ् । तिर्यञ्चौ । तिरश्चः । तिर्यग्भ्याम् ॥
नाञ्चेः पूजायाम् ।६।४।३०।
पूजार्थस्याञ्चतेरुपधाया नस्य लोपो न । प्राङ् । प्राञ्चौ । नलोपाभावादलोपो न । प्राञ्चः । प्राङ्भ्याम् । प्राङ्क्षु । एवं पूजार्थे प्रत्यङ्ङादयः । क्रुङ् । क्रुञ्चौ । क्रुङ्भ्याम् । पयोमुक्, पयोमुग् । पयोमुचौ । पयोमुग्भ्याम् । उगित्त्वान्नुमि –
सान्तमहतः संयोगस्य ।६।४।१०।
सान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घोऽसम्बुद्धौ सर्वनामस्थाने । महान् । महान्तौ । महान्तः । हे महन् । महद्भ्याम् ॥
अत्वसन्तस्य चाधातोः ।६।४।१४।
अत्वन्तस्योपधाया दीर्घो धातुभिन्नासन्तस्य चासम्बुद्धौ सौ परे । उगित्वान्नुम् । धीमान् । धीमन्तौ । धीमन्तः । हे धीमन् । शसादौ महद्वत् । भातेर्डवतुः । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः । भवान् । भवन्तौ । भवन्तः । शत्रन्तस्य भवन् ॥
उभे अभ्यस्तम् ।६।१।५।
षाष्ठद्वित्वप्रकरणे ये द्वे विहिते ते उभे समुदिते अभ्यस्तसंज्ञे स्तः ॥
नाभ्यस्ताच्छतुः ।७।१।७८।
अभ्यस्तात्परस्य शतुर्नुम् न । ददत्, ददद् । ददतौ । ददतः ॥
जक्षित्यादयः षट् ।६।१।६।
षड्धातवोऽन्ये जक्षितिश्च सप्तम एते अभ्यस्तसंज्ञाः स्युः । जक्षत्, जक्षद् । जक्षतौ । जक्षतः । एवं जाग्रत् । दरिद्रत्। शासत् । चकासत् । गुप्, गुब् । गुपौ । गुपः । गुब्भ्याम् ॥
त्यदादिषु दृशोऽनालोचने कञ्च ।३।२।६०।
त्यदादिषूपपदेष्वज्ञानार्थाद्दृशेः कञ् स्यात् । चात् क्विन् ॥
आ सर्वनाम्नः ।६।३।९१।
सर्वनाम्न आकारोऽन्तादेशः स्याद्दृग्दृशवतुषु । तादृक्, तादृग् । तादृशौ । तादृशः । तादृग्भ्याम् । व्रश्चेति षः । जश्त्वचर्त्वे । विड् । विट् । विशौ । विशः । विड्भ्याम् ॥
नशेर्वा ।८।२।६३।
नशेः कवर्गोऽन्तादेशो वा पदान्ते । नक्, नग् । नट्, नड् । नशौ । नशः । नग्भ्याम्, नड्भ्याम् ॥
स्पृशोऽनुदके क्विन् ।३।२।५८।
अनुदके सुप्युपपदे स्पृशेः क्विन् । घृतस्पृक्, घृतस्पृग् । घृतस्पृशौ । घृतस्पृशः । दधृक्, दधृग् । दधृषौ । दधृग्भ्याम् । रत्नमुषौ । रत्नमुड्भ्याम् । षट्, षड् । षड्भिः । षड्भ्यः । षण्णाम् । षट्सु । रुत्वं प्रति षत्वस्यासिद्धत्वात्ससजुषो रुरिति रुत्वम् ॥
र्वोरुपधाया दीर्घ इकः ।८।२।७६।
रेफवान्तयोर्धात्वोरुपधाया इको दीर्घः पदान्ते । पिपठीः । पिपठिषौ । पिपठीर्भ्याम् ॥
नुम्विसर्जनीयशर्व्यवायेऽपि ।८।३।५८।
एतैः प्रत्येकं व्यवधानेऽपि इण्कुभ्यां परस्य सस्य मूर्धन्यादेशः । ष्टुत्वेन पूर्वस्य षः । पिपठीष्षु, पिपठीःषु । चिकीः । चिकीर्षौ । चिकीर्भ्याम् । चिकीर्षु । विद्वान् । विद्वांसौ । हे विद्वन् ॥
वसोः संप्रसारणम् ।६।४।१३१।
वस्वन्तस्य भस्य संप्रसारणं स्यात् । विदुषः । वसुस्रंस्विति दः । विद्वद्भ्याम् ॥
पुंसोऽसुङ् ।७।१।८९।
सर्वनामस्थाने विवक्षिते पुंसोऽसुङ् स्यात् । पुमान् । हे पुमन् । पुमांसौ । पुंसः । पुम्भ्याम् । पुंसु । ऋदुशनेत्यनङ् । उशना । उशनसौ । (अस्य सम्बुद्धौ वानङ्, नलोपश्च वा वाच्यः) । हे उशन, हे उशनन्, हे उशनः । हे उशनसौ । उशनोभ्याम् । उशनस्सु । अनेहा । अनेहसौ । हे अनेहः । वेधाः। वेधसौ । हे वेधः । वेधोभ्याम् ॥
अदस औ सुलोपश्च ।७।२।१०७।
अदस औकारोऽन्तादेशः स्यात्सौ परे सुलोपश्च । तदोरिति सः । असौ । त्यदाद्यत्वम् । पररूपत्वम् । वृद्धिः ॥
अदसोऽसेर्दादु दो मः ।८।२।८०।
अदसोऽसान्तस्य दात्परस्य उदूतौ स्तो दस्य मश्च । आन्तरतम्याद्धस्वस्य उः, र्दीर्घस्य ऊः । अमू । जसः शी । गुणः॥
एत ईद्बहुवचने ।८।२।८१।
अदसो दात्परस्यैत ईद्दस्य च मो बह्बर्थोक्तौ । अमी । पूर्वत्रासिद्धमिति बिभक्तिकार्यं प्राक् पश्चादुत्वमत्वे । अमुम् । अमू । अमून् । मुत्वे कृते घिसंज्ञायां नाभावः ॥
न मु ने ।८।२।३।
नाभावे कर्तव्ये कृते च मुभावो नासिद्धः । अमुना । अमूभ्याम् ३ । अमीभिः। अमुष्मै । अमीभ्यः २ । अमुष्मात् । अमुष्य । अमुयोः २ । अमीषाम् । अमुष्मिन् । अमीषु ॥
॥ इति हलन्तपुंल्लिङ्गाः ॥
अथ हलन्तस्त्रीलिङ्गाः
नहो धः ।८।२।३४।
नहो हस्य धः स्याज्झलि पदान्ते च ॥
नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ ।६।३।११६।
क्विबन्तेषु पूर्वपदस्य दीर्घः । उपानत्, उपानद् । उपानहौ । उपानत्सु । क्विन्नन्तत्वात् कुत्वेन घः । उष्णिक्, उष्णिग्। उष्णिहौ । उष्णिग्भ्याम् । द्यौः । दिवौ । दिवः । द्युभ्याम् । गीः । गिरौ । गिरः । एवं पूः । चतस्रः । चतसृणाम् । का । के । काः । सर्वावत् ॥
यः सौ ।७।२।११०।
इदमो दस्य यः । इयम् । त्यदाद्यत्वम् । पररूपत्वम् । टाप् । दश्चेति मः । इमे । इमाः । इमाम् । अनया । हलि लोपः । आभ्याम् । आभिः । अस्यै । अस्याः । अनयोः । आसाम् । अस्याम् । आसु । त्यदाद्यत्वम् । टाप् । स्या । त्ये। त्याः । एवं तद्, एतद् । वाक्, वाग् । वाचौ । वाग्भ्याम् । वाक्षु । अप् शब्दो नित्यं बहुवचनान्तः । अप्तृन्निति दीर्घः। आपः । अपः ॥
अपो भि । ७।४।४८।
अपस्तकारो भादौ प्रत्यये । अद्भिः । अद्भ्यः । अपाम् । अप्सु । दिक्, दिग् । दिशौ । दिशः । दिग्भ्याम् । त्यदादिष्विति दृशेः क्विन्विधानादन्यत्रापि कुत्वम् । दृक्, दृग् । दृशौ । दृग्भ्याम् । त्विट्, त्विड् । त्विषौ । त्विद्भ्याम्। ससजुषोरुरिति रुत्वम् । सजूः । सजुषौ । सजूर्भ्याम् । आशीः । आशिषौ । आशीर्भ्याम् । असौ । उत्वमत्वे । अमू । अमूः । अमुया । अमूभ्याम् ३ । अमूभिः । अमुष्यै । अमूभ्यः २ । अमुष्याः । अमुयोः २ । अमूषाम् । अमुष्याम् । अमूषु ॥
॥ इति हलन्तस्त्रिलिङ्गाः ॥
अथ हलन्तनपुंसकलिङ्गाः
स्वमोर्लुक् । दत्वम् । स्वनडुत्, स्वनडुद् । स्वनडुही । चतुरनडुहोरित्याम् । स्वनड्वांहि । पुनस्तद्वत् । शेषं पुंवत् । वाः । वारी । वारि । वारा । वार्भ्याम् । चत्वारि । किम् । के । कानि । इदम् । इमे । इमानि । (अन्वादेशे नपुंसके वा एनद्वक्तव्यः) । एनत् । एने । एनानि । एनेन । एनयोः । अहः । विभाषा ङिश्योः । अह्नी, अहनी। अहानि ॥
अहन् ।८।२।६८।
अहन्नित्यस्य रुः पदान्ते । अहोभ्याम् । दण्डि । दण्डिनी । दण्डीनि । दण्डिना । दण्डिभ्याम् । सुपथि । टेर्लोपः । सुपथी । सुपन्थानि । ऊर्क्, ऊर्ग् । ऊर्जी । ऊर्न्जि । नरजानां संयोगः । तत् । ते । तानि । यत् । ये । यानि । एतत् । एते । एतानि । गवाक्, गवाग् । गोची । गवाञ्चि । पुनस्तद्वत् । गोचा । गवाग्भ्याम्। शकृत् । शकृती । शकृन्ति । ददत् ॥
वा नपुंसकस्य ।७।१।७९।
अभ्यस्तात्परो यः शता तदन्तस्य क्लीबस्य वा नुम् सर्वनामस्थाने । ददन्ति । ददति । तुदत् ॥
आच्छीनद्योर्नुम् ।७।१।८०।
अवर्णान्तात्दङ्गापरो यः शतुरवयवस्तदन्तस्य नुम् वा शीनद्योः । तुदन्ती, तुदती । तुदन्ति ।
शप्श्यनोर्नित्यम् ।७।१।८१।
शप्श्यनोरात्परो यः शतुरवयवस्तदन्तस्य नुम् शीनद्योः । पचन्ती । पचन्ति । दीव्यत् । दीव्यन्ती । दीव्यन्ति । धनुः। धनुषी । सान्तेति दीर्घः । नुम्विसर्जनीयेति षः । धनूंषि । धनुषा । धनुर्भ्याम् । एवं चक्षुर्हविरादयः । पयः । पयसी । पयांसि । पयसा । पयोभ्याम् । सुपुम् । सुपुंसी । सुपुमांसि । अदः । विभक्तिकार्यम् । उत्वमत्वे । अमू । अमूनि । शेषं पुंवत् ॥
॥ इति हलन्तनपुंसकलिङ्गाः ॥
॥ इति षड्लिङ्गप्रकरणम् ॥
अथाव्ययानि
स्वरादिनिपातमव्ययम् ।१।१।३७।
स्वरादयो निपाताश्चाव्ययसंज्ञाः स्युः । स्वर् । अन्तर् । प्रातर् । पुनर् । सनुतर् । उच्चैस् । नीचैस् । शनैस् । ऋधक् । ऋते । युगपत् । आरात् । पृथक् । ह्यस् । श्वस् । दिवा । रात्रौ । सायम् । चिरम् । मनाक् । ईषत् । जोषम् । तूष्णीम् । बहिस् । अवस् । समया । निकषा । स्वयम् । वृथा । नक्तम् । नञ् । हेतौ । इद्धा । अद्धा । सामि । वत् । ब्राह्मणवत् । क्षत्रियवत् । सना । सनत् । सनात् । उपधा । तिरस् । अन्तरा । अन्तरेण । ज्योक् । कम् । शम् । सहसा । विना । नाना । स्वस्ति । स्वधा । अलम् । वषट् । श्रौषट् । वौषट् । अन्यत् । अस्ति । उपांशु । क्षमा । विहायसा । दोषा । मृषा । मिथ्या । मुधा । पुरा । मिथो । मिथस् । प्रायस् । मुहुस् । प्रवाहुकम् । प्रवाहिका । आर्यहलम् । अभीक्ष्णम् । साकम् । सार्धम् । नमस् । हिरुक् । धिक् । अथ । अम् । आम् । प्रताम् । प्रशान् । प्रतान् । मा । माङ् । आकृतिगणोऽयम् । च । वा । ह । अह । एव । एवम् । नूनम् । शश्वत् । युगपत् । भूयस् । कूपत् । सूपत्। कुवित्। नेत् । चेत् । चण् । कच्चित् । यत्र । नह । हन्त । माकिः । माकीम् । नकिः । नकिम् । माङ् । नञ् । यावत् । तावत् । त्वै । द्वै । न्वै । रै । श्रौषट् । वौषट् । स्वाहा । स्वधा । वषट् । तुम् । तथाहि । खलु । किल । अथो। सुष्ठु । स्म । आदह । (उपसर्गविभक्तिस्वरप्रतिरूपकाश्च) । अवदत्तम् । अहंयुः । अस्तिक्षीरा । अ । आ । इ । ई । उ । ऊ । ए । ऐ । ओ । औ । पशु । शुकम् । यथाकथाच । पाट् । प्याट् । अङ्ग । है । हे । भोः । अये । द्य । विषु। एकपदे । युत् । आतः । चादिरप्याकृतिगणः । तसिलादयः प्राक् पाशपः । शस्प्रभृतयः प्राक् समासान्तेभ्यः । अम् । आम् । कृत्वोऽर्थाः । तसिवती । नानाञौ । एतदन्तमव्ययम् ॥
कृन्मेजन्तः ।१।१।३९।
कृद्यो मान्त एजन्तश्च तदन्तमव्ययं स्यात् । स्मारं स्मारम् । जीवसे । पिबध्यै ॥
क्त्वातोसुन्कसुनः ।१।१।४०।
एतदन्तमव्ययम् । कृत्वा । उदेतोः । विसृपः ॥
अव्ययीभावश्च ।१।१।४१।
अधिहरि ॥
अव्ययादाप्सुपः ।२।४।८२।
अव्ययाद्विहितस्यापः सुपश्च लुक् । तत्र शालायाम् ।
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥
वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः ।
आपं चैव हलन्तानां यथा वाचा निशा दिशा ॥
वगाहः, अवगाहः । पिधानम्, अपिधानम् ॥
॥ इत्यव्ययानि॥