अमरकोशप्रथमकाण्डः व्योमवर्गः

Sri App
व्योमवर्गः 
 १६७ - द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् 
१६८ - नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्
१६९ - वियद् विष्णुपदं वा तु पुंस्याकाशविहायसी
१७० - विहासयोऽपि नाकोऽपि द्युरपि स्यात् तदव्यम्
१७१ - तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम्
१७२ - विहायाः शकुने पुंसि गगने पुंनपुंसकम् 

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top