पंचायन देवता पूजन हवनं च

Sri App


तमा अथवा पितालको पात्रमा कर्मपात्रमा शंखचक्र लेखेर अभिमन्त्रण गर्नुहोस् ।  

ॐ यद्देवा देवहेडनन्देवासश्चकृमा व्वयम् ।
अग्निर्म्मा तस्मादेनसो व्विश्वान्मुञ्चत्वᳩहसः ॥

ॐ यदि दिवा यदि नक्तमेनाᳩसि चकृमा व्वयम् ।
वायुर्मा तस्मादेनसो विश्वान्मुञ्चत्वᳩहसः ॥

ॐ यदि जाग्रद्यदि स्वप्नऽएना सिᳩचकृमा व्वयम् ।
सूर्यो मा तस्मादेनसो विश्वान्मुञ्चत्वᳩहसः ॥ 


 कर्मपात्रमा पवित्रराख्ने  मन्त्र 
ॐ  पवित्रेस्थोव्वैष्णव्यौसवितुर्वः प्रसवऽउत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्यरश्मिभिः ।
तस्यते पवित्रपते पवित्रपूतस्ययत्कामः पुने तच्छकेयम्‌ ॥

कर्मपात्रमा जलराख्ने मन्त्र 
ॐ शन्नोदेवीरभिष्टयऽआपोभवन्तु पीतये । शंय्योरभिस्रवन्तु नः ।

चन्दन राख्ने मन्त्र 
ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्‌ ।
 ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्‌ ॥


 तिल राख्ने मन्त्र 
    ॐ तिलोसि सोमदैवत्यो गोसवो देवनिर्मितः ।
प्रत्क्नमद्भिः पृक्तः स्वधया पितृँल्लोकान्‌ प्प्रीणाहिनः स्वाहा ॥ 

जौ राख्ने मन्त्र 
ॐ यवोसियवयास्मदद्वेषोयवयारातिःदिवेत्वान्तरिक्षायत्वा पृथिव्यैत्वाशुन्धन्ताँल्लोकाः पितृषदनाः पितृषदनमसि ॥ 

अक्षता राख्ने मन्त्र 
ॐ अक्षन्नमीमदन्तह्यवप्रियाऽअधूषत ।
अस्तोषतस्वभानवो व्विप्प्रानविष्ठयामतीयोजान्न्विन्द्रते हरी ॥

फुल राख्ने मन्त्र 
ॐ श्रीश्चते लक्ष्मीश्चपत्क्न्यावहोरात्त्रेपार्श्वेनक्षत्राणि रूपमश्विनौ व्यात्तम्‌ ।
 इष्णन्निषाणामुम्मऽइषाण सर्व्वलोकम्मऽइषाण ॥ 

र त्यो कर्म पात्रको जलले ले आफुलाई अनि पूजा सामग्रीलाइ सेञ्चन गर्ने
जलसेचनम्‌

ॐ अपवित्रः पवित्रो वा सर्वावस्थाङ्गतोऽपि वा।
यः स्मरेत्‌ पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः॥


 ॐ पुण्डरीकाक्षः पुनातु ३ । 

आसनपवित्रीकरणम्‌ 

ॐ पृथ्वीति मनस्य मेरुपृष्ठ ऋषिः, सुतलं छन्दः कूर्मो देवता आसने विनियोगः 

ॐ पृथिवि! त्वया धृता लोका देवि त्वं विष्णुना धृता ।
त्वं च धारय मां देवि पवित्रं कुरु चासनम्‌ ॥
आचमनम्‌- | ॐ केशवाय नमः, ॐ नारायणाय नमः, ॐ माधवाय नमः। हस्तप्रक्षालनाय - ॐ गोविन्दाय नमः। 

पवित्रीधारणम्‌ 

ॐ पवित्रेस्थो वैष्णव्यौ सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रष्मिभिः।
तस्य ते पवित्रपते पवित्रपूतस्य यत्कामः पुने तच्छकेयम्‌॥

अव तलको मन्त्रले पंचगव्य  प्राशनगर्ने  ।
ॐ  यत्वगस्थिगतं पापं देहे तिष्ठति तावके ।
 प्राशनात्पञ्चगव्यस्य दहत्यग्निरिवेन्धनम्‌॥


प्रतिज्ञा संकल्पः
हरिः ॐ तत्सत्‌ ३  ॐ विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य श्रीभूनीलानायकस्य सौशील्यादि सकलकल्याण-गुणगणसमलंकृतस्य श्रीमन्नारायणस्य नाभिकमलोद्भवस्य भगवदाज्ञया सकलजगत्सृष्टिं कुर्वतः  अखिललोकपितामहस्य ब्रह्मणो द्वितीये परार्द्धे एकपञ्चाशत्तमे वर्षे प्रथममासे प्रथमपक्षे प्रथमदिवसे दिनस्य द्वितीये यामे तृतीये मुहूर्ते अष्टमे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे कलिप्रथमचरणे श्रीमन्नृपतिविक्रमार्कराज्याद्‌ , श्रीमद्रामानुजमुनि प्रादुर्भावाद्वा कालयुक्त सम्वत्सरे वर्तमाने श्री सूर्य उत्तरायणे ग्रीष्म  ऋतौ सौर्येण अषाढे मासे चन्द्रेण ज्येष्ठे मासे शुक्ले पक्षे पौर्णमाश्याम् तदुपरि प्रतिपदायां शुभ तिथौ मूल नक्षत्रे शुक्ल योगे बव करणे धनु राशिस्थिते चन्द्रे मिथुन राशिस्थिते सूर्ये शुभ राशिस्थिते वृहष्पतौ  शेषेषु ग्रहेषु तत्तत्स्थान स्थितेषु सत्सु एवं गुणगण विशेषेण विशिष्टायां शुभपुण्यतिथौ जम्बूद्वीपे भारतवर्षे नेपाल राज्ये अमुक...नद्याः समीपे अमुक... ग्रामे अमुक........ देव सन्निधौ वर्तमाने अमुक.......वेदान्तर्गत अमुक..शाखाध्यायी  भारद्वाजवार्हश्पत्याङ्गिरस त्रिप्रवरान्वितः अमुक...गोत्रोत्पन्नः अमुक...नामाहं (अमुकशर्मा वर्मा गुप्तो दासोऽहं ) भगवत्कैङ्कर्यरूपेण भगवन्मुखोल्लासार्थम्‌ दीपकलशगणेशपूजनपूर्वकम्‌ अमुक...कर्मकरिष्ये करिष्यामि वा ।

पञ्चभूसंस्कार: 

भुरीतिभूमिशोधनम् ( वेदी बनाउन भूमि शोधन गर्ने )
ॐ भूरसि भूमिरस्यदितिरसि विश्वधाया विश्वस्य भुवनस्य धर्ती ।
पृथिवीं यच्छ पृथिवीन्दृ ᳩ ह पृथिवीं माहि ᳩ सीः ॥ 

अश्मा च म इति मृत्तिकास्थापन (  वेदीमा माटो राख्ने  )
 ॐ अश्मा च मे मृत्तिका च मे गिरयश्चमे पर्वताश्च मे सिकताश्च मे व्वनस्पतयश्च में
हिरण्यञ्च मे यश्च मे श्यामञ्च मे लोहञ्च मे सीसञ्च मे त्रपु च मे यज्ञेन कल्पन्ताम् ॥

शन्नो देवीरित्यभ्युक्ष्ययेत् ( जलने सेञ्चन गर्ने )
ॐ शन्नो देवीरभिष्टया आपो भवन्तु पीतये । शं योरभिस्रवन्तु नः ॥ 

यहाँ  स्वस्तिवाचनम् पाठ गर्ने 

अब हातमा पहेलो सर्स्यू लिएर मण्डपको वरीपरी छर्ने
र यति वेला रक्षा बन्धन पूजन पनि गर्ने 

पूर्वे रक्षतु गोविन्द आग्नेयां गरुडध्वजः ।
 याम्यां रक्षतु वाराहो नारसिंहस्तु नैर्ऋते ॥
वारुण्यां केशवो रक्षेद्‌ वायव्यां मधुसूदनः ।
उत्तरे श्रीधरो रक्षेदैशान्यां तु गदाधरः ॥
ऊर्ध्वं गोवर्धनो रक्षेदधस्ताच्च त्रिविक्रमः ।
 एवं दशदिशो रक्षेद्‌ वासुदेवः सनातनः ॥

भूपूजनम् 

सुरुमा भूपूजनको लागि विनियोग गर्ने 
ॐ भूरसीत्यस्य प्रजापतिऋषि: प्रस्तारपंक्तिश्छन्द:भूमिदेवता भूमिपूजने विनियोग: ।

ॐ  भूरसिभूमिरस्यदितिरसिव्विश्वधाया व्विश्वस्य भुवनस्य धर्त्रीं ।
पृथिवींयच्छपृथिवीन्दृ ꣳ ह पृथिवीम्माहि ꣳ सीः ॥

एहि मे वसुधे देवि वरदे भूतभाविनि।
 सर्वाश्रये महाभागे देववद् भयहारिणी ॥

अथ वराहपूजनम्‌
अब वराह पूजनको लागि विनियोग गर्ने 
वराह इति मन्त्रस्य प्रजापतिर्ऋषिः अनुष्टुप्छन्दः वराहो देवता वराहपूजने विनियोगः ।

ॐ वराहवः स्वतपसो विद्युन्महसो धूपयः ।
श्वापयो गृह मेधाश्‍श्चेत्येते मे ये चेमेऽशिमि विद्विषः ॥

एहि मे देवदेवेश वराहामित विक्रम ।
 निरस्ताशेषदैत्येन्द्र दीनभक्तजनप्रिय ॥

ॐ हूँ वराहाय नमः

अथ दीपपूजनम्‌ 

दीप प्रज्वलन गर्दै तलका मन्त्र उच्चारण गर्ने 
ॐ  पृष्टोदिविपुष्टोऽअग्निः पृथव्यांपृष्टोविश्वाऽओषधीराविवेश ।
 वैश्वानरःसहसापृष्टोऽअग्निः सनो दिवासरिषस्पातु नक्तम्‌ ।

ॐ  कर्मसाक्षिणे दीपनारायणाय नमः ।
 दीपं आवाहयामि स्थापयामि पूजयामि ।

ईशानमा राखिएको कलशको पूजन गर्ने 

 प्रधानकलशपूजनम्‌

 दुईवटा घडालाई तिलक वस्त्रादिले सजाएर ईशानकोणमा स्थापना गर्न तयार राखिएको भूमीलाई प्रार्थना गर्ने ।

ॐ भूमिर्भूम्ना द्यौर्वरिणाऽन्तरिक्षं महीत्वा ।
उपस्थेते देव्यदितेऽग्निमन्नादमन्नाद्याया दधे ॥

त्यो भूमिमा धान अथवा चामल राख्ने र कलस स्थापना गर्ने 
ॐ धानावन्तङ्करम्भिणमपूपवन्तमुक्थिनम्‌ ।
इन्द्रप्रातर्जुषस्वनः । 


पूर्वमा ऋग्वेदको आवाहन गर्ने

ॐ  ऋग्वेदाय नमः ऋग्वेदं आवाहयामि स्थापयामि पूजयामि ।
ॐ  अग्निमीडे पुरोहितं यज्ञस्य देवमृत्विजम्‌ । होतारं रत्नधातमम्‌ ॥

दक्षिणमा यजुर्वेदको आवाहनगर्ने
ॐ  यजुर्वेदाय नमः यजुर्वेदम्‌ आवाहयामि स्थापयामि पूजयामि ।

ॐ इषेत्वोर्ज्जेत्वा व्वायवस्थदेवोवः सविताप्प्रार्पयतुश्श्रेष्ठतमाय कर्म्मणऽआप्यायद्ध्वमध्न्याऽइन्द्रायभागं प्रजावतीरनमीवाऽअयक्ष्मा मावस्तेनऽईशतमाघस ꣳ सोद्ध्रुवाऽअस्मिन्गोपतौ स्यातबह्वीर्य्यज मानस्यपशून्पाहि । 

पश्चिममा सामवेदको आवाहन गर्ने
ॐ  सामवेदाय नमः सामवेदम्‌ आवाहयामि स्थापयामि पूजयामि
ॐ अग्नऽआयाहि वीतये गृणानो हव्य दातये । निहोता सत्सि वर्हिषि॥

उत्तरमा अथर्ववेदको आवाहन गर्ने

ॐ अथर्ववेदाय नमः अथर्ववेदं आवाहयामि स्थापयामि पूजयामि
ॐ शन्नो देवीरभिष्टयऽआपो भवन्तु पीतये । शंग्योरभिस्रवन्तुनः ।

ॐ  चतुर्भ्यो वेदेभ्यो नमः सर्वोपचारान्‌ समर्पयामि ।


कलश प्रतिष्ठा गर्ने
ॐ  मनो जूतिर्ज्जुषतामाज्ज्यस्य बृहस्पतिर्य्यज्ञमिमन्तनोत्वरिष्टं
यज्ञ ꣳ समिमं दधातु । विश्वे देवासऽ5इहमादयन्तामाँ३ प्रतिष्ठ । 
एषवै प्रतिष्ठा नाम यज्ञो यत्रैतेन यज्ञेन यजन्तेसर्वमेव प्रतिष्ठितं भवति।

यसरी पहेँला अक्षताले कलश प्रतिष्ठा गरेर

प्रार्थना गर्ने
देवदानवसंवादे मथ्यमाने महोदधौ ।
उत्पन्नोऽसि तदा कुम्भ विधृतो विष्णुना स्वयम्‌ ॥
त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः ।
आदित्या वसवो रुद्रा विश्वेदेवाः सपैतृकाः ।
त्वयि तिष्ठन्ति सर्वेपि यतः कामफलप्रदाः ।
 त्वत्प्रसादादिमं यज्ञं कर्तुमीहे जलोद्भव ।
सान्निध्यं कुरु देवेश प्रसन्नो भव सर्वदा ॥

श्रीगणेशपूजनम्
आवाहनम्
मन्त्रः- ॐ गणानां त्वा गणपति गुंग हवामहे प्रियाणां त्वा प्रियपति गुंग हवामहे निधीनां त्वा निधिपति गुंग हवामहे व्वसो मम । आहमजानि गर्भधमात्त्वम जासि गर्भधम् ।
ॐ भूर्भुवः स्वः सिद्धि-बुद्धि-सहिताय गणपतये नमः गणपतिमावाहयामि स्थापयामि।
प्राणप्रतिष्ठा :
ॐ मनो जूतिर्जुषतामाज्ज्यस्य वृहस्पतिर्यज्ञमिमं तनोत्वरिष्ट य्यज्ञ गुगं समिमं दधातु । विश्श्वेदेवास ऽइह मादयन्तामो३ प्रतिष्ठ ।
अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च ।
अस्यै देवत्वमर्चायै मामहेति च कश्चन ।।
भो गणेश सुप्रतिष्ठित वरदो भव। विष्णु पूजन ॐ विष्णोर्नुकं वीर्याणि प्र वोचं य: पार्थिवानि विममे रजा§सि ।
यो अस्कभायदुत्तर § सधस्थं विचक्रमाणस्त्रेधोरुगायो विष्णवे त्वा ।।४।।
विष्णवे नमः
देवी पूजन  देवीर्द्वार इन्द्रꣳ संघाते । विड्वीर्यामन्नवर्धयन् । आ वत्सेन तरुणेन कुमारेण च मीविता अपार्वाणम् । रेणुककाटं नुदन्ताम् । वसुवने वसुधेयस्य वियन्तु यज 
देव्यै नमः
गणेश पूजन ॐ गणानान्त्वा गणपति & हवामहे प्रियाणान्त्वा प्रियपति & हवामहे निधीनान्त्वा
निधिपति &हवामहे व्वसो मम । आहमजानि गर्भधमात्वमजासि गर्भधम्
गणेशाय नमः
शिवाय ॐ नमः शम्भवाय च मयो भवाय च नमः शङ्कराय च मयस्कराय च नमः । शिवाय च शिवतराय च स्वाहा । शिवाय नमः
सूर्य पूजन ॐ आ कृष्ण्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यञ्च । 
 हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन्
सूर्याय नमः ब्रह्मा पूजनम् ॐ आब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायतामाराष्ट्रे राजन्यः शूर इषव्यौऽतिव्याधि महारथो जायतां दोग्ध्री धेनुर्वोढानड्वानाशुः सप्तिः पुरन्ध्रिर्योषा जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य वीरो जायाताम् । निकामे निकामे नः पर्जन्यो वर्षतु फलवत्यो न औषधयः पच्यन्ताम् योगक्षेमो नः कल्पताम्।

अथ प्रधानदेवताहोमः

विनियोगः
ॐ भूर्भुवः स्वरिति महाव्याहृतीनां प्रजापतिऋषिरग्निवायुसूर्यो  देवता गायत्र्युष्णिगनष्टुभश्छदांसि अग्न्याधाने विनियोगः । 

ॐ भूः स्वाहा । इदमग्नये न मम । प्रोक्षणीपात्रेऽपि ।
 ॐ भुवः स्वाहा । इदं वायवे न मम । प्रोक्षणीपात्रेऽपि ।
 ॐ स्वः स्वाहा । इदं सूर्याय न मम । प्रोक्षणीपात्रेऽपि ।

 एता महाव्याहृतयः ।

 ( अब घ्यूसहित चरु पनि हवन गर्ने )

ॐ गणानान्त्वा गणपति & हवामहे प्रियाणान्त्वा प्रियपति & हवामहे निधीनान्त्वा
निधिपति &हवामहे व्वसो मम । आहमजानि गर्भधमात्वमजासि गर्भधम् स्वाहा ॥

 इदं गणपतये न मम ।
( गणपतये स्वाहा इदं गणपतये )

ॐ आ कृष्ण्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यञ्च । 
 हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् स्वाहा ॥ 
इदं सूर्याय न मम ।
 ( सूर्याय स्वाहा इदं सूर्याय ) 

 ॐ देवीद्व इन्द्र सङ्घाते वीड्वीर्यामन्नवर्धयन् ।
आवत्सेन तरुणेन कुमारेण च मीवता पार्वाण & रेणुककाटं नुदन्तां वसुवने वसुधेयस्य व्यन्तु यज स्वाहा ।

इदं देव्यै न मम । 

 ॐ नमः शम्भवाय च मयो भवाय च नमः शङ्कराय च मयस्कराय च नमः । शिवाय च शिवतराय च स्वाहा ।
इदं शिवाय न मम ।  अत्र प्रणीतोदकस्पर्शः ।
( शिवलाई आहुति दिएर सुरोको टुप्पोले प्रणीतामा छुने ) 

 ॐ विष्णो रराटमसि विष्णोः श्नप्त्रेस्थो विष्णोः
स्यूरसि विष्णोधुवोसि वैष्णवमसि विष्णवे त्वा स्वाहा ।

इदं विष्णवे न मम । इति पाञ्चायनाः ।  अव यहाँ पुरुष सूक्त श्रीसूक्तले हवन गर्ने

शेष चारु होम ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते
आरति गर्ने
पुष्पाञ्जलि 

श्रितकमलाकुचमण्डल धृतकुण्डल ए
...धृतकुण्डल ए
कलितललितवनमाल जय जय देव हरे
दिनमणिमण्डलमण्डन भवखण्डन ए
...भवखण्डन ए
मुनिजनमानसहंस जय जय देव हरे
कालियविषधरगंजन जनरंजन ए
...जनरंजन ए
यदुकुलनलिनदिनेश जय जय देव हरे
मधुमुरनरकविनाशन गरुडासन ए
...गरुडासन ए
सुरकुलकेलिनिदान जय जय देव हरे
अमलकमलदललोचन भवमोचन ए
...भवमोचन ए
त्रिभुवनभवननिधान जय जय देव हरे
जनकसुताकृतभूषण जितदूषण ए
...जितदूषण ए
समरशमितदशकण्ठ जय जय देव हरे
अभिनवजलधरसुन्दरं धृतमंदिर ए
...धृतमंदिर ए
श्रीमुखचन्द्रचकोर जय जय देव हरे
तव चरणे प्रणता वयमिति भावय ए
...मिति भावय ए
कुरु कुशलं प्रणतेषु जय जय देव हरे
श्रीजयदेवकवेरुदितमिदं कुरुते सुंदरम्
...कुरुते सुंदरम्
मंगलमंजुलगीतं जय जय देव हरे
श्रितकमलाकुचमण्डल धृतकुण्डल ए
...धृतकुण्डल ए
कलितललितवनमाल जय जय देव हरे
कलितललितवनमाल जय जय देव हरे
कलितललितवनमाल जय जय देव हरे

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते

ॐ शान्तिः ॐ शान्तिः ॐ शान्तिः 

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top