अष्टाध्यायी षष्टः अध्यायः

Sri App

अष्टाध्यायी षष्टः अध्यायः

प्रथमः पादः

६-१-१ एकाचो द्वे प्रथमस्य ।
६-१-२ अजादेर्द्वितीयस्य ।
६-१-३ न न्द्राः संयोगादयः ।
६-१-४ पूर्वोऽभ्यासः ।
६-१-५ उभे अभ्यस्तम् ।
६-१-६ जक्षित्यादयः षट् ।
६-१-७ तुजादीनां दीर्घोऽभ्यासस्य ।
६-१-८ लिटि धातोरनभ्यासस्य ।
६-१-९ सन्यङोः ।
६-१-१० श्लौ ।
६-१-११ चङि ।
६-१-१२ दाश्वान् साह्वान् मीढ्वांश्च ।
६-१-१३ ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे ।
६-१-१४ बन्धुनि बहुव्रीहौ ।
६-१-१५ वचिस्वपियजादीनां किति ।
६-१-१६ ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च ।
६-१-१७ लिट्यभ्यासस्योभयेषाम् ।
६-१-१८ स्वापेश्चङि ।
६-१-१९ स्वपिस्यमिव्येञां यङि ।
६-१-२० न वशः ।
६-१-२१ चायः की ।
६-१-२२ स्फायः स्फी निष्ठायाम् ।
६-१-२३ स्त्यः प्रपूर्वस्य ।
६-१-२४ द्रवमूर्तिस्पर्शयोः श्यः ।
६-१-२५ प्रतेश्च ।
६-१-२६ विभाषाऽभ्यवपूर्वस्य ।
६-१-२७ शृतं पाके ।
६-१-२८ प्यायः पी ।
६-१-२९ लिड्यङोश्च ।
६-१-३० विभाषा श्वेः ।
६-१-३१ णौ च संश्चङोः ।
६-१-३२ ह्वः सम्प्रसारणम् ।
६-१-३३ अभ्यस्तस्य च ।
६-१-३४ बहुलं छन्दसि ।
६-१-३५ चायः की ।
६-१-३६ अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताःश्रितमाशीराशीर्त्तः ।
६-१-३७ न सम्प्रसारणे सम्प्रसारणम् ।
६-१-३८ लिटि वयो यः ।
६-१-३९ वश्चास्यान्यतरस्याम् किति ।
६-१-४० वेञः ।
६-१-४१ ल्यपि च ।
६-१-४२ ज्यश्च ।
६-१-४३ व्यश्च ।
६-१-४४ विभाषा परेः ।
६-१-४५ आदेच उपदेशेऽशिति ।
६-१-४६ न व्यो लिटि ।
६-१-४७ स्फुरतिस्फुलत्योर्घञि ।
६-१-४८ क्रीङ्जीनां णौ ।
६-१-४९ सिध्यतेरपारलौकिके ।
६-१-५० मीनातिमिनोतिदीङां ल्यपि च ।
६-१-५१ विभाषा लीयतेः ।
६-१-५२ खिदेश्छन्दसि ।
६-१-५३ अपगुरो णमुलि ।
६-१-५४ चिस्फुरोर्णौ ।
६-१-५५ प्रजने वीयतेः ।
६-१-५६ बिभेतेर्हेतुभये ।
६-१-५७ नित्यं स्मयतेः ।
६-१-५८ सृजिदृशोर्झल्यमकिति ।
६-१-५९ अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् ।
६-१-६० शीर्षंश्छन्दसि ।
६-१-६१ ये च तद्धिते ।
६-१-६२ अचि शीर्षः ।
६-१-६३ पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु ।
६-१-६४ धात्वादेः षः सः ।
६-१-६५ णो नः ।
६-१-६६ लोपो व्योर्वलि ।
६-१-६७ वेरपृक्तस्य ।
६-१-६८ हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् ।
६-१-६९ एङ्ह्रस्वात्‌ सम्बुद्धेः ।
६-१-७० शेश्छन्दसि बहुलम् ।
६-१-७१ ह्रस्वस्य पिति कृति तुक् ।
६-१-७२ संहितायाम् ।
६-१-७३ छे च ।
६-१-७४ आङ्माङोश्च ।
६-१-७५ दीर्घात्‌ ।
६-१-७६ पदान्ताद्वा ।
६-१-७७ इको यणचि ।
६-१-७८ एचोऽयवायावः ।
६-१-७९ वान्तो यि प्रत्यये ।
६-१-८० धातोस्तन्निमित्तस्यैव ।
६-१-८१ क्षय्यजय्यौ शक्यार्थे ।
६-१-८२ क्रय्यस्तदर्थे ।
६-१-८३ भय्यप्रवय्ये च च्छन्दसि ।
६-१-८४ एकः पूर्वपरयोः ।
६-१-८५ अन्तादिवच्च ।
६-१-८६ षत्वतुकोरसिद्धः ।
६-१-८७ आद्गुणः ।
६-१-८८ वृद्धिरेचि ।
६-१-८९ एत्येधत्यूठ्सु ।
६-१-९० आटश्च ।
६-१-९१ उपसर्गादृति धातौ ।
६-१-९२ वा सुप्यापिशलेः ।
६-१-९३ औतोऽम्शसोः ।
६-१-९४ एङि पररूपम् ।
६-१-९५ ओमाङोश्च ।
६-१-९६ उस्यपदान्तात्‌ ।
६-१-९७ अतो गुणे ।
६-१-९८ अव्यक्तानुकरणस्यात इतौ ।
६-१-९९ नाम्रेडितस्यान्त्यस्य तु वा ।
६-१-१०० नित्यमाम्रेडिते डाचि ।
६-१-१०१ अकः सवर्णे दीर्घः ।
६-१-१०२ प्रथमयोः पूर्वसवर्णः ।
६-१-१०३ तस्माच्छसो नः पुंसि ।
६-१-१०४ नादिचि ।
६-१-१०५ दीर्घाज्जसि च ।
६-१-१०६ वा छन्दसि ।
६-१-१०७ अमि पूर्वः ।
६-१-१०८ सम्प्रसारणाच्च ।
६-१-१०९ एङः पदान्तादति ।
६-१-११० ङसिङसोश्च ।
६-१-१११ ऋत उत्‌ ।
६-१-११२ ख्यत्यात्‌ परस्य ।
६-१-११३ अतो रोरप्लुतादप्लुते ।
६-१-११४ हशि च ।
६-१-११५ प्रकृत्याऽन्तःपादमव्यपरे ।
६-१-११६ अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च ।
६-१-११७ यजुष्युरः ।
६-१-११८ आपोजुषाणोवृष्णोवर्षिष्ठेऽम्बेऽम्बालेऽम्बिकेपूर्वे ।
६-१-११९ अङ्ग इत्यादौ च ।
६-१-१२० अनुदात्ते च कुधपरे ।
६-१-१२१ अवपथासि च ।
६-१-१२२ सर्वत्र विभाषा गोः ।
६-१-१२३ अवङ् स्फोटायनस्य ।
६-१-१२४ इन्द्रे च नित्यम्।
६-१-१२५ प्लुतप्रगृह्या अचि नित्यम् ।
६-१-१२६ आङोऽनुनासिकश्छन्दसि ।
६-१-१२७ इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च ।
६-१-१२८ ऋत्यकः ।
६-१-१२९ अप्लुतवदुपस्थिते ।
६-१-१३० ई३ चाक्रवर्मणस्य ।
६-१-१३१ दिव उत्‌ ।
६-१-१३२ एतत्तदोः सुलोपोऽकोरनञ्समासे हलि ।
६-१-१३३ स्यश्छन्दसि बहुलम् ।
६-१-१३४ सोऽचि लोपे चेत्‌ पादपूरणम् ।
६-१-१३५ सुट् कात्‌ पूर्वः ।
६-१-१३६ अडभ्यासव्यवायेऽपि ।
६-१-१३७ सम्पर्युपेभ्यः करोतौ भूषणे ।
६-१-१३८ समवाये च ।
६-१-१३९ उपात्‌ प्रतियत्नवैकृतवाक्याध्याहारेषु ।
६-१-१४० किरतौ लवने ।
६-१-१४१ हिंसायां प्रतेश्च ।
६-१-१४२ अपाच्चतुष्पाच्छकुनिष्वालेखने ।
६-१-१४३ कुस्तुम्बुरूणि जातिः ।
६-१-१४४ अपरस्पराः क्रियासातत्ये ।
६-१-१४५ गोष्पदं सेवितासेवितप्रमाणेषु ।
६-१-१४६ आस्पदं प्रतिष्ठायाम्‌ ।
६-१-१४७ आश्चर्यमनित्ये ।
६-१-१४८ वर्चस्केऽवस्करः ।
६-१-१४९ अपस्करो रथाङ्गम् ।
६-१-१५० विष्किरः शकुनिर्विकरो वा ।
६-१-१५१ ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे ।
६-१-१५२ प्रतिष्कशश्च कशेः ।
६-१-१५३ प्रस्कण्वहरिश्चन्द्रावृषी ।
६-१-१५४ मस्करमस्करिणौ वेणुपरिव्राजकयोः ।
६-१-१५५ कास्तीराजस्तुन्दे नगरे ।
६-१-१५६ कारस्करो वृक्षः ।
६-१-१५७ पारस्करप्रभृतीनि च संज्ञायाम् ।
६-१-१५८ अनुदात्तं पदमेकवर्जम्‌ ।
६-१-१५९ कर्षात्वतो घञोऽन्त उदात्तः ।
६-१-१६० उञ्छादीनां च ।
६-१-१६१ अनुदात्तस्य च यत्रोदात्तलोपः ।
६-१-१६२ धातोः ।
६-१-१६३ चितः ।
६-१-१६४ तद्धितस्य ।
६-१-१६५ कितः ।
६-१-१६६ तिसृभ्यो जसः ।
६-१-१६७ चतुरः शसि ।
६-१-१६८ सावेकाचस्तृतीयाऽऽदिविभक्तिः ।
६-१-१६९ अन्तोदत्तादुत्तरपदादन्यतरस्यामनित्यसमासे ।
६-१-१७० अञ्चेश्छन्दस्यसर्वनामस्थानम् ।
६-१-१७१ ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः ।
६-१-१७२ अष्टनो दीर्घात्‌ ।
६-१-१७३ शतुरनुमो नद्यजादी ।
६-१-१७४ उदात्तयणो हल्पूर्वात्‌ ।
६-१-१७५ नोङ्धात्वोः ।
६-१-१७६ ह्रस्वनुड्भ्यां मतुप्‌ ।
६-१-१७७ नामन्यतरस्याम्‌ ।
६-१-१७८ ङ्याश्छन्दसि बहुलम् ।
६-१-१७९ षट्त्रिचतुर्भ्यो हलादिः ।
६-१-१८० झल्युपोत्तमम् ।
६-१-१८१ विभाषा भाषायाम् ।
६-१-१८२ न गोश्वन्त्साववर्णराडङ्क्रुङ्कृद्भ्यः ।
६-१-१८३ दिवो झल् ।
६-१-१८४ नृ चान्यतरस्याम् ।
६-१-१८५ तित्स्वरितम् ।
६-१-१८६ तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकम्
अनुदात्तमहन्विङोः ।
६-१-१८७ आदिः सिचोऽन्यतरस्याम् ।
६-१-१८८ स्वपादिर्हिंसामच्यनिटि ।
६-१-१८९ अभ्यस्तानामादिः ।
६-१-१९० अनुदात्ते च ।
६-१-१९१ सर्वस्य सुपि ।
६-१-१९२ भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात् पूर्वम्
पिति ।
६-१-१९३ लिति ।
६-१-१९४ आदिर्णमुल्यन्यतरस्याम् ।
६-१-१९५ अचः कर्तृयकि ।
६-१-१९६ थलि च सेटीडन्तो वा ।
६-१-१९७ ञ्णित्यादिर्नित्यम् ।
६-१-१९८ आमन्त्रितस्य च ।
६-१-१९९ पथिमथोः सर्वनामस्थाने ।
६-१-२०० अन्तश्च तवै युगपत्‌ ।
६-१-२०१ क्षयो निवासे ।
६-१-२०२ जयः करणम् ।
६-१-२०३ वृषादीनां च ।
६-१-२०४ संज्ञायामुपमानम्‌ ।
६-१-२०५ निष्ठा च द्व्यजनात्‌ ।
६-१-२०६ शुष्कधृष्टौ ।
६-१-२०७ आशितः कर्ता ।
६-१-२०८ रिक्ते विभाषा ।
६-१-२०९ जुष्टार्पिते च छन्दसि ।
६-१-२१० नित्यं मन्त्रे ।
६-१-२११ युष्मदस्मदोर्ङसि ।
६-१-२१२ ङयि च ।
६-१-२१३ यतोऽनावः ।
६-१-२१४ ईडवन्दवृशंसदुहां ण्यतः ।
६-१-२१५ विभाषा वेण्विन्धानयोः ।
६-१-२१६ त्यागरागहासकुहश्वठक्रथानाम् ।
६-१-२१७ उपोत्तमं रिति ।
६-१-२१८ चङ्यन्यतरस्याम् ।
६-१-२१९ मतोः पूर्वमात्‌ संज्ञायां स्त्रियाम्‌ ।
६-१-२२० अन्तोऽवत्याः ।
६-१-२२१ ईवत्याः ।
६-१-२२२ चौ ।
६-१-२२३ समासस्य ।

द्वितीयः पादः
६-२-१ बहुव्रीहौ प्रकृत्या पूर्वपदम् ।
६-२-२ तत्पुरुषे
तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः ।
६-२-३ वर्णः वर्णेष्वनेते ।
६-२-४ गाधलवणयोः प्रमाणे ।
६-२-५ दायाद्यं दायादे ।
६-२-६ प्रतिबन्धि चिरकृच्छ्रयोः ।
६-२-७ पदेऽपदेशे ।
६-२-८ निवाते वातत्राणे ।
६-२-९ शारदेअनार्तवे ।
६-२-१० अध्वर्युकषाययोर्जातौ ।
६-२-११ सदृशप्रतिरूपयोः सादृश्ये ।
६-२-१२ द्विगौ प्रमाणे ।
६-२-१३ गन्तव्यपण्यं वाणिजे ।
६-२-१४ मात्रोपज्ञोपक्रमच्छाये नपुंसके ।
६-२-१५ सुखप्रिययोर्हिते ।
६-२-१६ प्रीतौ च ।
६-२-१७ स्वं स्व्आमिनि ।
६-२-१८ पत्यावैश्वर्ये ।
६-२-१९ न भूवाक्चिद्दिधिषु ।
६-२-२० वा भुवनम् ।
६-२-२१ आशङ्काबाधनेदीयस्सु संभावने ।
६-२-२२ पूर्वे भूतपूर्वे ।
६-२-२३ सविधसनीडसमर्यादसवेशसदेशेषु सामीप्ये ।
६-२-२४ विस्पष्टादीनि गुणवचनेषु ।
६-२-२५ श्रज्याऽवमकन्पापवत्सु भावे कर्मधारये ।
६-२-२६ कुमारश्च ।
६-२-२७ आदिः प्रत्येनसि ।
६-२-२८ पूगेष्वन्यतरस्याम् ।
६-२-२९ इगन्तकालकपालभगालशरावेषु द्विगौ ।
६-२-३० बह्वन्यतरस्याम् ।
६-२-३१ दिष्टिवितस्त्योश्च ।
६-२-३२ सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात्‌ ।
६-२-३३ परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु ।
६-२-३४ राजन्यबहुवचनद्वंद्वेऽन्धकवृष्णिषु ।
६-२-३५ संख्या ।
६-२-३६ आचार्योपसर्जनश्चान्तेवासी ।
६-२-३७ कार्तकौजपादयश्च ।
६-२-३८ महान् व्रीह्यपराह्णगृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु ।
६-२-३९ क्षुल्लकश्च वैश्वदेवे ।
६-२-४० उष्ट्रः सादिवाम्योः ।
६-२-४१ गौः सादसादिसारथिषु ।
६-२-४२ कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैतिलकद्रूःपण्यकम्बलो दासीभाराणां च ।
६-२-४३ चतुर्थी तदर्थे ।
६-२-४४ अर्थे ।
६-२-४५ क्ते च ।
६-२-४६ कर्मधारयेऽनिष्ठा ।
६-२-४७ अहीने द्वितीया ।
६-२-४८ तृतीया कर्मणि ।
६-२-४९ गतिरनन्तरः ।
६-२-५० तादौ च निति कृत्यतौ ।
६-२-५१ तवै चान्तश्च युगपत्‌ ।
६-२-५२ अनिगन्तोऽञ्चतौ वप्रत्यये ।
६-२-५३ न्यधी च ।
६-२-५४ ईषदन्यतरस्याम् ।
६-२-५५ हिरण्यपरिमाणं धने ।
६-२-५६ प्रथमोऽचिरोपसम्पत्तौ ।
६-२-५७ कतरकतमौ कर्मधारये ।
६-२-५८ आर्यो ब्राह्मणकुमारयोः ।
६-२-५९ राजा च ।
६-२-६० षष्ठी प्रत्येनसि ।
६-२-६१ क्ते नित्यार्थे ।
६-२-६२ ग्रामः शिल्पिनि ।
६-२-६३ राजा च प्रशंसायाम् ।
६-२-६४ आदिरुदात्तः ।
६-२-६५ सप्तमीहारिणौ धर्म्येऽहरणे ।
६-२-६६ युक्ते च ।
६-२-६७ विभाषाऽध्यक्षे ।
६-२-६८ पापं च शिल्पिनि ।
६-२-६९ गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे ।
६-२-७० अङ्गानि मैरेये ।
६-२-७१ भक्ताख्यास्तदर्थेषु ।
६-२-७२ गोबिडालसिंहसैन्धवेषूपमाने ।
६-२-७३ अके जीविकाऽर्थे ।
६-२-७४ प्राचां क्रीडायाम् ।
६-२-७५ अणि नियुक्ते ।
६-२-७६ शिल्पिनि चाकृञः ।
६-२-७७ संज्ञायां च ।
६-२-७८ गोतन्तियवं पाले ।
६-२-७९ णिनि ।
६-२-८० उपमानं शब्दार्थप्रकृतावेव ।
६-२-८१ युक्तारोह्यादयश्च ।
६-२-८२ दीर्घकाशतुषभ्राष्ट्रवटं जे ।
६-२-८३ अन्त्यात्‌ पूर्वं बह्वचः ।
६-२-८४ ग्रामेऽनिवसन्तः ।
६-२-८५ घोषादिषु ।
६-२-८६ छात्र्यादयः शालायाम् ।
६-२-८७ प्रस्थेऽवृद्धमकर्क्यादीनाम्‌ ।
६-२-८८ मालाऽऽदीनां च ।
६-२-८९ अमहन्नवं नगरेऽनुदीचाम् ।
६-२-९० अर्मे चावर्णं द्व्यच्त्र्यच् ।
६-२-९१ न भूताधिकसंजीवमद्राश्मकज्जलम् ।
६-२-९२ अन्तः ।
६-२-९३ सर्वं गुणकार्त्स्न्ये ।
६-२-९४ संज्ञायां गिरिनिकाययोः ।
६-२-९५ कुमार्यां वयसि ।
६-२-९६ उदकेऽकेवले ।
६-२-९७ द्विगौ क्रतौ ।
६-२-९८ सभायां नपुंसके ।
६-२-९९ पुरे प्राचाम् ।
६-२-१०० अरिष्टगौडपूर्वे च ।
६-२-१०१ न हास्तिनफलकमार्देयाः ।
६-२-१०२ कुसूलकूपकुम्भशालं बिले ।
६-२-१०३ दिक्‌शब्दा ग्रामजनपदाख्यानचानराटेषु ।
६-२-१०४ आचार्योपसर्जनश्चान्तेवासिनि ।
६-२-१०५ उत्तरपदवृद्धौ सर्वं च ।
६-२-१०६ बहुव्रीहौ विश्वं संज्ञयाम् ।
६-२-१०७ उदराश्वेषुषु ।
६-२-१०८ क्षेपे ।
६-२-१०९ नदी बन्धुनि ।
६-२-११० निष्ठोपसर्गपूर्वमन्यतरस्याम्‌ ।
६-२-१११ उत्तरपदादिः ।
६-२-११२ कर्णो वर्णलक्षणात्‌ ।
६-२-११३ संज्ञौपम्ययोश्च ।
६-२-११४ कण्ठपृष्ठग्रीवाजंघं च ।
६-२-११५ शृङ्गमवस्थायां च ।
६-२-११६ नञो जरमरमित्रमृताः ।
६-२-११७ सोर्मनसी अलोमोषसी ।
६-२-११८ क्रत्वादयश्च ।
६-२-११९ आद्युदात्तं द्व्यच् छन्दसि ।
६-२-१२० वीरवीर्यौ च ।
६-२-१२१ कूलतीरतूलमूलशालाऽक्षसममव्ययीभावे ।
६-२-१२२ कंसमन्थशूर्पपाय्यकाण्डं द्विगौ ।
६-२-१२३ तत्पुरुषे शालायां नपुंसके ।
६-२-१२४ कन्था च ।
६-२-१२५ आदिश्चिहणादीनाम् ।
६-२-१२६ चेलखेटकटुककाण्डं गर्हायाम् ।
६-२-१२७ चीरमुपमानम्‌ ।
६-२-१२८ पललसूपशाकं मिश्रे ।
६-२-१२९ कूलसूदस्थलकर्षाः संज्ञायाम् ।
६-२-१३० अकर्मधारये राज्यम् ।
६-२-१३१ वर्ग्यादयश्च ।
६-२-१३२ पुत्रः पुंभ्यः ।
६-२-१३३ नाचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः ।
६-२-१३४ चूर्णादीन्यप्राणिषष्ठ्याः ।
६-२-१३५ षट् च काण्डादीनि ।
६-२-१३६ कुण्डं वनम् ।
६-२-१३७ प्रकृत्या भगालम् ।
६-२-१३८ शितेर्नित्याबह्वज्बहुव्रीहावभसत्‌ ।
६-२-१३९ गतिकारकोपपदात्‌ कृत्‌ ।
६-२-१४० उभे वनस्पत्यादिषु युगपत्‌ ।
६-२-१४१ देवताद्वंद्वे च ।
६-२-१४२ नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु ।
६-२-१४३ अन्तः ।
६-२-१४४ थाथघञ्क्ताजबित्रकाणाम् ।
६-२-१४५ सूपमानात्‌ क्तः ।
६-२-१४६ संज्ञायामनाचितादीनाम्‌ ।
६-२-१४७ प्रवृद्धादीनां च ।
६-२-१४८ कारकाद्दत्तश्रुतयोरेवाशिषि ।
६-२-१४९ इत्थम्भूतेन कृतमिति च ।
६-२-१५० अनो भावकर्मवचनः ।
६-२-१५१ मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः ।
६-२-१५२ सप्तम्याः पुण्यम् ।
६-२-१५३ ऊनार्थकलहं तृतीयायाः ।
६-२-१५४ मिश्रं चानुपसर्गमसंधौ ।
६-२-१५५ नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः ।
६-२-१५६ ययतोश्चातदर्थे ।
६-२-१५७ अच्कावशक्तौ ।
६-२-१५८ आक्रोशे च ।
६-२-१५९ संज्ञायाम् ।
६-२-१६० कृत्योकेष्णुच्चार्वादयश्च ।
६-२-१६१ विभाषा तृन्नन्नतीक्ष्णशुचिषु ।
६-२-१६२ बहुव्रीहाविदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने ।
६-२-१६३ संख्यायाः स्तनः ।
६-२-१६४ विभाषा छन्दसि ।
६-२-१६५ संज्ञायां मित्राजिनयोः ।
६-२-१६६ व्यवायिनोऽन्तरम् ।
६-२-१६७ मुखं स्वाङ्गम् ।
६-२-१६८ नाव्ययदिक्‌शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः ।
६-२-१६९ निष्ठोपमानादन्यतरस्याम् ।
६-२-१७० जातिकालसुखादिभ्योऽनाच्छादनात्‌
क्तोऽकृतमितप्रतिपन्नाः ।
६-२-१७१ वा जाते ।
६-२-१७२ नञ्सुभ्याम् ।
६-२-१७३ कपि पूर्वम् ।
६-२-१७४ ह्रस्वान्तेऽन्त्यात्‌ पूर्वम् ।
६-२-१७५ बहोर्नञ्वदुत्तरपदभूम्नि ।
६-२-१७६ न गुणादयोऽवयवाः ।
६-२-१७७ उपसर्गात्‌ स्वाङ्गं ध्रुवमपर्शु ।
६-२-१७८ वनं समासे ।
६-२-१७९ अन्तः ।
६-२-१८० अन्तश्च ।
६-२-१८१ न निविभ्याम् ।
६-२-१८२ परेरभितोभाविमण्डलम् ।
६-२-१८३ प्रादस्वाङ्गं संज्ञायाम् ।
६-२-१८४ निरुदकादीनि च ।
६-२-१८५ अभेर्मुखम् ।
६-२-१८६ अपाच्च ।
६-२-१८७ स्फिगपूतवीणाऽञ्जोऽध्वकुक्षिसीरनामनाम च ।
६-२-१८८ अधेरुपरिस्थम् ।
६-२-१८९ अनोरप्रधानकनीयसी ।
६-२-१९० पुरुषश्चान्वादिष्टः ।
६-२-१९१ अतेरकृत्पदे ।
६-२-१९२ नेरनिधाने ।
६-२-१९३ प्रतेरंश्वादयस्तत्पुरुषे ।
६-२-१९४ उपाद् द्व्यजजिनमगौरादयः ।
६-२-१९५ सोरवक्षेपणे ।
६-२-१९६ विभाषोत्पुच्छे ।
६-२-१९७ द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ ।
६-२-१९८ सक्थं चाक्रान्तात्‌ ।
६-२-१९९ परादिश्छन्दसि बहुलम् ।

तृतीयः पादः
६-३-१ अलुगुत्तरपदे ।
६-३-२ पञ्चम्याः स्तोकादिभ्यः ।
६-३-३ ओजःसहोऽम्भस्तमसः तृतीयायाः ।
६-३-४ मनसः संज्ञायाम् ।
६-३-५ आज्ञायिनि च ।
६-३-६ आत्मनश्च पूरणे ।
६-३-७ वैयाकरणाख्यायां चतुर्थ्याः ।
६-३-८ परस्य च ।
६-३-९ हलदन्तात्‌ सप्तम्याः संज्ञायाम् ।
६-३-१० कारनाम्नि च प्राचां हलादौ ।
६-३-११ मध्याद्गुरौ ।
६-३-१२ अमूर्धमस्तकात्‌ स्वाङ्गादकामे ।
६-३-१३ बन्धे च विभाषा ।
६-३-१४ तत्पुरुषे कृति बहुलम् ।
६-३-१५ प्रावृट्शरत्कालदिवां जे ।
६-३-१६ विभाषा वर्षक्षरशरवरात्‌ ।
६-३-१७ घकालतनेषु कालनाम्नः ।
६-३-१८ शयवासवासिषु अकालात्‌ ।
६-३-१९ नेन्सिद्धबध्नातिषु ।
६-३-२० स्थे च भाषायाम् ।
६-३-२१ षष्ठ्या आक्रोशे ।
६-३-२२ पुत्रेऽन्यतरस्याम् ।
६-३-२३ ऋतो विद्यायोनिसम्बन्धेभ्यः ।
६-३-२४ विभाषा स्वसृपत्योः ।
६-३-२५ आनङ् ऋतो द्वंद्वे ।
६-३-२६ देवताद्वंद्वे च ।
६-३-२७ ईदग्नेः सोमवरुणयोः ।
६-३-२८ इद्वृद्धौ ।
६-३-२९ दिवो द्यावा ।
६-३-३० दिवसश्च पृथिव्याम् ।
६-३-३१ उषासोषसः ।
६-३-३२ मातरपितरावुदीचाम् ।
६-३-३३ पितरामातरा च च्छन्दसि ।
६-३-३४ स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे
स्त्रियामपूरणीप्रियाऽऽदिषु ।
६-३-३५ तसिलादिषु आकृत्वसुचः ।
६-३-३६ क्यङ्मानिनोश्च ।
६-३-३७ न कोपधायाः ।
६-३-३८ संज्ञापूरण्योश्च ।
६-३-३९ वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे ।
६-३-४० स्वाङ्गाच्चेतोऽमानिनि ।
६-३-४१ जातेश्च ।
६-३-४२ पुंवत्‌ कर्मधारयजातीयदेशीयेषु ।
६-३-४३ घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो
ह्रस्वः ।
६-३-४४ नद्याः शेषस्यान्यतरस्याम् ।
६-३-४५ उगितश्च ।
६-३-४६ आन्महतः समानाधिकरणजातीययोः ।
६-३-४७ द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः ।
६-३-४८ त्रेस्त्रयः ।
६-३-४९ विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् ।
६-३-५० हृदयस्य हृल्लेखयदण्लासेषु ।
६-३-५१ वा शोकष्यञ्रोगेषु ।
६-३-५२ पादस्य पदाज्यातिगोपहतेषु ।
६-३-५३ पद् यत्यतदर्थे ।
६-३-५४ हिमकाषिहतिषु च ।
६-३-५५ ऋचः शे ।
६-३-५६ वा घोषमिश्रशब्देषु ।
६-३-५७ उदकस्योदः संज्ञायाम् ।
६-३-५८ पेषंवासवाहनधिषु च ।
६-३-५९ एकहलादौ पूरयितव्येऽन्यतरस्याम् ।
६-३-६० मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च ।
६-३-६१ इको ह्रस्वोऽङ्यो गालवस्य ।
६-३-६२ एक तद्धिते च ।
६-३-६३ ङ्यापोः संज्ञाछन्दसोर्बहुलम् ।
६-३-६४ त्वे च ।
६-३-६५ इष्टकेषीकामालानां चिततूलभारिषु ।
६-३-६६ खित्यनव्ययस्य ।
६-३-६७ अरुर्द्विषदजन्तस्य मुम् ।
६-३-६८ इच एकाचोऽम्प्रत्ययवच्च ।
६-३-६९ वाचंयमपुरंदरौ च ।
६-३-७० कारे सत्यागदस्य ।
६-३-७१ श्येनतिलस्य पाते ञे ।
६-३-७२ रात्रेः कृति विभाषा ।
६-३-७३ नलोपो नञः ।
६-३-७४ तस्मान्नुडचि ।
६-३-७५ नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या ।
६-३-७६ एकादिश्चैकस्य चादुक् ।
६-३-७७ नगोऽप्राणिष्वन्यतरस्याम् ।
६-३-७८ सहस्य सः संज्ञायाम् ।
६-३-७९ ग्रन्थान्ताधिके च ।
६-३-८० द्वितीये चानुपाख्ये ।
६-३-८१ अव्ययीभावे चाकाले ।
६-३-८२ वोपसर्जनस्य ।
६-३-८३ प्रकृत्याऽऽशिष्यगोवत्सहलेषु ।
६-३-८४ समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु ।
६-३-८५ ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु ।
६-३-८६ चरणे ब्रह्मचारिणि ।
६-३-८७ तीर्थे ये ।
६-३-८८ विभाषोदरे ।
६-३-८९ दृग्दृशवतुषु ।
६-३-९० इदङ्किमोरीश्की ।
६-३-९१ आ सर्वनाम्नः ।
६-३-९२ विष्वग्देवयोश्च टेरद्र्यञ्चतौ वप्रत्यये ।
६-३-९३ समः समि ।
६-३-९४ तिरसस्तिर्यलोपे ।
६-३-९५ सहस्य सध्रिः ।
६-३-९६ सध मादस्थयोश्छन्दसि ।
६-३-९७ द्व्यन्तरुपसर्गेभ्योऽप ईत्‌ ।
६-३-९८ ऊदनोर्देशे ।
६-३-९९ अषष्ठ्यतृतीयास्थस्यान्यस्य
दुगाशिराशाऽऽस्थाऽऽस्थितोत्सुकोतिकारकरागच्छेषु ।
६-३-१०० अर्थे विभाषा ।
६-३-१०१ कोः कत्‌ तत्पुरुषेऽचि ।
६-३-१०२ रथवदयोश्च ।
६-३-१०३ तृणे च जातौ ।
६-३-१०४ का पथ्यक्षयोः ।
६-३-१०५ ईषदर्थे ।
६-३-१०६ विभाषा पुरुषे ।
६-३-१०७ कवं चोष्णे ।
६-३-१०८ पथि च च्छन्दसि ।
६-३-१०९ पृषोदरादीनि यथोपदिष्टम् ।
६-३-११० संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ ।
६-३-१११ ढ्रलोपे पूर्वस्य दीर्घोऽणः ।
६-३-११२ सहिवहोरोदवर्णस्य ।
६-३-११३ साढ्यै साढ्वा साढेति निगमे ।
६-३-११४ संहितायाम् ।
६-३-११५ कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नछिन्नछिद्रस्रुवस्वस्तिकस्य ।
६-३-११६ नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ ।
६-३-११७ वनगिर्योः संज्ञायां कोटरकिंशुलकादीनाम् ।
६-३-११८ वले ।
६-३-११९ मतौ बह्वचोऽनजिरादीनाम् ।
६-३-१२० शरादीनां च ।
६-३-१२१ इकः वहे अपीलोः ।
६-३-१२२ उपसर्गस्य घञ्यमनुष्ये बहुलम् ।
६-३-१२३ इकः काशे ।
६-३-१२४ दस्ति ।
६-३-१२५ अष्टनः संज्ञायाम् ।
६-३-१२६ छन्दसि च ।
६-३-१२७ चितेः कपि ।
६-३-१२८ विश्वस्य वसुराटोः ।
६-३-१२९ नरे संज्ञायाम् ।
६-३-१३० मित्रे चर्षौ ।
६-३-१३१ मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ ।
६-३-१३२ ओषधेश्च विभक्तावप्रथमायाम् ।
६-३-१३३ ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् ।
६-३-१३४ इकः सुञि ।
६-३-१३५ द्व्यचोऽतस्तिङः ।
६-३-१३६ निपातस्य च ।
६-३-१३७ अन्येषामपि दृश्यते ।
६-३-१३८ चौ ।
६-३-१३९ सम्प्रसारणस्य ।

चतुर्थः पादः
६-४-१ अङ्गस्य ।
६-४-२ हलः ।
६-४-३ नामि ।
६-४-४ न तिसृचतसृ ।
६-४-५ छन्दस्युभयथा ।
६-४-६ नृ च ।
६-४-७ नोपधायाः ।
६-४-८ सर्वनामस्थाने चासम्बुद्धौ ।
६-४-९ वा षपूर्वस्य निगमे ।
६-४-१० सान्तमहतः संयोगस्य ।
६-४-११ अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् ।
६-४-१२ इन्हन्पूषार्यम्णां शौ ।
६-४-१३ सौ च ।
६-४-१४ अत्वसन्तस्य चाधातोः ।
६-४-१५ अनुनासिकस्य क्विझलोः क्ङिति ।
६-४-१६ अज्झनगमां सनि ।
६-४-१७ तनोतेर्विभाषा ।
६-४-१८ क्रमश्च क्त्वि ।
६-४-१९ च्छ्वोः शूडनुनासिके च ।
६-४-२० ज्वरत्वरश्रिव्यविमवामुपधायाश्च ।
६-४-२१ राल्लोपः ।
६-४-२२ असिद्धवदत्राभात्‌ ।
६-४-२३ श्नान्नलोपः ।
६-४-२४ अनिदितां हल उपधायाः क्ङिति ।
६-४-२५ दन्शसञ्जस्वञ्जां शपि ।
६-४-२६ रञ्जेश्च ।
६-४-२७ घञि च भावकरणयोः ।
६-४-२८ स्यदो जवे ।
६-४-२९ अवोदैधौद्मप्रश्रथहिमश्रथाः ।
६-४-३० नाञ्चेः पूजायाम् ।
६-४-३१ क्त्वि स्कन्दिस्यन्दोः ।
६-४-३२ जान्तनशां विभाषा ।
६-४-३३ भञ्जेश्च चिणि ।
६-४-३४ शास इदङ्हलोः ।
६-४-३५ शा हौ ।
६-४-३६ हन्तेर्जः ।
६-४-३७ अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति ।
६-४-३८ वा ल्यपि ।
६-४-३९ न क्तिचि दीर्घश्च ।
६-४-४० गमः क्वौ ।
६-४-४१ विड्वनोरनुनासिकस्यात्‌ ।
६-४-४२ जनसनखनां सञ्झलोः ।
६-४-४३ ये विभाषा ।
६-४-४४ तनोतेर्यकि ।
६-४-४५ सनः क्तिचि लोपश्चास्यान्यतरस्याम् ।
६-४-४६ आर्धधातुके ।
६-४-४७ भ्रस्जो रोपधयोः रमन्यतरस्याम्‌ ।
६-४-४८ अतो लोपः ।
६-४-४९ यस्य हलः ।
६-४-५० क्यस्य विभाषा ।
६-४-५१ णेरनिटि ।
६-४-५२ निष्ठायां सेटि ।
६-४-५३ जनिता मन्त्रे ।
६-४-५४ शमिता यज्ञे ।
६-४-५५ अयामन्ताल्वाय्येत्न्विष्णुषु ।
६-४-५६ ल्यपि लघुपूर्वात्‌ ।
६-४-५७ विभाषाऽऽपः ।
६-४-५८ युप्लुवोर्दीर्घश्छन्दसि ।
६-४-५९ क्षियः ।
६-४-६० निष्ठायां अण्यदर्थे ।
६-४-६१ वाऽऽक्रोशदैन्ययोः ।
६-४-६२ स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च ।
६-४-६३ दीङो युडचि क्ङिति ।
६-४-६४ आतो लोप इटि च ।
६-४-६५ ईद्यति ।
६-४-६६ घुमास्थागापाजहातिसां हलि ।
६-४-६७ एर्लिङि ।
६-४-६८ वाऽन्यस्य संयोगादेः ।
६-४-६९ न ल्यपि ।
६-४-७० मयतेरिदन्यतरस्याम् ।
६-४-७१ लुङ्लङ्लृङ्क्ष्वडुदात्तः ।
६-४-७२ आडजादीनाम् ।
६-४-७३ छन्दस्यपि दृश्यते ।
६-४-७४ न माङ्योगे ।
६-४-७५ बहुलं छन्दस्यमाङ्योगेऽपि ।
६-४-७६ इरयो रे ।
६-४-७७ अचि श्नुधातुभ्रुवां य्वोरियङुवङौ ।
६-४-७८ अभ्यासस्यासवर्णे ।
६-४-७९ स्त्रियाः ।
६-४-८० वाऽम्शसोः ।
६-४-८१ इणो यण् ।
६-४-८२ एरनेकाचोऽसंयोगपूर्वस्य ।
६-४-८३ ओः सुपि ।
६-४-८४ वर्षाभ्वश्च ।
६-४-८५ न भूसुधियोः ।
६-४-८६ छन्दस्युभयथा ।
६-४-८७ हुश्नुवोः सार्वधातुके ।
६-४-८८ भुवो वुग्लुङ्लिटोः ।
६-४-८९ ऊदुपधाया गोहः ।
६-४-९० दोषो णौ ।
६-४-९१ वा चित्तविरागे ।
६-४-९२ मितां ह्रस्वः ।
६-४-९३ चिण्णमुलोर्दीर्घोऽन्यतरस्याम् ।
६-४-९४ खचि ह्रस्वः ।
६-४-९५ ह्लादो निष्ठायाम् ।
६-४-९६ छादेर्घेऽद्व्युपसर्गस्य ।
६-४-९७ इस्मन्त्रन्क्विषु च ।
६-४-९८ गमहनजनखनघसां लोपः क्ङित्यनङि ।
६-४-९९ तनिपत्योश्छन्दसि ।
६-४-१०० घसिभसोर्हलि च ।
६-४-१०१ हुझल्भ्यो हेर्धिः ।
६-४-१०२ श्रुशृणुपॄकृवृभ्यश्छन्दसि ।
६-४-१०३ अङितश्च ।
६-४-१०४ चिणो लुक् ।
६-४-१०५ अतो हेः ।
६-४-१०६ उतश्च प्रत्ययादसंयोगपूर्वात्‌ ।
६-४-१०७ लोपश्चास्यान्यतरस्यां म्वोः ।
६-४-१०८ नित्यं करोतेः ।
६-४-१०९ ये च ।
६-४-११० अत उत्‌ सार्वधातुके ।
६-४-१११ श्नसोरल्लोपः ।
६-४-११२ श्नाऽभ्यस्तयोरातः ।
६-४-११३ ई हल्यघोः ।
६-४-११४ इद्दरिद्रस्य ।
६-४-११५ भियोऽन्यतरस्याम् ।
६-४-११६ जहातेश्च ।
६-४-११७ आ च हौ ।
६-४-११८ लोपो यि ।
६-४-११९ घ्वसोरेद्धावभ्यासलोपश्च ।
६-४-१२० अत एकहल्मध्येऽनादेशादेर्लिटि ।
६-४-१२१ थलि च सेटि ।
६-४-१२२ तॄफलभजत्रपश्च ।
६-४-१२३ राधो हिंसायाम् ।
६-४-१२४ वा जॄभ्रमुत्रसाम् ।
६-४-१२५ फणां च सप्तानाम् ।
६-४-१२६ न शसददवादिगुणानाम् ।
६-४-१२७ अर्वणस्त्रसावनञः ।
६-४-१२८ मघवा बहुलम् ।
६-४-१२९ भस्य ।
६-४-१३० पादः पत् ।
६-४-१३१ वसोः सम्प्रसारणम् ।
६-४-१३२ वाह ऊठ् ।
६-४-१३३ श्वयुवमघोनामतद्धिते ।
६-४-१३४ अल्लोपोऽनः ।
६-४-१३५ षपूर्वहन्धृतराज्ञामणि ।
६-४-१३६ विभाषा ङिश्योः ।
६-४-१३७ न संयोगाद्वमान्तात्‌ ।
६-४-१३८ अचः ।
६-४-१३९ उद ईत्‌ ।
६-४-१४० आतो धातोः ।
६-४-१४१ मन्त्रेष्वाङ्यादेरात्मनः ।
६-४-१४२ ति विंशतेर्डिति ।
६-४-१४३ टेः ।
६-४-१४४ नस्तद्धिते ।
६-४-१४५ अह्नष्टखोरेव ।
६-४-१४६ ओर्गुणः ।
६-४-१४७ ढे लोपोऽकद्र्वाः ।
६-४-१४८ यस्येति च ।
६-४-१४९ सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः ।
६-४-१५० हलस्तद्धितस्य ।
६-४-१५१ आपत्यस्य च तद्धितेऽनाति ।
६-४-१५२ क्यच्व्योश्च ।
६-४-१५३ बिल्वकादिभ्यश्छस्य लुक् ।
६-४-१५४ तुरिष्ठेमेयस्सु ।
६-४-१५५ टेः ।
६-४-१५६ स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य
च गुणः ।
६-४-१५७ प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः ।
६-४-१५८ बहोर्लोपो भू च बहोः ।
६-४-१५९ इष्ठस्य यिट् च ।
६-४-१६० ज्यादादीयसः ।
६-४-१६१ र ऋतो हलादेर्लघोः ।
६-४-१६२ विभाषर्जोश्छन्दसि ।
६-४-१६३ प्रकृत्यैकाच् ।
६-४-१६४ इनण्यनपत्ये ।
६-४-१६५ गाथिविदथिकेशिगणिपणिनश्च ।
६-४-१६६ संयोगादिश्च ।
६-४-१६७ अन् ।
६-४-१६८ ये चाभावकर्मणोः ।
६-४-१६९ आत्माध्वानौ खे ।
६-४-१७० न मपूर्वोऽपत्येऽवर्मणः ।
६-४-१७१ ब्राह्मोअजातौ ।
६-४-१७२ कार्मस्ताच्छील्ये ।
६-४-१७३ औक्षमनपत्ये ।
६-४-१७४ दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवाशिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि ।
६-४-१७५ ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि ।

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top